ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.262
7.262.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि वराहं तत्र संस्थितम् ॥
गोष्पदाद्दक्षिणे भागे स्थितं पापप्रणाशनम्
7.262.2
एकादश्यां सिते पक्षे यस्तं पूजयते नरः ॥
स मुक्तः पातकैः सर्वैर्गच्छेद्विष्णुपदं महत्
7.262.262
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वराहस्वामिमाहात्म्यवर्णनंनाम द्विषष्ट्युत्तरद्विशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0