भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.64

7.64.1

॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वदिग्भागे धनुषां पंचके स्थितम् ॥
लक्ष्मीश्वरेति विख्यातं दारिद्र्यौघविनाशनम्

7.64.2

यत्र देव्या समानीता लक्ष्मीर्देत्यान्निहत्य च ॥
तेन लक्ष्मीश्वरं नाम स्वयं देव्या प्रतिष्ठितम्

7.64.3

यस्तं पूजयते भक्त्या श्रीपंचम्यां विधानतः ॥
न विमुक्तो भवेल्लक्ष्म्या यावन्मन्वतरं प्रिये

7.64.64

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये लक्ष्मीश्वरमाहात्म्यवर्णनंनाम चतुःषष्टितमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc