शतसाहस्रिका प्रज्ञापारमिता · भाग 2140
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन.
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रासंस्कृतो न च कस्यचिद् विगमेन, अब्धातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन, तेजोधातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन, वायुधातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन, आकाशधातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन, विज्ञानधातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन.
अविद्यायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, संस्कारा असंस्कृता न च कस्यचिद् विगमेन, विज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, नामरूपम् असंस्कृतं न च कस्यचिद् विगमेन, षडायतनम् असंस्कृतं न च कस्यचिद् विगमेन, स्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, वेदनासंस्कृता न च कस्यचिद् विगमेन, तृष्णासंस्कृता न च कस्यचिद् विगमेन, उपादानम् असंस्कृतं न च कस्यचिद् विगमेन, भवो ऽसंस्कृतो न च कस्यचिद् विगमेन, जातिर् असंस्कृता न च कस्यचिद् विगमेन, जरामरणम् असंस्कृतं न च कस्यचिद् विगमेन.
दानपारमितायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, शीलपारमितासंस्कृता न च कस्यचिद् विगमेन, क्षान्तिपारमितासंस्कृता न च कस्यचिद् विगमेन, वीर्यपारमितासंस्कृता न च कस्यचिद् विगमेन, ध्यानपारमितासंस्कृता न च कस्यचिद् विगमेन, प्रज्ञापारमितासंस्कृता न च कस्यचिद् विगमेन.
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, बहिर्धाशून्यतासंस्कृता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतासंस्कृता न च कस्यचिद् विगमेन, शून्यताशून्यतासंस्कृता न च कस्यचिद् विगमेन, महाशून्यतासंस्कृता न च कस्यचिद् विगमेन, परमार्थशून्यतासंस्कृता न च कस्यचिद् विगमेन, संस्कृतशून्यतासंस्कृता न च कस्यचिद् विगमेन, असंस्कृतशून्यतासंस्कृता न च कस्यचिद् विगमेन, अत्यन्तशून्यतासंस्कृता न च कस्यचिद् विगमेन, अनवराग्रशून्यतासंस्कृता न च कस्यचिद् विगमेन, अनवकारशून्यतासंस्कृता न च कस्यचिद् विगमेन, प्रकृतिशून्यतासंस्कृता ( श्स्प्_इइ-1_141 ) न च कस्यचिद् विगमेन, सर्वधर्मशून्यतासंस्कृता न च कस्यचिद् विगमेन, स्वलक्षणशून्यतासंस्कृता न च कस्यचिद् विगमेन, अनुपलम्भशून्यतासंस्कृता न च कस्यचिद् विगमेन, अभावशून्यतासंस्कृता न च कस्यचिद् विगमेन, स्वभावशून्यतासंस्कृता न च कस्यचिद् विगमेन, अभावस्वभावशून्यतासंस्कृता न च कस्यचिद् विगमेन.
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रासंस्कृताणि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् असंस्कृतानि न च कस्यचिद् विगमेन, ऋद्धिपादासंस्कृता न च कस्यचिद् विगमेन, इन्द्रियाण्य् असंस्कृतानि न च कस्यचिद् विगमेन, बलान्य् असंस्कृतानि न च कस्यचिद् विगमेन, बोध्यङ्गानि ऽसंस्कृताणि न च कस्यचिद् विगमेन, आर्याष्टाण्गो मार्गो ऽसंस्कृतो न च कस्यचिद् विगमेन. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रासंस्कृतानि न च कस्यचिद् विगमेन, ध्यानान्य् असंस्कृतानि न च कस्यचिद् विगमेन, अप्रमाणान्य् असंस्कृतानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽसंस्कृता न च कस्यचिद् विगमेन, अष्टौ विमोक्षासंस्कृता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽसंस्कृता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रनिहितविमोक्षमुखान्य् असंस्कृतानि न च कस्यचिद् विगमेन, अभिज्ञा असंस्कृता न च कस्यचिद् विगमेन, समाधयो ऽसंस्कृता न च कस्यचिद् विगमेन, धारणीमुखान्य् असंस्कृतानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् असंस्कृतानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् असंस्कृतानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽसंस्कृता न च कस्यचिद् विगमेन, महामैत्र्य् असंस्कृता न च कस्यचिद् विगमेन, महाकरुणासंस्कृता न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा असंस्कृता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् असंस्कृतं सो ऽभावः क्षयश् च. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा असंस्कृता न च कस्यचिद् विगमेन.
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्राकूटस्था अविनाशिनः सर्वधर्माः.
आह: किम् इत्य् आयुष्मन् सुभूते ऽकूटस्था अविनाशिनः सर्वधर्माः?
सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्राकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, वेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? ( श्स्प्_इइ-1_142 ) प्रकृतिर् अस्यैषा, संज्ञाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, संस्कारा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयं, विज्ञानम् अकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
चक्षुर् आयुष्मञ् छारद्वतीपुत्राकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, श्रोत्रम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, घ्राणम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, जिह्वाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, कायो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, मनो ऽकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
रूपम् आयुष्मञ् छारद्वतीपुत्राकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. शब्दो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. गन्धो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. रसो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. स्पर्शो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्.
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. श्रोत्रविज्ञानम् अकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. घ्राणविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. जिह्वाविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. कायविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. मनोविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. श्रोत्रसंस्पर्शो ऽकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. घ्राणसंस्पर्शो ऽकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. जिह्वासंस्पर्शो ऽकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. कायसंस्पर्शो ऽकूतस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. मनःसंस्पर्शो ऽकूतस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्राकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. श्रोत्रसंस्पर्शप्रत्ययवेदनाकूतस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. घ्राणसंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? ( श्स्प्_इइ-1_143 ) प्रकृतिर् अस्यैषा. जिह्वासंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. कायसंस्पर्शप्रत्ययवेदनाकूतस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. मनःसंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्राकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. अब्धातुर् ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. तेजोधातुर् ऽकूट्‘अस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. वायुधातुर् ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. आकाशधातुर् ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. विज्ञानधातुर् ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
अविद्यायुष्मञ् छारद्वतीपुत्राकूटस्थाविनाशिन्ल् तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. संस्कारा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. विज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. नामरूपम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. षडायतनम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. स्पर्शो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. वेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. तृष्णाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. उपादानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. भवो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. जातिर् अकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. जरामरणम् अकूटस्थम् अविनशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
दानपारमितायुष्मञ् छारद्वतीपुत्राकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. शीलपारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. क्षान्तिपारमिताकूट्‘अस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. वीर्यपारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. ध्यानपारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. प्रज्ञापारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा.
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्राकूट्.अस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. बहिर्धाशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अध्यात्मबहिर्धाशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. शून्यताशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. महाशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. परमार्थशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. संस्कृतशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. असंस्कृतशून्यताकूटस्थाविनाशिनी. तत् कस्य ( श्स्प्_इइ-1_144 ) हेतोः? प्रकृतिर् अस्या एषा. अत्यन्तशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अनवराग्रशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अनवकारशून्यताकूतस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. प्रकृतिशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. सर्वधर्मशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. स्वलक्षणशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अनुपलम्भशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अभावशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. स्वभावशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अभावस्वभावशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा.
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्राकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. सम्यक्प्रहाणान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. ऋद्धिपादा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. इन्द्रियाण्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. बलान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. बोध्यङ्गान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. आर्याष्टाङ्गो मार्गो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्राकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. ध्यानान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अप्रमाणान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. आरूप्यसमापत्तयो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् आसाम् इयम्. अष्टौ विमोक्षा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. नवानुपूर्वविहारसमापत्तयो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् आषाम् इयम्. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अभिज्ञा अकूतस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. समाधयो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. धारणीमुखान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. दशतथागतबलान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. चत्वारि वैशारद्यान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. चतस्रः प्रतिसंविदो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् आसाम् इयम्. महामैत्र्य् अकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. महाकरुणाकूटस्थाविनाशिनी. ( श्स्प्_इइ-1_145 ) तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अष्टादशावेणिका बुद्धधर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्.
कुशला धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अकुशला धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. संस्कृता धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. असंस्कृता धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. सास्रवा धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अनास्रवा धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाभावस्वभावाः सर्वधर्माः.
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, केन कारणेन रूपम् अनभिनिर्वृत्तं, केन कारणेन वेदनानभिनिर्वृत्ता, केन कारणेन संज्ञानभिनिर्वृत्ता, केन कारणेन संस्कारा अनभिनिर्वृत्ताः, केन कारणेन विज्ञानम् अनभिनिर्वृत्तम् इति वदसि, एवम् एतद् आयुष्मञ् छारद्वतीपुत्र तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपम् अनभिसंस्कृतं, वेदनानभिसंस्कृता, संज्ञानभिसंस्कृता, संस्कारा अनभिसंस्कृताः, विज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा हि रूपस्याभिसंस्कर्ता नास्ति, वेदनाया अभिसंस्कर्ता नास्ति, संज्ञाया अभिसंस्कर्ता नास्ति, संस्काराणाम् अभिसंस्कर्ता नास्ति, विज्ञानस्याभिसंस्कर्ता नास्ति.
चक्षुर् आयुष्मञ् छारद्वतिपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, श्रोत्रम् अनभिसंस्कृतम्, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, घ्राणम् अनभिसंस्कृतम्, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, जिह्वानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, कायो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, मनो ऽनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
रूपम् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतम्, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, शब्दो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, गन्धो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, रसो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, स्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? ( श्स्प्_इइ-1_146 ) तथा ह्य् अभिसंस्कर्ता नास्ति, धर्मा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. श्रोत्रविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. घ्राणविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. जिह्वाविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. कायविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. मनोविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. श्रोत्रसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. घ्राणसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. जिह्वासंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. कायसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. मनःसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. श्रोत्रसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. घ्राणसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. जिह्वासंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. कायसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. मनःसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अब्धातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. तेजोधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. वायुधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आकाशधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. विज्ञानधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
अविद्यायुष्मञ् छारद्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. संस्कारा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. विज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. नामरूपम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. षडायतनम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. वेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. तृष्णानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. उपादानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, भवो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, जातिर् अनभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, जरामरणम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
दानपारमितायुष्मञ् छारद्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. शीलपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. क्षान्तिपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. वीर्यपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. ध्यानपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. प्रज्ञापारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
अध्यात्मशून्यतायुष्मञ् छार्द्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. बहिर्धाशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अध्यात्मबहिर्धाशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. शून्यताशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. महाशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. परमार्थशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. संस्कृतशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. असंस्कृतशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अत्यन्तशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अनवराग्रशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अनवकारशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. प्रकृतिशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. सर्वधर्मशून्यतानभिसंस्कृता, ( श्स्प्_इइ-1_148 ) तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्वलक्षणशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अनुपलम्भशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अभावशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्वभावशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अभावस्वभावशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. सम्यक्प्रहाणान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. ऋद्धिपादा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. इन्द्रियाण्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. बलान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. बोध्यङ्गान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आर्याष्टाङ्गो मार्गो ऽनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. ध्यानान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अप्रमाणान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आरूप्यसमापत्तयो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. विमोक्षा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. नवानुपूर्वविहारसमापत्तयो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अभिज्ञा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. समाधयो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. धारणीमुखान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. दशतथागतबलान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. चत्वारि वैशारद्यान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. चतस्रः प्रतिसंविदो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. महामैत्र्य् अनभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. महाकरुणानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अष्टादशावेणिका बुद्धधर्मा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपम् अनभिनिर्वृत्तं वेदनानभिनिर्वृत्ता संज्ञानभिनिर्वृत्ता संस्कारा अनभिनिर्वृत्ता विज्ञानम् अनभिनिर्वृत्तम्.
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह, केन कारणेनायुष्मञ् सुभूते यद् अनभिनिर्वृत्तं न तद् रूपं, या अनभिनिर्वृत्ता न सा वेदना, या अनभिनिर्वृत्ता न सा संज्ञा, ये ऽनभिनिर्वृत्ता न ते संस्कारा, यद् अनभिनिर्वृत्तं न तद् विज्ञानम् इति वदसि?
एवम् एतद् आयुष्मञ् छारद्वतीपुत्र तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. वेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. संज्ञा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. संस्काराः प्रकृतिशून्या या च प्रकृतिशून्यास् तेषां नोत्पादो न व्ययो येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.
चक्षुः प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. श्रोत्रं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. घ्राणं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जिह्वा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. कायः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. मनः प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.
रूपं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. शब्दः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो ( श्स्प्_इइ-1_150 ) न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. गन्धः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. रसः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. स्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. धर्माः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते.
चक्षुर्विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. श्रोत्रविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. घ्राणविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जिह्वाविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. कायविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. मनोविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.
चक्षुःसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. श्रोत्रसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. घ्राणसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जिह्वासंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. कायसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते. मनःसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते.
चक्षुःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं ( श्स्प्_इइ-1_151 ) प्रज्ञायते. श्रोत्रसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. घ्राणसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. जिह्वासंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. कायसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. मनःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते.
पृथिवीधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. अब्धातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. तेजोधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. वायुधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. आकाशधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. विज्ञानधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.
अविद्या प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. संस्काराः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. नामरूपं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. षडायतनं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. स्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं ( श्स्प्_इइ-1_152 ) प्रज्ञायते. वेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. तृष्णा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. उपादानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. भवः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जातिः प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. जरामरणं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.
दानपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. शीलपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. क्षान्तिपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. वीर्यपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. ध्यानपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. प्रज्ञापारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते.
अध्यात्मशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. बहिर्धाशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अध्यात्मबहिर्धाशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. शून्यताशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. महाशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, ( श्स्प्_इइ-1_153 ) यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. परमार्थशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. संस्कृतशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. असंस्कृतशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अत्यन्तशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अनवराग्रशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अनवकारशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. प्रकृतिशून्यता प्रकृतिशून्या य् आ च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. सर्वधर्मशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. स्वलक्षणशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्य् अन्यथात्वं प्रज्नायते. अनुपलम्भशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अभावशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. स्वभावशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अभावस्वभावशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते.
स्मृत्युपस्थानानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. सम्यक्प्रहाणानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. ऋद्धिपादा प्रकृतिशून्या य् आ च प्रकृतिशून्यास् तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. इन्द्रियाणि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां ( श्स्प्_इइ-1_154 ) नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. बलानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. बोध्यङ्गानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. आर्याष्टाङ्गो मार्गः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते. आर्यसत्यानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. ध्यानानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. अप्रमाणानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. आरूप्यसमापत्तयः प्रकृतिशून्या या च प्रकृतिशून्याः तासां नोत्पादो न व्ययः, यासां नोत्पादो न व्ययो न तासां स्थित्यन्यथात्वं प्रज्नायते. अष्टौ विमोक्षाः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. नवानुपूर्वविहारसमापत्तयः प्रकृतिशून्या याश् च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. अभिज्ञा प्रकृतिशून्या याश् च प्रकृतिशून्याः तासां नोत्पादो न व्ययः, यासां नोत्पादो न व्ययो न तासां स्थित्यन्यथात्वं प्रज्नायते. समाधयः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. धारणीमुखानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. दशतथागतबलानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. चत्वारि वैशारद्यानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. चतस्रः प्रतिसंविदः प्रकृतिशून्या याश् च प्रकृतिशून्याः तासां नोत्पादो न व्ययः, यासां नोत्पादो न व्ययो न तासां स्थित्यन्यथात्वं प्रज्नायते. महामैत्री प्रकृतिशून्या ( श्स्प्_इइ-1_155 ) या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. महाकरुणा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. आवेणिकबुद्धधर्माः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् अनभिसंस्कृतं न तद् रूपं, यानभिसंस्कृता न सा वेदना, यानभिसंस्कृता न सा संज्ञा, ये ऽनभिसंस्कृता न ते संस्काराः, यद् अनभिसंस्कृतं न तद् विज्ञानम्.
यद् अनभिसंस्कृतं न तच् चक्षुः, यद् अनभिसंस्कृतं न तच् छ्रोत्रं, यद् अनभिसंस्कृतं न तद् घ्राणं, यानभिसंस्कृता न सा जिह्वा, यो ऽनभिसंस्कृतो न स कायः, यद् अनभिसंस्कृतं न तन् मनः.
यद् अनभिसंस्कृतं न तद् रूपं, यो ऽनभिसंस्कृतो न स शब्दः, यो ऽनभिसंस्कृतो न स गन्धः, यो ऽनभिसंस्कृतो न स रसः, यो ऽनभिसंस्कृतो न स स्पर्शः, ये ऽनभिसंस्कृता न ते धर्माः.
यद् अनभिसंस्कृतं न तच् चक्षुर्विज्ञानं, यद् अनभिसंस्कृतं न तच् छ्रोत्रविज्ञानं, यद् अनभिसंस्कृतं न तद् घ्राणविज्ञानं, यद् अनभिसंस्कृतं न तद् जिह्वाविज्ञानं, यद् अनभिसंस्कृतं न तत् कायविज्ञानं, यद् अनभिसंस्कृतं न तन् मनोविज्ञानम्.
यो ऽनभिसंस्कृतो न स चक्षुःसंस्पर्शः, यो ऽनभिसंस्कृतो न स श्रोत्रसंस्पर्शः, यो ऽनभिसंस्कृतो न स घ्राणसंस्पर्शः, यो ऽनभिसंस्कृतो न स जिह्वासंस्पर्शः, यो ऽनभिसंस्कृतो न स कायसंस्पर्शः, यो ऽनभिसंस्कृतो न स मनःसंस्पर्शः.
यानभिसंस्कृता न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा घ्राणसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा जिह्वासंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा कायसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा मनःसंस्पर्शप्रत्ययवेदना.
यो ऽनभिसंस्कृतो न स पृथिवीधातुः, यो ऽनभिसंस्कृतो न सो ऽब्धातुः, यो ऽनभिसंस्कृतो न स तेजोधातुः, यो ऽनभिसंस्कृतो न स वायुधातुः, यो ऽनभिसंस्कृतो न स आकाशधातुः, यो ऽनभिसंस्कृतो न स विज्ञानधातुः.
यानभिसंस्कृता न साविद्या, ये ऽनभिसंस्कृता न ते संस्काराः, यद् अनभिसंस्कृतं न तद् विज्ञानं, यद् अनभिसंस्कृतं न तन् नामरूपं, यद् अनभिसंस्कृतं न तत् षडायतनं, यो ऽनभिसंस्कृतो न स स्पर्शः, यानभिसंस्कृता न सा वेदना, यानभिसंस्कृता न सा तृष्णा, यद् अनभिसंस्कृतं न तद् उपादानं, यो ऽनभिसंस्कृतो न स भवः, यानभिसंस्कृता न सा जातिः, यद् अनभिसंस्कृतं न तज् जरामरणम्.
यानभिसंस्कृता न सा दानपारमिता, यानभिसंस्कृता न सा शीलपारमिता, यानभिसंस्कृता न सा क्षान्तिपारमिता, यानभिसंस्कृता न सा वीर्यपारमिता, यानभिसंस्कृता न सा ध्यानपारमिता, यानभिसंस्कृता न सा प्रज्ञापारमिता.
यानभिसंस्कृता न साध्यात्मशून्यता, यानभिसंस्कृता न सा बहिर्धाशून्यता, यानभिसंस्कृता न साध्यात्मबहिर्धाशून्यता, यानभिसंस्कृता न सा शून्यताशून्यता, यानभिसंस्कृता न सा महाशून्यता,
यानभिसंस्कृता न सा परमार्थशून्यता, यानभिसंस्कृता न सा संस्कृतशून्यता, यानभिसंस्कृता न सासंस्कृतशून्यता, यानभिसंस्कृता न सात्यन्तशून्यता, यानभिसंस्कृता न सानवराग्रशून्यता, यानभिसंस्कृता न सानवकारशून्यता, यानभिसंस्कृता न सा प्रकृतिशून्यता, यानभिसंस्कृता न सा सर्वधर्मशून्यता, यानभिसंस्कृता न सा स्वलक्षणशून्यता, यानभिसंस्कृता न सानुपलम्भशून्यता, यानभिसंस्कृता न साभावशून्यता, यानभिसंस्कृता न सा स्वभावशून्यता, यानभिसंस्कृता न साभावस्वभावशून्यता.
यान्य् अनभिसंस्कृतानि न तानि स्मृत्युपस्थानानि, यान्य् अनभिसंस्कृतानि न तानि सम्यक्प्रहाणानि, ये ऽनभिसंस्कृता न ते ऋद्धिपादाः यान्य् अनभिसंस्कृतानि न तानीन्द्रियाणि, यान्य् अनभिसंस्कृतानि न तानि बलानि, यान्य् अनभिसंस्कृतानि न तानि बोध्यङ्गानि, यो ऽनभिसंस्कृतो न स आर्याष्टाङ्गो मार्गः, यान्य् अनभिसंस्कृतानि न तान्य् आर्यसत्यानि, यान्य् अनभिसंस्कृतानि न तानि ध्यानानि, यान्य् अनभिसंस्कृतानि न तान्य् अप्रमाणानि, या अनभिसंस्कृता न ता आरूप्यसमापत्तयः, ये ऽनभिसंस्कृता न ते विमोक्षाः, यानभिसंस्कृता न ता नवानुपूर्वविहारसमापत्तयः, यान्य् अनभिसंस्कृतानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यानभिसंस्कृता न ता अभिज्ञाः, ये ऽनभिसंस्कृता न ते समाधयः, यान्य् अनभिसंस्कृतानि न तानि धारणीमुखानि, यान्य् अनभिसंस्कृतानि न तानि दशतथागतबलानि, यान्य् अनभिसंस्कृतानि न तानि चत्वारि ( श्स्प्_इइ-1_157 ) वैशारद्यानि, या अनभिसंस्कृता न ताश् चतस्रः प्रतिसंविदः, यानभिसंस्कृता न सा महामैत्री, यानभिसंस्कृता न सा महाकरुणा, ये ऽनभिसंस्कृता न ते ऽष्टादशावेणिका बुद्धधर्माः, यानभिसंस्कृता न सा सर्वज्ञता, यानभिसंस्कृता न सा मार्गाकारज्ञता, यानभिसंस्कृता न सा सर्वाकारज्ञता.
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह, केन कारणेनैवं वदसि, तत् किम् अनभिनिर्वृत्तं प्रज्ञापारमितायाम् अववदिष्याम् अनुशासिष्यामीति?
तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यानभिनिर्वृत्तिः सा प्रज्ञापारमिता या प्रज्ञापारमिता सानाभिनिर्वृत्तिर् इति ह्य् अनभिनिर्वृत्तिश् च प्रज्ञापारमिता चाभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणैवं वदसि, तत् किम् अनभिनिर्वृत्तिं प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि.
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह, केन कारणेन नान्यत्राभिवृत्त्या बोधिसत्त्व उपलभ्यते यो बोधाय चरेद् इति. तथा ह्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् नान्यम् अनभिनिर्वृत्तिम् अन्यं बोधिसत्त्वं समनुपश्यति. इति ह्य् अनभिनिर्वृत्तिश् च बोधिसत्त्वश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
नान्यत्रानभिनिर्वृत्त्या रूपं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च रूपं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या वेदना समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च वेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः संज्ञां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च संज्ञा चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः संस्कारान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च संस्काराश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या विज्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च विज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
नान्यत्रानभिनिर्वृत्त्याश् चक्षुः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चक्षुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रनभिनिर्वृत्त्याः श्रोत्रं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च श्रोत्रं ( श्स्प्_इइ-1_158 ) चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या घ्राणं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च घ्राणं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या जिह्वां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जिह्वा चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः कायं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च कायश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः मनः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मनश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
नान्यत्रानभिनिर्वृत्त्या रूपं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च रूपं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः शब्दं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च शब्दश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या गन्धं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च गन्धश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या रसं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च रसश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः स्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या धर्मान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च धर्माश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
नान्यत्रानभिनिर्वृत्त्याश् चक्षुर्विज्ञानं समनुपश्यति, तथा ह्य् अनभिनिवृत्तिश् च चक्षुर्विज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः श्रोत्रविज्ञानं समनुपश्यति, तथा ह्य् अनभिनिवृत्तिश् च श्रोत्रव्ण्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारं, श्रोत्रविज्ञानम्. नान्यत्रानभिनिर्वृत्त्या घ्राणविज्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च घ्राणविज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या जिह्वाविज्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जिह्वाविज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः कायव्य्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च कायविज्ञानं चोभाव् एतौ धर्माव् ओ अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या मनोविज्ञानं समनुन्पश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मनोविज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
नान्यत्रानभिनिर्वृत्त्याश् चक्षुःसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चक्षुःसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् ( श्स्प्_इइ-1_159 ) अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः श्रोत्रसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च श्रोत्रसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या घ्राणसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च घ्राणसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या जिह्वासंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जिह्वासंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः कायसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च कायसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या मनःसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मनःसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
नान्यत्रानभिनिर्वृत्त्याश् चक्षुःसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चक्षुःसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः श्रोत्रसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च श्रोत्रसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या घ्राणसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च घ्राणसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या जिह्वासंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जिह्वासंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः कायसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च कायसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या मनःसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मनःसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
नान्यत्रानभिनिर्वृत्तेः पृथिवीधातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च पृथिवीधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अब्धातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाब्धातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः तेजोधातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च तेजोधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् वायुधातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च वायुधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकार्म्. नान्यत्रानभिनिर्वृत्तेर् आकाशधातुं ( श्स्प्_इइ-1_160 ) समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च आकाशधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् विज्ञानधातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च विज्ञानधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
नान्यत्रानभिनिर्वृत्तेर् अविद्यां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाविद्या चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः संस्कारान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च संस्काराश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् विज्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च विज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् नामरूपं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च नामरूपं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः षडायतनं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च षडायतनं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः स्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् वेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च वेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः तृष्णां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च तृष्णा चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् उपादानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च उपादानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् भवं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च भवश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् जातिं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जातिश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् जरामरणं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जरामरणं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
नान्यत्रानभिनिर्वृत्तेर् दानपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च दानपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् शीलपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च शीलपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् क्षान्तिपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च क्षान्तिपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् वीर्यपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च वीर्यपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. ( श्स्प्_इइ-1_161 ) नान्यत्रानभिनिर्वृत्तेर् ध्यानपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च ध्यानपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् प्रज्ञापारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च प्रज्ञापारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
