भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.354

7.354.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवगुप्तेश्वरं प्रिये ॥
तत्र पश्चिमवायव्ये यत्र सोमोऽकरोत्तपः

7.354.2

गुप्तो भूत्वा कुष्ठरोगाल्लज्जयाधोमुखः स्थितः ॥
दिव्यं वर्षसहस्रं तु प्रभासक्षेत्र उत्तमे

7.354.3

ततः प्रत्यक्षतां यातः सर्वदेवपतिः शिवः ॥
तुष्टो बभूव चंद्रस्य क्षयनाशं तथाऽकरोत्

7.354.4

क्षयरोगविनिर्मुक्तस्ततोऽभून्मृगलांछनः ॥
प्रतिष्ठाप्य महालिंगं सुरासुरनमस्कृतम्

7.354.5

गुप्तस्तेपे तपो यस्मात्तस्माद्गुप्तेश्वरः स्मृतः ॥
सर्वकुष्ठहरो देवो दर्शनात्स्पर्शनादपि

7.354.6

सोमवारे विशेषेण यस्तल्लिंगं प्रपूजयेत् ॥
तस्यान्वयेऽपि देवेशि कुष्ठी कश्चिन्न जायते

7.354.354

इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुप्तेश्वरमाहात्म्यवर्णनंनाम चतुष्पञ्चाशदुत्तरत्रिशततमो ऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc