भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.299

7.299.1

॥ ईश्वर उवाच ॥ ॥
तस्यैव दक्षिणे भागे नातिदूरे व्यवस्थितम्॥
शंखचक्रगदाधारी माधवस्तत्र संस्थितः

7.299.2

एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः ॥
यस्तं पूजयते भक्त्या गंधपुष्पानुलेपनैः ॥
स याति परमं स्थानमपुनर्भवदायकम्

7.299.3

अत्र गाथा पुरा गीता ब्रह्मणा लोककर्तृणा ॥
विष्णुकुण्डे नरः स्नात्वा यो वै माधवमर्चयेत् ॥
स यास्यति परं स्थानं यत्र देवो हरिः स्वयम्

7.299.4

एतत्ते सर्वमाख्यातं माहात्म्यं विष्णुदैवतम् ॥
सर्वकामप्रदं नृणां सर्वपातकनाशनम्

7.299.299

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये माधवमाहात्म्यवर्णनंनाम नवनवत्युत्तरद्वि शततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc