ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.362
7.362.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गोष्पदस्योत्तरे स्थितम् ॥
गव्यूतिद्वितयेनैव वलाय इति विश्रुतम्
7.362.2
तत्रैकादशरुद्राणां स्थानलिंगान्यपि प्रिये ॥
अजैकपादहिर्बुध्न्यः संतीत्यादीनि नामतः ॥
पूजयेत्तानि विधिवन्मुच्यते सर्वपातकैः
7.362.362
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रलिंगमाहात्म्यवर्णनंनाम द्विषष्ट्युत्तरत्रिशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0