शतपथब्राह्मणम् · अध्याय 1.2
ब्राह्मण
कपालोपधानपेषणयोर्यौगपद्यं,तदुपपत्तिः, तयोः सम्बन्धिनी सकलेतिकर्तव्यता, तत्र उपवेषधृष्टिशब्दनिर्वचनं, मध्यमकपाले आभिचारिको विधिः, शम्याया जिह्वासंस्तवः, पेषणप्रोहणमन्त्राभिप्रायाविष्करणम्,
आज्यनिर्वापस्तन्निर्वापमन्त्रस्यानिरुक्तयजुष्ट्वप्रतिपादनं, तत्तदर्थवादादिकं च.
ब्राह्मण
सपवित्रायां पात्र्यां पिष्टसंवापादिपात्र्यङ्गुलिप्रक्षालनोदकमाप्त्येभ्यो निनयति-इत्येतदन्तं पुरोडाशश्रपणं,तेन सहैवाज्याधिश्रयणसोपपत्तिकं, पुरोडाशश्रपणस्य प्रवर्ग्य-प्रवृञ्जनसाम्योपपादनम्, अभिवासनेन
नग्नत्वमुषितत्वपरिहारः, लोकेऽपि तथाविधः स्वापो न विधेय इति सूचनं, तत्तदर्थवादादिकं च.
ब्राह्मण
आप्त्यसंज्ञकदेवानामुत्पत्तिः, त्रिशीर्षत्वाष्ट्रविश्वरूपवधः, पात्र्यंगुलिनिर्णेजनमात्यानांभाग इति निरूपणं, दक्षिणावतैव यागेन यष्टव्यं नादक्षिणेनेति, तत्र दर्शपूर्णमासयोरन्वाहार्यो दक्षिणा, आप्त्योदकदानं, पुरोडाशस्य पशुसंस्तवः, तत्र देवैरालब्धानां पुरुषाश्वादिपशूनां पृथिवीप्रविष्टान्मेधाद् वीर्यवतोर्व्रीहियवयोरुत्पत्तिः, पशुपुरोडाशयोः पांक्तत्वं, देवैरालब्धानामपक्रान्तमेधानां पुरुषाश्वादिपशूनामभक्ष्यत्वकथनं च.
ब्राह्मण
वेदिकाकरणं, तत्र स्फ्यादेर्वज्ररूपत्वादिप्रतिपादनं, तदुपयोगो वृत्रेन्द्रसंग्रामश्च, तथाऽत्राभिचारविधिः, पर्यायचतुष्टयात्मकः स्तम्बयजुर्हरणविधिः, यज्ञविघातकासुरनिर्हरणं, शत्रुनिर्हरणं, तत्सम्बन्धिन्याख्यायिका, स्तम्बयजुर्हरणेऽभिचारप्रयोगश्चेति.
ब्राह्मण
वेदेः परिग्रहोपोद्घातः, तत्र वामनावतारः, असुरेभ्यो देवानां वामनरूपिविष्णुसंमितयज्ञभूमिप्रविभागः, साख्यायिकौ वेदेः पूर्वोत्तरपरिग्रहौ, तत्र वेदिशब्दनिरुक्तिः, वेदिमानं, वेदेर्लौकिकस्त्रीसाम्येन प्रशंसनं, देवादीनां दिग्विभागः, पुरीषाहरणे काम्यप्रयोगः, वेदेरनुमार्जनं तदाख्यायिका, तत्र चन्द्रमसि कृष्णकलङ्कोपोद्घातः, वेद्यां प्रोक्षण्यासादनादि-पाण्योरवनेजनान्ता इतिकर्तव्यता, तत्र स्फ्योदकप्रहारेऽभिचार प्रयोगः, प्रधानयागाद्बर्हिस्तरणात्प्राक्च वेदेः स्पर्शे निषेधः सेतिहासः, देवानां क्रतुभुक्त्वम्, आपन्नतृणनिरसनं, बर्हिस्तरणादनन्तरं वेदेः स्पर्शो न दोषायेत्यादि ।
मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0