भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.226

7.226.1

॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वभागे तु नैरृते पापमोचनात् ॥
मेघेश्वरेति विख्यातं सर्वपातकनाशनम्

7.226.2

अनावृष्टिभये जाते शांतिं तत्रैव कारयेत् ॥
वारुणीं विप्रमुख्यैस्तु भावयेदुदकैर्महीम्

7.226.3

मेघैः प्रतिष्ठितं लिंगं यत्र नित्यं प्रपूज्यते ॥
अनावृष्टिभयं किंचिन्न च तत्र प्रजायते

7.226.226

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मेघेश्वरमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc