ग्रंथ पाठ
स्कन्द पुराण · श्लोक 7.44-3
7.44-3.1
॥ ईश्वर उवाच ॥ ॥
आदित्येशं समभ्यर्च्य पुनः सोमेश्वरं व्रजेत् ॥
तं संपूज्य विधानेन पंचांगेन विशेषतः
7.44-3.2
दृष्ट्वा सोमेश्वरं चैव साष्टांगं प्रणिपत्य च ॥
प्रदक्षिणादिकं कुर्यात्संपश्येच्च पुनःपुनः
7.44-3.3
सूर्याचन्द्रमसोर्लिंगं त्रिःकृत्वा प्रयतः शुचिः ॥
अग्नीषोमात्मकं कर्म तेन सर्वं कृतं भवेत्
7.44-3.4
उमादेवीं ततो गच्छेत्सोमेश्वरसमीपतः ॥
द्वितीयां तु ततो गच्छेद्दैत्यसूदनसन्निधौ
7.44-3.44
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रमासक्षेत्रमाहात्म्ये सोमेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0