भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.307

7.307.1

॥ ईश्वर उवाच ॥ ॥
सांबादित्याच्च पूर्वेण किञ्चिदाग्नेयसंस्थितः ॥
अपरनारायणोनाम यस्मान्नास्ति परो भुवि

7.307.2

स तु सांबस्य देवेशि सूर्यो विष्णुस्वरूपवान् ॥
अपरां मूर्तिमास्थाय विष्णुरूपो वरं ददौ

7.307.3

तेनापरेति नाम्ना वै ख्यातो विष्णुः पुराऽभवत् ॥
फाल्गुनामलपक्षे तु एकादश्यां विधानतः

7.307.4

पूजयेत्पुण्डरीकाक्षं तत्र सूर्यस्वरूपिणम् ॥
मुक्तो भवति पापेभ्यः सर्वकामैः समृध्यते

7.307.307

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे प्रथमे प्रभासक्षेत्रमाहात्स्येऽपरनारायणमाहात्म्यवर्णनंनाम सप्तोत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc