ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.293
7.293.1
॥ ईश्वर उवाच ॥ ॥
तस्माद्वैश्रवण स्थानान्नैरृत्यां वरवर्णिनि ॥
स्वयं स्थितः कुबेरस्तु सर्वदारिद्र्यनाशनः
7.293.2
मकरादिनिधानैस्तु अष्टाभिः परिभूषितः ॥
पञ्चम्यां पूजयेद्भक्त्या गन्धपुष्पानुलेपनैः ॥
निधानप्राप्तिरतुला निर्विघ्ना तस्य जायते
7.293.293
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभामक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये कुबेरस्थानोत्पत्तौ कुबेरमाहात्म्यवर्णनंनाम त्रिनवत्युत्तरद्विशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0