भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.309

7.309.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विनायकमनुत्तमम् ॥
चतुर्मुखेति विख्यातं चण्डीशादुत्तरे स्थितम्

7.309.2

किञ्चिदीशानदिग्भागे धनुषां च चतुष्टये ॥
तं प्रयत्नाच्च संपूज्य सर्वविघ्नैः प्रमुच्यते

7.309.3

गन्धपुष्पादिभिस्तत्र भक्ष्यैर्भोज्यैः समोदकैः ॥
चतुर्मुखं चतुर्थ्यां तु संपूज्य सिद्धिभाग्भवेत्

7.309.309

इति श्रीस्कांदे महपुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चतुर्मुखविनायक माहात्म्यवर्णनंनाम नवोत्तरत्रिशततमोऽध्यायः ॥

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc