भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.340

7.340.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्र स्थाने तु संस्थितम्॥
चण्डीश्वरं महालिंगं सर्वपातकनाशनम्

7.340.2

तत्र शुक्लचतुर्द्दश्यां कार्तिके मासि भामिनि ॥
उपवासपरो भूत्वा यः करोति प्रजागरम् ॥
स याति परमं स्थानं यत्र देवो महेश्वरः

7.340.340

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्ये चण्डीश्वरमाहात्म्यवर्णनं नाम चत्वारिंशदुत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc