स्कन्द पुराण · अध्याय 7.182
ततो मातृगणान्पश्येद्वसुनन्दादिनामतः ॥
अर्क स्थलसमीपस्थान्दक्षिणे नातिदूरतः
आश्वयुक्छुक्लपक्षे तु नवम्यां नियतात्मवान् ॥
यस्ताः पूजयते मातॄर्विधिना भावितात्मवान्
स समृद्धिमवाप्नोति दुरापामकृतात्मभिः ॥
तत्रैव संस्थितं पश्येच्छ्रीमुखं विवरप्रियम्
तस्मिन्नेव दिने पूज्यं सिद्धिकामैर्नरैः सदा ॥
एतत्पूर्वं मयाख्यातं तव विस्तरतः प्रिये
तस्मिन्नेव दिने पूज्यं तीर्थयात्राप्रसंगतः
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये वसुनन्दामातृगणश्रीमुखविवर माहात्म्यवर्णनंनाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0