ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.222
7.222.1
॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं लिंगं रुक्मवत्या प्रतिष्ठितम्॥
सर्वपापोपशमनं सर्वकामफलप्रदम्
7.222.2
तत्र स्नात्वा महातीर्थे लिंगं संप्लाव्य यत्नतः ॥
विप्रेभ्यो दापयेद्वित्तं मुच्यते सर्वपातकैः
7.222.222
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रुक्मवतीश्वरमाहात्म्यवर्णनंनाम द्वाविंशत्युत्तरद्विशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0