ग्रंथ पाठ
शतपथब्राह्मणम् · अध्याय 11.7.3
11.7.3.11.7.3.1
स य एष बहुसारः। स हापशव्यस्तस्मात्तादृशं पशुकामो यूपं न कुर्वीताथ य एष फल्गुप्रासहः स ह पशव्यस्तस्मात्तादृशं पशुकामो यूपं कुर्वीत -
11.7.3.11.7.3.2
अथ यस्यैतद्वक्रस्य सतः। शूल इवाग्रं भवति स ह कपोती नाम स यो ह तादृशं यूपं कुरुते पुरा हायुषोऽमुं लोकमेति तस्मात्तादृशमायुष्कामो यूपं न कुर्वीत -
11.7.3.11.7.3.3
अथ य एष आनतः। उपरिष्टादपनतो मध्ये सोऽशनायै रूपं स यो ह तादृशं यूपं कुरुतेऽशनायुका हास्य भार्या भवन्ति तस्मात्तादृशमन्नाद्यकामो यूपं न कुर्वीताथ य एष आनत उपरिष्टादुपनतो मध्ये सोऽन्नाद्यस्य रूपं तस्मात्तादृशमन्नाद्यकामो यूपं कुर्वीत -
मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0