ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.243
7.243.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि क्षेत्रपालं महाप्रभम् ॥
ईशाने संस्थितं देवं मंत्रमालाविभूषितम्
7.243.2
हिरण्यातटमाश्रित्य रक्षार्थं समुपस्थितम् ॥
तत्रैव हीरकं क्षेत्रं तस्मिन्रक्षां करोति सः
7.243.3
कृष्णपक्षे त्रयोदश्यां तत्र तं पूजयेन्नरः ॥
गंधपुष्पोपहारैश्च तथा बलि निवेदनैः
7.243.4
एवं संपूजितो देवः सर्वकामप्रदो भवेत्
7.243.243
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मंत्रावलिक्षेत्रपालमाहात्म्यवर्णनंनाम त्रिचत्वारिंशदुत्तरद्विशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0