भाषा

ENहिગુ
ग्रंथ पाठ

श्री दुर्गासप्तशती सार · अध्याय 1

1

या माया मधुकैट्भप्रमथनी या महिषोन्मूलिनी ।
या धुम्रेक्षणचंडमुंड्मथनी या रक्तबीजाशनी ।
शक्ती: शुंभनिशुंभ दैत्यदलीनी, या सिद्धीलक्ष्मी: परा ।
सा चंडी नवकोटीमूर्तिसहिता मां पातु विश्वेश्वरी

2

स्तुता सुरै: पुर्वमभीष्टसंश्रयात्तथा सुरेंद्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरीश्वरी शुभानी भद्राण्यभिहन्तु चापदः

3

या सांप्रतं चोद्धतदैत्यतापितैरस्माभिरीषा च सुरैर्नमस्यते ।
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः

4

या च स्म्रुता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभि: ।
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः

5

सर्वाबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरी ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्

6

सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते

7

स्रुष्टीस्थितिविनाशाम् शक्तिभूते सनातनी ।
गुणाश्रये गुणमये नारायणी नमोस्तुते

8

शरणागतदीनार्त परित्राण परायणे ।
सर्वस्यार्तिहरे देवी नारायणी नमोस्तुते

9

सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्राहि नो देवी दुर्गे देवी नमोस्तुते

मूल पाठ: śrī durgāsaptaśatī sāra · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc