ग्रंथ पाठ
शतपथब्राह्मणम् · अध्याय 14.8.12
सर्वासामुपासनानां गतेः फलस्य च विधायकं ब्राह्मणम्
यदा वै पुरुषो अस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा
रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते
यथा डम्बरस्य खं तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते स लोकमागच्छत्यशोकमहिमं तस्मिन्वसति शश्वतीः समाः - १४.८.१२
रथोपरि टिप्पणी
मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0