ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.289
7.289.1
॥ ईश्वर उवाच ॥ ॥
तस्यैव दक्षिणे देवि तस्माद्गव्यूतिमात्रतः ॥
पातालगामिनी गंगा संस्थिता पापनाशिनी
7.289.2
विश्वामित्रेण चाहूता स्नानार्थं वरवर्णिनि ॥
तत्र स्नात्वा महादेवि मुच्यते सर्वपातकैः
7.289.3
तत्र गंगेश्वरं दृष्ट्वा विश्वामित्रेश्वरं तथा ॥
बालेश्वरं च संप्रेक्ष्य सर्वान्कामानवाप्नुयात्
7.289.289
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बालार्कमाहात्म्ये पाताल गंगेश्वरविश्वामित्रेश्वरबालेश्वराभिधलिंगत्रयमाहात्म्यवर्णनंनामैकोननवत्युत्तरद्विशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0