ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.188
7.188.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्र स्थाने तु संस्थितम् ॥
रुद्रेश्वरेतिनामानं स्वयंभूतं धरातले
7.188.2
आदिप्रभासात्पुरतो धनुषां त्रितये स्थितम् ॥
रुद्रेण ध्यानमास्थाय स्वं तेजस्तत्र योजितम्
7.188.3
ततो रुद्रेश्वरंनाम सर्वपातकनाशनम् ॥
तं दृष्ट्वा पूजयित्वा च सर्वान्कामानवाप्नुयात्
7.188.188
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रुद्रेश्वरमाहात्म्यवर्णनंनामाष्टाशीत्युत्तरशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0