शतपथब्राह्मणम् · अध्याय 13.3.7
१३.३.७ अश्वमेधस्य यौगिकसंज्ञाद्वादशकाभिधायकं ब्राह्मणम्
एष वै प्रभूर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रभूतम्भवति -
एष वै विभूर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव विभूतं भवति -
एष वै व्यष्टिर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यष्टं भवति -
एष वै विधृतिर्नाम यज्ञः यत्रैतेन यजन्ते सर्वमेव विधृतं भवति -
एष वै व्यावृत्तिर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यावृत्तम्भवति -
एष वा ऊर्जस्वान्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेवोर्जस्वद्भवति -
एष वै पयस्वान्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव पयस्वद्भवति -
एष वै ब्रह्मवर्चसी नाम यज्ञः यत्रैतेन यज्ञेन यजन्त आ ब्राह्मणो ब्रह्मवर्चसी जायते -
एष वा अतिव्याधी नाम यज्ञः यत्रैतेन यज्ञेन यजन्त आ राजन्योऽतिव्याधी जायते -
एष वै दीर्घो नाम यज्ञः यत्रैतेन यज्ञेन यजन्त आ दीर्घारण्यं जायते -
एष वै कॢप्तिर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव कॢप्तं भवति -
एष वै प्रतिष्ठा नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रतिष्ठितम्भवति -
मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0