ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.326
7.326.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्यैवोत्तरतः स्थितम् ॥
महाकालेश्वरं देवं सर्वरक्षाकरं परम्
7.326.2
अधिष्ठाता पुरस्यास्य भैरवो रुद्ररूपधृक् ॥
दर्शे च पूर्णिमायां च महापूजां प्रकारयेत्
7.326.3
महोदये नरः स्नात्वा महाकालं प्रपश्यति ॥
धनाढ्यो जायते लोके सप्तजन्मसहस्रकम्
7.326.326
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये महाकालमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरत्रिशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0