भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.238

7.238.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि हिरण्यां पापनाशिनीम् ॥
सर्वकामप्रदां पुण्यां दारिद्र्यस्यांतकारिणीम्

7.238.2

तत्र स्नात्वा विधानेन कृत्वा पिंडोदक क्रियाम् ॥
प्राप्नुयादक्षयाँल्लोकान्पितॄनुद्धृत्य पापतः

7.238.3

एकं यो भोजयेत्तत्र ब्राह्मणं शंसितव्रतम् ॥
तेनायुतसहस्रं हि भोजितं स्याद्द्विजन्मनाम् ॥

7.238.4

तत्र हेमरथा देयो ब्राह्मणे वेदपारगे ॥
विधिना शिवमुद्दिश्य यात्रायुतफलं लभेत्

7.238.238

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये हिरण्यानदीमाहात्म्यवर्णनंनामाष्टात्रिंशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc