ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.356
7.356.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि शृंगेश्वरमनुत्तमम् ॥
शुकस्थानस्य सान्निध्ये सर्वपातकनाशनम्
7.356.2
स्नात्वा तत्रैव विधिवच्छृंगेशं पूजयेन्नरः ॥
मुक्तः स्यात्पातकैः सर्वैरृष्यशृंगो यथा पुरा
7.356.356
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शृंगेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशदुत्तरत्रिशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0