नान्यत्रानभिनिर्वृत्तेर् अध्यात्मशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाध्यात्मशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् बहिर्धाशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च बहिर्धाशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अध्यात्मबहिर्धाशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाध्यात्मबहिर्धाशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः शून्यताशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च शून्यताशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् महाशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च महाशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः परमार्थशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च परमार्थशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः संस्कृतशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च संस्कृतशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् असंस्कृतशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चासंस्कृतशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अत्यन्तशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चात्यन्तशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अनवराग्रशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चानवराग्रशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अनवकारशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चानवकारशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः प्रकृतिशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च प्रकृतिशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः सर्वधर्मशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च सर्वधर्मशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः स्वलक्षणशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्वलक्षणशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अनुपलम्भशून्यतां समनुपश्यति, ( श्स्प्_इइ-1_162 ) तथा ह्य् अनभिनिर्वृत्तिश् चानुपलम्भशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अभावशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाभावशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः स्वभावशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्वभावशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अभावस्वभावशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाभावस्वभावशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
नान्यत्रानभिनिर्वृत्तेः स्मृत्युपस्थानानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्मृत्युपस्थानानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः सम्यक्प्रहाणानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च सम्यक्प्रहाणानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् ऋद्धिपादान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च ऋद्धिपादांश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् इन्द्रियाणि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चेन्द्रियाणि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् बलानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च बलानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् बोध्यङ्गानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च बोध्यङ्गानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् आर्याष्टाङ्गमार्गं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चार्याष्टाङ्गो मार्गश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् आर्यसत्यानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चार्यसत्यानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् ध्यानानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च ध्यानानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अप्रमाणानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाप्रमाणानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् आरूप्यसमापत्तीः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चारूप्यसमापत्तिश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अष्टौ विमोक्षां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाष्टौ विमोक्षाश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् नवानुपूर्वविहारसमापत्तीः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च नवानुपूर्वविहारसमापत्तिश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः ( श्स्प्_इइ-1_163 ) शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाप्रमाणानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अभिज्ञाः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाभिज्ञाश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः समाधीन् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च समाधयश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् धारणीमुखानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च धारणीमुखानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् दशतथागतबलानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च दशतथागतबलानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेश् चत्वारि वैशारद्यानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चत्वारि वैशारद्यानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेश् चतस्रः प्रतिसंविदः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चतस्रः प्रतिसंविदश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् महामैत्रीं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च महामैत्री चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् महाकरुणां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च महाकरुणा चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अष्टादशावेणिकान् बुद्धधर्मान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाष्टादशावेणिका बुद्धधर्माश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः सर्वज्ञतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च सर्वज्ञता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् मार्गाकारज्ञतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मार्गाकारज्ञता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः सर्वाकारज्ञतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च सर्वाकारज्ञता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नान्यत्रानभिनिर्वृत्त्या बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्.
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह केन कारणेनैवं वदसि, सचेत् बोधिसत्तो महासत्त्व एवम् उद्दिश्यमानेनोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां तथा ह्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ( श्स्प्_इइ-1_164 ) निरीहकात् सर्वधर्मान् न समनुपश्यति. स्वप्नोपमान् सर्वधर्मान् न समनुपश्यति. मायोपमान् सर्वधर्मान् न समनुपश्यति. मारीच्युपमान् सर्वधर्मान् न समनुपश्यति. प्रतिश्रुत्कोपमान् सर्वधर्मान् न समनुपश्यति. प्रतिभासोपमान् सर्वधर्मान् न समनुपश्यति. निर्मितोपमान् सर्वधर्मान् न समनुपश्यति.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण बोधिसत्त्वो महासत्त्व इमं निर्देशं श्रुत्वा नोत्रस्यति संत्रसति न संत्रासम् आपद्यते प्रज्ञापारमितायां चरति.
अथायुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् उपपरीक्षते,
तस्मिन् समये रूपं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति रूपम् एतद् इति, तस्मिन् समये वेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति वेदनेयम् इति, तस्मिन् समये संज्ञां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति संज्ञेयम् इति, तस्मिन् समये संस्कारान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति संस्कारा इम इति, तस्मिन् समये विज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति विज्ञानम् एतद् इति.
तस्मिन् समये चक्षुर् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुर् एतद् इति, तस्मिन् समये श्रोत्रं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रम् एतद् इति, तस्मिन् समये घ्राणं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति घ्राणम् एतद् इति, तस्मिन् समये जिह्वां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वेयम् इति, तस्मिन् समये कायं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायो ऽयम् इति, तस्मिन् समये मनो नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मन एतद् इति.
तस्मिन् समये रूपं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति रूपम् एतद् इति, तस्मिन् समये शब्दं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति शब्दो ऽयम् इति, तस्मिन् समये गन्धं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति गन्धो ऽयम् इति, तस्मिन् समये रसं नोपैति नोपादत्ते नाधितिष्ठति ( श्स्प्_इइ-1_165 ) नाभिनिविशते न प्रज्ञापयति रसो ऽयम् इति, तस्मिन् समये स्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति स्पर्शओ ऽयम् इति, तस्मिन् समये धर्मान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति धर्मा इम इति.
तस्मिन् समये चक्षुर्विज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुर्विज्ञानम् एतद् इति, तस्मिन् समये श्रोत्रविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रविज्ञानम् एतद् इति, तस्मिन् समये घ्राणविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्fतापयति घ्राणविज्ञानम् एतद् इति, तस्मिन् समये जिह्वाविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वाविज्ञानम् एतद् इति, तस्मिन् समये कायविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायविज्ञानम् एतद् इति, तस्मिन् समये मनोविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मनोविज्ञानम् एतद् इति.
तस्मिन् समये चक्षुःसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुःसंस्पर्शो ऽयम् इति, तस्मिन् समये श्रोत्रसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रसंस्पर्शो ऽयम् इति, तस्मिन् समये घ्राणसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति घ्राणसंस्पर्शो ऽयम् इति, तस्मिन् समये जिह्वासंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वासंस्पर्शो ऽयम् इति, तस्मिन् समये कायसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायसंस्पर्शो ऽयम् इति, तस्मिन् समये मनःसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मनःसंस्पर्शो ऽयम् इति.
तस्मिन् समये चक्षुःसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुःसंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये श्रोत्रसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रसंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये घ्राणसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति घ्राणसंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये जिह्वासंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वासंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये कायसंस्पर्शप्रत्ययवेदनां ( श्स्प्_इइ-1_166 ) नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायसंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये मनःसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मनःसंस्पर्शप्रत्ययवेदनेयम् इति.
यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् एवम् उपपरीक्षते, तस्मिन् समये दानपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति दानपारमितेयम् इति, तस्मिन् समये शीलपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति शीलपारमितेयम् इति, तस्मिन् समये क्षान्तिपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति क्षान्तिपारमितेयम् इति, तस्मिन् समये वीर्यपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति वीर्यपारमितेयम् इति, तस्मिन् समये ध्यानपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति ध्यानपारमितेयम् इति, तस्मिन् समये प्रज्ञापारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति प्रज्ञापारमितेयम् इति.
तस्मिन् समये ऽध्यात्मशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अध्यात्मशून्यतेयम् इति, तस्मिन् समये बहिर्धाशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति बहिर्धाशून्यतेयम् इति, तस्मिन् समये ऽध्यात्मबहिर्धाशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अध्यात्मबहिर्धाशून्यतेयम् इति, तस्मिन् समये शून्यताशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति शून्यताशून्यतेयम् इति, तस्मिन् समये महाशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति महाशून्यतेयम् इति, तस्मिन् समये परमार्थशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति परमार्थशून्यतेयम् इति, तस्मिन् समये संस्कृतशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति संस्कृतशून्यतेयम् इति, तस्मिन् समये ऽसंस्कृतशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् असंस्कृतशून्यतेयम् इति, तस्मिन् समये ऽत्यन्तशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अत्यन्तशून्यतेयम् इति, तस्मिन् समये ऽनवराग्रशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अनवराग्रशून्यतेयम् ( श्स्प्_इइ-1_167 ) इति, तस्मिन् समये ऽनवकारशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अनवकारशून्यतेयम् इति, तस्मिन् समये प्रकृतिशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति प्रकृतिशून्यतेयम् इति, तस्मिन् समये सर्वधर्मशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति सर्वधर्मशून्यतेयम् इति, तस्मिन् समये स्वलक्षणशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति स्वलक्षणशून्यतेयम् इति, तस्मिन् समये ऽनुपलम्भशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अनुपलम्भशून्यतेयम् इति, तस्मिन् समये ऽभावशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अभावशून्यतेयम् इति, तस्मिन् समये स्वभावशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति स्वभावशून्यतेयम् इति, तस्मिन् समये ऽभावस्वभावशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अभावस्वभावशून्यतेयम् इति.
