भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.170

7.170.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्र मातृगणान्सुधीः ॥
तत्रैव बलदेवीं च नातिदूरे व्यवस्थिताम्

7.170.2

श्रावण्यां श्रावणे मासि यस्तां पूजयते नरः ॥
पायसैर्मधुना वापि दिव्यपुष्पोपहारकैः ॥

7.170.3

तस्य वर्षं महादेवि सुखं गच्छेत्सुपूजितम्

7.170.170

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मातृगणबलदेवीमाहात्म्यवर्णनंनाम सप्तत्युत्तरशततमोध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc