श्रीदत्तात्रेयस्तुतिः · अध्याय 1
श्री दत्तात्रेय स्तुती
दत्तात्रेयं सनातनं ब्रह्म निरञ्जनम् ।
आदिदेवं निराकारं व्यक्तं गुणविवर्जितम्
चिन्मयं व्यापितं सर्वं चिदाकाशं दिगम्बरम् ।
निर्विकल्पं निराभासं दृश्यदर्शनवर्जितम्
अगोचरं निरालम्बं ब्रह्मचारी यतीश्वरः ।
बर्गलोकनायकं स्म्पूर्णं परमात्मनरक्षकः
आशापाशविबन्धनमुक्तः शौचाशौचविवर्जितयुक्तः ।
शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः
दत्तात्रेय नाथोत्तमं सुखदं परमानन्दसागरम् ।
चित्कीर्तिभूषणं वन्दे स्मर्तृगामी स माऽवतु
हर्षवर्धनं वन्दे कौवल्यसुखदायकं ।
सकलागमपूजितं वन्दे स्मर्तृगामी स माऽवतु
संसारतमनाशनं संकल्पदु:खदलनम् ।
तापत्रयनिवारकं वन्दे स्मर्तृगामी स माऽवतु
संशयार्णवखण्डनं दोषत्रयविभेदिनम् ।
ब्रह्मप्रकाशात्मानं वन्दे स्मर्तृगामी स माऽवतु
भार्गवप्रियकृत्तमं दूरत्वपरिनाशनम् ।
जगदार्जवपालनं वन्दे स्मर्तृगामी स माऽवतु
नमस्ते कालाग्निशमनाय योगिजनवल्लभाय नमोऽस्तु ते ।
नमस्ते अत्रिपुत्राय दत्तात्रेयाय नमोऽस्तु ते
नमस्ते लीलाविश्वम्भराय अवधूताय नमोऽस्तु ते ।
नमस्ते अनसूयानन्दनाय दिगम्बराय नमोऽस्तु ते
नमस्ते सत्वसाध्याय सत्वसाक्षिणे नमोऽस्तु ते ।
नमस्ते गुह्यतमाय चिद् विलासाय नमोऽस्तु ते
नमस्ते क्षेत्राधाराय क्षेत्रशून्याय नमोऽस्तु ते ।
नमस्ते रुपकारणाय गगनाकृतये नमोऽस्तु ते
श्री दत्तात्रेय पाहि मां प्रसीद दिगम्बर ।
क्षमस्व अवधूत रक्ष रक्ष श्रीगुरो
मूल पाठ: śrīdattātreyastutiḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0