पुनर् अपरं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरन् स्मृत्युपस्थानानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्मृत्युपस्थानान्य् एतानीति, तस्मिन् समये सम्यक्प्रहाणानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सम्यक्प्रहाणान्य् एतानीति, तस्मिन् समये ऋद्धिपादान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ऋद्धिपादा इमा इति, तस्मिन् समये इन्द्रियाणि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयतीन्द्रियाण्य् एतानीति, तस्मिन् समये बलानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बलानीमानीति, तस्मिन् समये बोध्यङ्गानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बोध्यङ्गानीमानीति, तस्मिन् समये आर्याष्टाङ्गमार्गं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आर्याष्टङ्गो मार्ग इति, तस्मिन् समये आर्यसत्यानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आर्यसत्यान्य् एतानीति, तस्मिन् समये ध्यानानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ध्यानान्य् एतानीति, तस्मिन् समये ऽप्रमाणानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अप्रमाणान्य् एतानीति, तस्मिन् समये आरूप्यसमापत्तीर् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आरूप्यसमापत्तय इमा इति, तस्मिन् समये ऽष्टौ विमोक्षान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अष्टौ विमोक्षा ( श्स्प्_इइ-1_168 ) इम इति, तस्मिन् समये नवानुपूर्वविहारसमापत्तीर् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति नवानुपूर्वविहारसमापत्तय इमा इति, तस्मिन् समये शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एतानीति, तस्मिन् समये ऽभिज्ञा नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अभिज्ञा इमा इति, तस्मिन् समये समाधीन् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समाधय इम इति, तस्मिन् समये धारणीमुखानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति धारणीमुखान्य् एतानीति, तस्मिन् समये दशतथागतबलानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दशतथागतबलानीमानीति, तस्मिन् समये चत्वारि वैशारद्यानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चत्वारि वैशारद्यानीमानीति, तस्मिन् समये चतस्रः प्रतिसंविदो नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चतस्रः प्रतिसंविद इमा इति, तस्मिन् समये महामैत्रीं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति महामैत्रीयम् इति, तस्मिन् समये महाकरुणां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति महाकरुणेयम् इति, तस्मिन् समये ऽष्टादशावेणिकान् बुद्धधर्मान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आवेणिका बुद्धधर्मा एत इति.
पुनर् अपरं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरन् सर्वसमाधिधारणीमुखानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सर्वसमधिधारणीमुखाण्य् एतानीति.
तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति, वेदनां न समनुपश्यति, संज्ञां न समनुपश्यति, संस्कारान् न समनुपश्यति, विज्ञानं न समनुपश्यति.
चक्षुर् न समनुपस्यति, श्रोत्रं न समनुपश्यति, घ्राणं न समनुपश्यति, जिह्वां न समनुपश्यति, कायं न समनुपस्यति, मनो न समनुपश्यति.
रूपं न समनुपश्यति, शब्दं न समनुपश्यति, गन्धं न समनुपश्यति, रसं न समनुपश्यति, स्पर्शं न समनुपश्यति, धर्मान् न समनुपस्यति.
चक्षुर्विज्ञानं न समनुपस्यति, श्रोत्रविज्ञानं न समनुपस्यति, ( श्स्प्_इइ-1_169 ) घ्राणविज्ञानं न समनुपस्यति, जिह्वाविज्ञानं न समनुपस्यति, कायविज्ञानं न समनुपस्यति, मनोविज्ञानं न समनुपस्यति.
चक्षुःसंस्पर्शं न समनुपस्यति, श्रोत्रसंस्पर्शं न समनुपस्यति, घ्राणसंस्पर्शं न समनुपस्यति, जिह्वासंस्पर्शं न समनुपस्यति, कायसंस्पर्शं न समनुपस्यति, मनःसंस्पर्शं न समनुपस्यति.
चक्षुःसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, श्रोत्रसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, घ्राणसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, जिह्वासंस्पर्शप्रत्ययवेदनां न समनुपस्यति, कायसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, मनःसंस्पर्शप्रत्ययवेदनां न समनुपस्यति.
पृथिवीधातुं न समनुपस्यति, अब्धातुं न समनुपस्यति, तेजोधातुं न समनुपस्यति, वायुधातुं न समनुपस्यति, आकाशधातुं न समनुपस्यति, विज्ञानधातुं न समनुपस्यति.
अविद्यां न समनुपस्यति, संस्कारान् न समनुपस्यति, विज्ञानं न समनुपस्यति, नामरूपं न समनुपस्यति, षडायतनं न समनुपश्यति, स्पर्शं न समनुपस्यति, वेदनां न समनुपस्यति, तृष्णां न समनुपस्यति, उपादानं न समनुपस्यति, भवं न समनुपस्यति, जातिं न समनुपस्यति, जरामरणं न समनुपस्यति.
दानपारमितां न समनुपस्यति, शीलपारमितां न समनुपस्यति, क्षान्तिपारमितां न समनुपस्यति, वीर्यपारमितां न समनुपस्यति, ध्यानपारमितां न समनुपस्यति, प्रज्ञापारमितां न समनुपस्यति.
अध्यात्मशून्यतां न समनुपस्यति, बहिर्धाशून्यतां न समनुपश्यति, अध्यात्मबहिर्धाशून्यतां न समनुपस्यति, शून्यताशून्यतां न समनुपस्यति, महाशून्यतां न समनुपस्यति, परमार्थशून्यतां न समनुपस्यति, संस्कृतशून्यतां न समनुपस्यति, असंस्कृतशून्यतां न समनुपस्यति, अत्यन्तशून्यतां न समनुपस्यति, अनवराग्रशून्यतां न समनुपस्यति, अनवकारशून्यतां न समनुपस्यति, प्रकृतिशून्यतां न समनुपस्यति, सर्वधर्मशून्यतां न समनुपस्यति, स्वलक्षणशून्यतां न समनुपस्यति, अनुपलम्भशून्यतां न समनुपस्यति, अभावशून्यतां न समनुपस्यति, स्वभावशून्यतां न समनुपस्यति, अभावस्वभावशून्यतां न समनुपस्यति,
स्मृत्युपस्थानानि न समनुपस्यति, सम्यक्प्रहाणानि न समनुपश्यति, ऋद्धिपादान् न समनुपस्यति, इन्द्रियाणि न समनुपस्यति, बलानि ( श्स्प्_इइ-1_170 ) न समनुपस्यति, बोध्यङ्गानि न समनुपस्यति, आर्याष्टाङ्गमार्गं न समनुपस्यति, आर्यसत्यानि न समनुपस्यति, ध्यानानि न समनुपस्यति, अप्रमाणानि न समनुपस्यति, आरूप्यसमापत्तीर् न समनुपस्यति, अष्टौ विमोक्षान् न समनुपस्यति, नवानुपूर्वविहारसमापत्तीर् न समनुपश्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न समनुपस्यति, अभिज्ञा न समनुपस्यति, समाधीन् न समनुपस्यति, धारणीमुखानि न समनुपस्यति, दशतथागतबलानि न समनुपस्यति, चत्वारि वैशारद्यानि न समनुपस्यति, चतस्रः प्रतिसंविदो न समनुपस्यति, महामैत्रीं न समनुपस्यति, महाकरुणां न समनुपस्यति, अष्टादशावेणिकान् बुद्धधर्मान् न समनुपस्यति, सर्वज्ञतां न समनुपस्यति, मार्गाकारज्ञतां न समनुपस्यति, सर्वाकारज्ञतां न समनुपस्यति.
तत् कस्य हेतोः?
तथा हि भगवन् यो रूपस्यानुत्पादो न तद् रूपम्, इति हि रूपं >; चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्यानुत्पादो न तद् रूपं,
तथा हि भगवन् यो वेदनाया अनुत्पादो न सा वेदना, इति हि वेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया अनुत्पादो न सा वेदना,
तथा हि भगवन् यः संज्ञाया अनुत्पादो न सा संज्ञा, इति हि संज्ञा चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः संज्ञाया अनुत्पादो न सा संज्ञा,
तथा हि भगवन् यः संस्काराणाम् अनुत्पादो न ते संस्कारा, इति हि संस्काराश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्काराणाम् अनुत्पादो न ते संस्काराः,
तथा हि भगवन् यो विज्ञानस्यानुत्पादो न ते विज्ञानम्, इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्यानुत्पादो न तद् विज्ञानं.
तथा हि यो भगवंश् चक्षुषो ऽनुत्पादो न तच् चक्षुः, इति हि चक्षुश् ( श्स्प्_इइ-1_171 ) चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुषो ऽनुत्पादो न तच् चक्षुः,
तथा हि भगवन् यः श्रोत्रस्यानुत्पादो न तच् छ्रोत्रम्, इति हि श्रोत्रं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यह् श्रोत्रस्यानुत्पादो न तच् छ्रोत्रं,
तथा हि भगवन् घ्राणस्यानुत्पादो न तद् घ्राणम्, इति हि घ्राणं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणस्यानुत्पादो न तद् घ्राणं,
तथा हि भगवन् जिह्वाया अनुत्पादो न सा जिह्वा, इति हि जिह्वा चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाया अनुत्पादो न सा जिह्वा,
तथा हि यो भगवन् कायस्यानुत्पादो न स कायः, इति हि कायश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायस्यानुत्पादो न स कायः,
तथा हि यो भगवन् मनसो ऽनुत्पादो न तन् मनः, इति हि मनश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनसो नुत्पादो न तन् मनः.
यो भगवन् रूपस्यानुत्पादो न तद् रूपम्, इति हि रूपं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्यानुत्पादो न तद् रूपं,
यो भगवन् शब्दस्यानुत्पादो न स शब्दः, इति हि शब्दश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः शब्दस्यानुत्पादो न स शब्दः,
यो भगवन् गन्धस्यानुत्पादो न स गन्धः, इति हि गन्धश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो गन्धस्यानुत्पादो न स गन्धः,
यो भगवन् रसस्यानुत्पादो न स रसः, इति हि रसश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो रसस्यानुत्पादो न सो रसः,
यो भगवन् स्पर्शस्यानुत्पादो न स स्पर्श, इति हि स्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्यानुत्पादो न स स्पर्शः,
यो भगवन् धर्माणाम् अनुत्पादो न ते धर्माः, इति हि धर्माश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्माणाम् अनुत्पादो न ते धर्माः,
यो भगवन् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानम्, इति हि चक्षुर्विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानं,
यो भगवन् श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानम्, इति हि श्रोत्रविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानं,
यो भगवन् घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानम्, इति हि घ्राणविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानं,
यो भगवन् जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानम्, इति हि जिह्वाविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानं,
यो भगवन् कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानम्, इति हि कायविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानं,
यो भगवन् मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानम्, इति हि मनोविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् ( श्स्प्_इइ-1_173 ) यो मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानं,
यो भगवन् चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः, इति हि चक्षुःसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः,
यो भगवन् श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्परः, इति हि श्रोत्रसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्पर्शः,
यो भगवन् घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्परः, इति हि घ्राणसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्पर्शः,
यो भगवन् जिह्वासंस्पर्शस्यानुत्पादो न तन् जिह्वासंस्पर्शअः, इति हि जिह्वासंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शस्यानुत्पादो न स जिह्वासंस्पर्शः,
यो भगवन् कायसंस्पर्शस्यानुत्पादो न स कायसंस्पर्शअः, इति हि कायसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शस्यानुत्पादो न स कायसंस्पर्शः,
यो भगवन् मनःसंस्पर्शस्यानुत्पादो न स मनःसंस्पर्शअः, इति हि मनःसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शस्यानुत्पादो न स मनःसंस्पर्शः,
यो भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, इति हि चक्षुःसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना,
यो भगवञ् छ्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, इति हि श्रोत्रसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद ( श्स्प्_इइ-1_174 ) एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना,
यो भगवन् घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, इति हि घ्राणसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना,
यो भगवन् जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, इति हि जिह्वासंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना,
यो भगवन् कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, इति हि कायसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना,
यो भगवन् मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना, इति हि मनःसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना,
यो भगवन् पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः, इति हि पृथिवीधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः,
यो भगवन् अब्धातोर् अनुत्पादो न सो ऽब्धातुः, इति ह्य् अब्धातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽब्धातोर् अनुत्पादो न सो ऽब्धातुः,
यो भगवंस् तेजोधातोर् अनुत्पादो न स तेजोधातुः, इति हि तेजोधातुश् ( श्स्प्_इइ-1_175 ) चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः तेजोधातोर् अनुत्पादो न स तेजोधातुः,
यो भगवन् वायुधातोर् अनुत्पादो न स वायुधातुः, इति हि वायुधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वायुधातोर् अनुत्पादो न सो वायुधातुः,
यो भगवन्न् आकाशधातोर् अनुत्पादो न स आकाशधातुः, इति ह्य् आकाशधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आकाशधातोर् अनुत्पादो न स आकाशधातुः,
यो भगवन् विज्ञानधातोर् अनुत्पादो न स विज्ञानधातुः, इति हि विज्ञानधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानधातोर् अनुत्पादो न सो विज्ञानधातुः,
यो भगवन्न् अविद्याया अनुत्पादो न साविद्या, इति ह्य् अविद्या चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽविद्याया अनुत्पादो न साविद्या,
यो भगवन् संस्काराणाम् अनुत्पादो न ते संस्काराः, इति हि संस्काराश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारं,तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो संस्काराणाम् अनुत्पादो न ते संस्काराः,
यो भगवन् विज्ञानस्यानुत्पादो न तद् विज्ञानम्, इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्यानुत्पादो न तद् विज्ञानं,
यो भगवन् नामरूपस्यानुत्पादो न तन् नामरूपम्, इति हि नामरूपं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो नामरूपस्यानुत्पादो न तन् नामरूपं,
यो भगवन् षडायतनस्यानुत्पादो न तत् षडायतनम्, इति हि षडायतनञ् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् ( श्स्प्_इइ-1_176 ) यः षडायतनस्यानुत्पादो न तत् षडायतनं,
यो भगवन् स्पर्शस्यानुत्पादो न स स्पर्शः, इति हि स्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्यानुत्पादो न स स्पर्शः,
यो भगवन् वेदनाया अनुत्पादो न सा वेदना, इति हि वेदनाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया अनुत्पादो न सा वेदना,
यो भगवन् तृष्णाया अनुत्पादो न सा तृष्णा, इति हि तृष्णाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः तृष्णाया अनुत्पादो न सा तृष्णा,
यो भगवन् उपादानस्यानुत्पादो न तद् उपादानम्, इति ह्य् उपादानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य उपादानस्यानुत्पादो न तद् उपादानं,
यो भगवन् भवस्यानुत्पादो न स भवः, इति हि भवश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो भवस्यानुत्पादो न स भवः,
यो भगवन् जातेर् अनुत्पादो न सा जातिः, इति हि जातिश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जातिएर् अनुत्पादो न सा जातिः,
यो भगवन् जरामरणस्यानुत्पादो न तज् जरामरणम्, इति हि जरामरणं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जरामरणस्यानुत्पादो न तज् जरामरणं,
यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता, इति हि दानपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो दानपारमिताया अनुत्पादो न सा दानपारमिता,
यो भगवन् शीलपारमिताया अनुत्पादो न सा शीलपारमिता, इति हि शीलपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? ( श्स्प्_इइ-1_177 ) तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः शीलपारमिताया अनुत्पादो न सा शीलपारमिता,
यो भगवन् क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, इति हि क्षान्तिपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता,
यो भगवन् वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, इति हि वीर्यपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता,
यो भगवन् ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, इति हि ध्यानपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता,
यो भगवन् प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो प्रज्ञापारमिताया अनुत्पादो न सा प्रज्नापारमिता,
यो भगवन्न् अध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, इति ह्य् अध्यात्मशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता,
यो भगवन् बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, इति हि बहिर्धाशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता,
यो भगवन्न् अध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, इति ह्य् अध्यात्मबहिर्धाशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता,
यो भगवन् शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, इति हि शून्यताशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् ( श्स्प्_इइ-1_178 ) यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता,
यो भगवन् महाशून्यताया अनुत्पादो न सा महाशून्यता, इति हि महाशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाशून्यताया अनुत्पादो न सा महाशून्यता,
यो भगवन् परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, इति हि परमार्थशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता,
यो भगवन् संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, इति हि संस्कृतशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता,
यो भगवन् असंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता, इति ह्य् असंस्कृतशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽसंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता,
यो भगवन् अत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, इति ह्य् अत्यन्तशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता,
यो भगवन् अनवराग्रशून्यताया अनुत्पादो न सानवराग्रशून्यता, इति ह्य् अनवराग्रशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवराग्रशुन्यताया अनुत्पादो न सानवराग्रशून्यता,
यो भगवन् अनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, इति ह्य् अनवकारशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता,
यो भगवन् प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, इति हि प्रकृतिशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता,
यो भगवन् सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, ( श्स्प्_इइ-1_179 ) इति हि सर्वधर्मशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता,
यो भगवन् स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, इति हि स्वलक्षणशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता,
यो भगवन् अनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, इति ह्य् अनुपलम्भशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनुपलम्भशून्यताया अनुत्पादो न स ऽनुपलम्भशून्यता,
यो भगवन् अभावशून्यताया अनुत्पादो न साभावशून्यता, इति ह्य् अभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावशून्यताया अनुत्पादो न साभावशून्यता,
यो भगवन् स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता, इति हि स्वभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता,
यो भगवन् अभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता, इति ह्य् अभावस्वभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावस्वभावशून्यताया अनुत्पादो न स ऽभावस्वभावशून्यता,
यो भगवन् स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानीति हि स्मृत्युपस्थानानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि,
यो भगवन् सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानीति हि सम्यक्प्रहाणानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानि,
यो भगवन्न् ऋद्धिपादानाम् अनुत्पादो न ते ऋद्धिपादा इति ह्य् ऋद्धिपादाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य् अ ऋद्धिपादानाम् अनुत्पादो न त ऋद्धिपादाः,
यो भगवन्न् इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणीति हीन्द्रियाणि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणि,
यो भगवन् बलानाम् अनुत्पादो न तानि बलानीति हि बलानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो बलानाम् अनुत्पादो न तानि बलानि,
यो भगवन् बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानीति हि बोध्यङ्गानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानि,
यो भगवन्न् आर्याष्टाङ्गमार्गस्यानुत्पादो न स आर्याष्टाङ्गो मार्ग इति ह्य् आर्याष्टाङ्गमार्गश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आर्याष्टाङ्गमार्गस्यानुत्पादो न स आर्याष्टाङ्गो मार्गः,
यो भगवन्न् आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानीति हि आर्यसत्यानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य् अ आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानि,
यो भगवन् ध्यानानाम् अनुत्पादो न तानि ध्यानानीति हि ध्यानानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानानाम् अनुत्पादो न तानि ध्यानानि,
यो भगवन्न् अप्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानीति ह्य् अप्रमाणानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽप्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानि,
यो भगवन्न् आरूप्यसमापत्तीनाम् अनुत्पादो न ता आरूप्यसमापत्तय इति ह्य् आरूप्यसमापत्तयश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. ( श्स्प्_इइ-1_181 ) तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आरूप्यसमापत्तीनाम् अनुत्पादो न ता आरूप्यसमापत्तयः,
यो भगवन् विमोक्षाणाम् अनुत्पादो न ते विमोक्षा इति हि विमोक्षाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो विमोक्षाणाम् अनुत्पादो न ते विमोक्षाः,
यो भगवन्न् अनुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तय इति ह्य् अनुपूर्वविहारसमापत्तयश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो नुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तयः,
यो भगवन्न् शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि,
यो भगवन्न् अभिज्ञानाम् अनुत्पादो न ता अभिज्ञा इति ह्य् अभिज्ञाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभिज्ञानाम् अनुत्पादो न ता अभिज्ञाः,
यो भगवन् समाधीनाम् अनुत्पादो न ते समाधय इति ह्य् समाधयश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः समाधीनाम् अनुत्पादो न ते समाधयः,
यो भगवन्न् धारणीमुखानाम् अनुत्पादो न तानि धारणीमुखानीति ह्य् धारणीमुखानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धारणीमुखानाम् अनुत्पादो न तान्य् धारणीमुखानि,
यो भगवन् दशतथागतबलानाम् अनुत्पादो न तानि दशतथागतबलानीति हि दशतथागतबलानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो दशतथागतबलानाम् अनुत्पादो न तानि दशतथागतबलानि,
यो भगवन् वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानीति हि वैशारद्यानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानि,
यो भगवन् प्रतिसंविदाम् अनुत्पादो न ताः प्रतिसंविद इति हि प्रतिसंविदश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रतिसंविदाम् अनुत्पादो न ताः प्रतिसंविदः,
यो भगवन् महामैत्र्या अनुत्पादो न स महामैत्री इति हि महामैत्री चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो महामैत्र्या अनुत्पादो न सा महामैत्री,
यो भगवन् महाकरुणाया अनुत्पादो न सा महाकरुणा, इति हि महाकरुणा चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाकरुणाया अनुत्पादो न सा महाकरुणा,
यो भगवन्न् अष्टादशावेणिकबुद्धधर्मानाम् अनुत्पादो न त आवेणिकबुद्धधर्मा इति ह्य् आवेणिकबुद्धधर्माश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आवेणिकबुद्धधर्माणाम् अनुत्पादो न त आवेणिकबुद्धधर्माः,
यो भगवन् तथताया अनुत्पादो न स तथता, इति हि तथता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः तथताया अनुत्पादो न स तथता,
यो भगवन् धर्मताया अनुत्पादो न ता धर्मता, इति हि धर्मता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्मताया अनुत्पादो न सा धर्मता,
यो भगवन् धर्मधातोर् अनुत्पादो न स धर्मधातुः, इति हि धर्मधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्मधातोर् अनुत्पादो न स धर्मधातुः,
यो भगवन् धर्मनियामताया अनुत्पादो न स धर्मनियामता, इति हि ( श्स्प्_इइ-1_183 ) धर्मनियामता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्मनियामताया अनुत्पादो न त धर्मनियामता,
यो भगवन् भूतकोटेर् अनुत्पादो न सा भूतकोटिर् इति हि भूतकोटिश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो भूतकोटेर् अनुत्पादो न सा भूतकोटिः,
यो भगवन्न् अचिन्त्यधातोर् अनुत्पादो न सो ऽचिन्त्यहातुः, इति ह्य् अचिन्त्यधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽचिन्त्यधातोर् अनुत्पादो न सो ऽचिन्त्यधातुः,
यो भगवन् सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, इति हि सर्वज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारं,तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता,
यो भगवन् मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता, इति हि मार्गाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता,
यो भगवन् सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता, इति हि सर्वाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
यो भगवन् रूपस्य व्ययो न तद् रूपम्, इति हि रूपञ् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्य व्ययो न तद् रूपं,
यो भगवन् वेदनाया व्ययो न सा वेदना, इति हि वेदना च व्ययस् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया व्ययो न सा वेदना,
यो भगवन् संज्ञाया व्ययो न सा संज्ञा, इति हि संज्ञा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न ( श्स्प्_इइ-1_184 ) व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संज्ञाया व्ययो न सा संज्ञा,
यो भगवन् संस्काराणां व्ययो न ते संस्काराः, इति हि संस्काराश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्कारानां व्ययो न ते संस्काराः,
यो भगवन् विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि विज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्य व्ययो न तद् विज्ञानम्.
यो भगवन् चक्षुषो व्ययो न तच् चक्षुः, इति हि चक्षुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुषो व्ययो न तच् चक्षुः,
यो भगवन् छ्रोत्रस्य व्ययो न तच् छ्रोत्रम्, इति हि श्रोत्रं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रस्य व्ययो न तच् छ्रोत्रं,
यो भगवन् घ्राणस्य व्ययो न तद् घ्राणम्, इति हि घ्राणं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणस्य व्ययो न तद् घ्राणं,
यो भगवन् जिह्वाया व्ययो न सा जिह्वा, इति हि जिह्वा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाया व्ययो न सा जिह्वा,
यो भगवन् कायस्य व्ययो न स कायः, इति हि कायश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायस्य व्ययो न स कायः,
यो भगवन् मनसो व्ययो न तन् मनः, इति हि मनश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनसो व्ययो न तन् मनः.
यो भगवन् रूपस्य व्ययो न तद् रूपम् इति हि रूपं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्य व्ययो न तद् रूपं,
यो भगवन् शब्दस्य व्ययो न सः शब्दः, इति हि शब्दश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शब्दस्य व्ययो न सः शब्दः,
यो भगवन् गन्धस्य व्ययो न स गन्धः, इति हि गन्धश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो गन्धस्य व्ययो न स गन्धः,
यो भगवन् रसस्य व्ययो न स रसः, इति हि रसश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो रसस्य व्ययो न स रसः,
यो भगवन् स्पर्शस्य व्ययो न स स्पर्शः, इति हि स्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्य व्ययो न स स्पर्शः,
यो भगवन् धर्माणां व्ययो न ते धर्माः, इति हि धर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्माणां व्ययो न ते धर्माः,
यो भगवन् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानम्, इति हि चक्षुर्विज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानं,
यो भगवन् छ्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानम्, इति हि श्रोत्रविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानं,
यो भगवन् घ्राणविज्ञानस्य व्ययो न तद् घ्राणविज्ञानम्, इति हि घ्राणविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? ( श्स्प्_इइ-1_186 ) तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणविज्ञानस्य व्ययो न तद् घ्राणविज्ञानं,
यो भगवन् जिह्वाविज्ञानस्य व्ययो न तज् जिह्वाविज्ञानम्, इति हि जिह्वाविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाविज्ञानस्य व्ययो न तज् जिह्वाविज्ञानं,
यो भगवन् कायविज्ञानस्य व्ययो न तत् कायविज्ञानम्, इति हि कायविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायविज्ञानस्य व्ययो न तत् कायविज्ञानं,
यो भगवन् मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्, इति हि मनोविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्.
