भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.311

7.311.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गोपालस्वामिनं हरिम् ॥
चण्डीशात्पूर्वदिग्भागे धनुषां विंशतौ स्थितम्

7.311.2

सर्वपापोपशमनं दारिद्र्यौघविनाशनम्॥
तं दृष्ट्वा पूजयित्वा च माघे मासि विशेषतः ॥
पूजा जागरणं कृत्वा तत्र गच्छेत्परं पदम्

7.311.311

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गोपाल स्वामिहरिमाहात्म्यवर्णनंनामैकादशोत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc