ग्रंथ पाठ
शतपथब्राह्मणम् · अध्याय 4.6.2
4.6.2.4.6.2.1
४.६.२ विषुवदहः
एतं वा एते गच्छन्ति । षड्भिर्मासैर्य एष तपति ये संवत्सरमासते तदुच्यत एव सामतो यथैतस्य रूपं क्रियत उच्यत ऋक्तोऽथैतदेव यजुष्टः पुरश्चरणतो यदेतं गृह्णन्त्येतेनो एवैनं गच्छन्ति -
4.6.2.4.6.2.2
अथातो गृह्णात्येव । उदु त्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्यम् उपयामगृहीतोऽसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजायेति -
मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0