ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.217
7.217.1
॥ ईश्वर उवाच ॥ ॥
गौतमेश्वरतो देवि पश्चिमे नातिदूरतः ॥
धनुःषोडशभिर्देवि देवराजेश्वरः स्थितः
7.217.2
लिंगं स स्थापयामास ततः पापैर्व्यमुच्यत ॥
यस्तं समाहितमनाः पूजयिष्यति मानवः ॥
स च मानवसंभूतात्पातकात्संप्रमोक्ष्यति
7.217.217
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देवराजेश्वरमाहात्म्यवर्णनंनाम सप्तदशोत्तरद्विशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0