भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.194

7.194.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं देवैः प्रतिष्ठितम् ॥
ज्ञात्वा प्रभावं क्षेत्रस्य सर्वपातकनाशनम्

7.194.2

तत्र कृत्वा तपश्चोग्रं लिंगं देवैः प्रतिष्ठितम् ॥
तं दृष्ट्वा मानवो देवि कृतकृत्यः प्रजायते

7.194.3

गोदानं तत्र देयं तु ब्राह्मणे वेदपारगे ॥
सम्यक्च लभते देवि यात्रायाः फलमूर्जितम्

7.194.194

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्येऽमरेश्वरमाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc