भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.162

7.162.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्माद्दक्षिणतः स्थितम् ॥
लक्ष्मणेशाच्च पूर्वस्मिँल्लिंगमष्टकुलेश्वरम्

7.162.2

सर्वपापप्रशमनं महाविषप्रणाशनम् ॥
पूजितं सिद्धगन्धर्वैर्वाञ्छितार्थप्रदायकम्

7.162.3

यस्तं पूजयते मर्त्यः कृष्णाष्टम्यां विधानतः ॥
स मुक्तः पातकैर्घोरैर्नागलोके महीयते

7.162.162

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्येऽष्टकुलेश्वरमाहात्म्यवर्णनंनाम द्विषष्ट्युत्तर शततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc