ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.230
7.230.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं गणपतिप्रियम् ॥
तत्रैव संस्थितं सम्यङ्मया तत्र नियोजितः
7.230.2
गङ्गाया दक्षिणे देवि क्षेत्ररक्षणतत्परः ॥
माघे कृष्णचतुर्दश्यां यस्तं पूजयते नरः
7.230.3
दिव्यमोदकनैवेद्यैः पुष्पधूपादिभिः क्रमात् ॥
न तस्य जायते विघ्नं यावत्क्षेत्रे वसत्यसौ
7.230.230
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गणपतिमाहात्म्यवर्णनंनाम त्रिंशदुत्तरद्विशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0