यो भगवन् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, इति हि चक्षुःसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः,
यो भगवञ् छ्रोत्रसंस्पर्शस्य व्ययो न स श्रोत्रसंस्पर्शः, इति हि श्रोत्रसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शस्स्य व्ययो न स श्रोत्रसंस्पर्शः,
यो भगवन् घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, इति हि घ्राणसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः,
यो भगवन् जिह्वासंस्पर्शस्य व्ययो न स जिह्वसंस्पर्शः, इति हि जिह्वासंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः,
यो भगवन् कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, इति हि कायसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः,
यो भगवन् मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः, इति हि मनःसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः.
यो भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, इति हि चक्षुःसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना,
यो भगवञ् छ्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, इति हि श्रोत्रसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना,
यो भगवन् घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, इति हि घ्राणसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना,
यो भगवन् जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, इति हि जिह्वासंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना,
यो भगवन् कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, इति हि कायसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना,
यो भगवन् मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना, इति हि मनःसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना.
यो भगवन् पृथिवीधातोर् व्ययो न स पृथिवीधातुः, इति हि पृथिवीधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः पृथिवीधातोर् व्ययो न स पृथिवीधातुः,
यो भगवन्न् अब्धातोर् व्ययो न सो ऽब्धातुः, इति ह्य् अब्धातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽब्धातोर् व्ययो न सो ऽब्धातुः,
यो भगवंस् तेजोधातोर् व्ययो न स तेजोधातुः, इति हि तेजोधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः तेजोधातोर् व्ययो न स तेजोधातुः,
यो भगवन् वायुधातोर् व्ययो न स वायुधातुः, इति हि वायुधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वायुधातोर् व्ययो न सो वायुधातुः,
यो भगवन्न् आकाशधातोर् व्ययो न स अकाशधातुः, इति ह्य् आकाशधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आकाशधातोर् व्ययो न स आकाशधातुः,
यो भगवन् विज्ञानधातोर् व्ययो न स विज्ञानधातुः, इति हि विज्ञानधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानधातोर् व्ययो न सो विज्ञानधातुः.
यो भगवन्न् अविद्याया व्ययो न साविद्या, इति ह्य् अविद्या च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽविद्याया व्ययो न साविद्या,
यो भगवन् संस्काराणां व्ययो न ते संस्काराः, इति हि संस्काराश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्काराणां व्ययो न ते संस्काराः,
यो भगवन् विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि विज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् ( श्स्प्_इइ-1_189 ) न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्य व्ययो न तद् विज्ञानं,
यो भगवन् नामरूपस्य व्ययो न तन् नामरूपम्, इति हि नामरूपं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो नामरूपस्य व्ययो न तन् नामरूपं,
यो भगवन् षडायतनस्य व्ययो न तत् षडायतनम्, इति हि षडायतनञ् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः षडायतनस्य व्ययो न तत् षडायतनं,
यो भगवन् स्पर्शस्य व्ययो न स स्पर्शः, इति हि स्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्य व्ययो न स स्पर्शः,
यो भगवन् वेदनाया व्ययो न सा वेदना, इति हि वेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया व्ययो न सा वेदना,
यो भगवन् तृष्णाया व्ययो न सा तृष्णा, इति हि तृष्णा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः तृष्णाया व्ययो न सा तृष्णा,
यो भगवन् उपादानस्य व्ययो न तद् उपादानम्, इति ह्य् उपादानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य उपादानस्य व्ययो न तद् उपादानं,
यो भगवन् भवस्य व्ययो न स भवः, इति हि भवश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो भवस्य व्ययो न स भवः,
यो भगवन् जातेर् व्ययो न सा जातिः, इति हि जातिश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जातेर् व्ययो न सा जातिः,
यो भगवन् जरामरणस्य व्ययो न तज् जरामरणम्, इति हि ( श्स्प्_इइ-1_190 ) जरामरणं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जरामरणस्य व्ययो न तज् जरामरणम्.
यो भगवन् दानपारमिताया व्ययो न सा दानपारमिता, इति हि दानपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो दानपारमिताया व्ययो न सा दानपारमिता,
यो भगवन् शीलपारमिताया व्ययो न सा शीलपारमिता, इति हि शीलपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शीलपारमिताया व्ययो न सा शीलपारमिता,
यो भगवन् क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, इति हि क्षान्तिपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता,
यो भगवन् वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, इति हि वीर्यपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता,
यो भगवन् ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, इति हि ध्यानपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता,
यो भगवन् प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता.
यो भगवन्न् अध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, इति ह्य् अध्यात्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता,
यो भगवन् बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, इति हि बहिर्धाशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, ( श्स्प्_इइ-1_191 ) तस्माद् यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता,
यो भगवन्न् अध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, इति ह्य् अध्यात्मबहिर्धाशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता,
यो भगवन् शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, इति हि शून्यताशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता,
यो भगवन् महाशून्यताया व्ययो न सा महाशून्यता, इति हि महाशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाशून्यताया व्ययो न सा महाशून्यता,
यो भगवन् परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, इति हि परमार्थशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता,
यो भगवन् संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, इति हि संस्कृतशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता,
यो भगवन्न् असंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, इति ह्य् असंस्कृतशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता,
यो भगवन्न् अत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, इति ह्य् अत्यन्तशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता,
यो भगवन्न् अनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, इति ह्य् अनवराग्रशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता,
यो भगवन्न् अनवकारशून्यताया व्ययो न सानवकारशून्यता, इति ह्य् अनवकारशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवकारशून्यताया व्ययो न सानवकारशून्यता,
यो भगवन् प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, इति हि प्रकृतिशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता,
यो भगवन् सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, इति हि सर्वधर्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता,
यो भगवन् स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता, इति हि स्वलक्षणशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता,
यो भगवन्न् अनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, इति ह्य् अनुपलम्भशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता,
यो भगवन्न् अभावशून्यताया व्ययो न साभावशून्यता, इति ह्य् अभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावशून्यताया व्ययो न साभावशून्यता,
यो भगवन् स्वभावशून्यताया व्ययो न सा स्वभावशून्यता, इति हि स्वभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वभावशून्यताया व्ययो न सा स्वभावशून्यता,
यो भगवन्न् अभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता, इति ह्य् अभावस्वभावशुन्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता,
यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानीति ( श्स्प्_इइ-1_193 ) हि स्मृत्युपस्थानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि,
यो भगवन् सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानीति हि सम्यक्प्रहाणानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि,
यो भगवन्न् ऋद्धिपादानां व्ययो न ते ऋद्धिपादा, इति ह्य् ऋद्धिपादाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य ऋद्धिपादानां व्ययो न त ऋद्धिपादाः,
यो भगवन्न् इन्द्रियाणां व्ययो न तानीन्द्रियाणि, इति हीन्द्रियाणि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य इन्द्रियाणां व्ययो न तानीन्द्रियाणि,
यो भगवन् बलानां व्ययो न तानि बलानि, इति हि बलानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो बलानां व्ययो न तानि बलानि,
यो भगवन् बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, इति हि बोध्यङ्गानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि,
यो भगवन्न् आर्याष्टाङ्गमार्गस्य व्ययो न स आर्याष्टाङ्गो मार्ग इति ह्य् आर्याष्टाङ्गमार्गश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आर्याष्टाङ्गमार्गस्य व्ययो न स आर्याष्टाङ्गमार्गः,
यो भगवन्न् आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, इति हि आर्यसत्यानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि,
यो भगवन् ध्यानानां व्ययो न तानि ध्यानानीति हि ध्यानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानानां व्ययो ( श्स्प्_इइ-1_194 ) न तानि ध्यानानि,
यो भगवन्न् अप्रमाणानां व्ययो न तान्य् अप्रमाणानीति ह्य् अप्रमाणानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽप्रमाणानां व्ययो न तान्य् अप्रमाणानि,
यो भगवन्न् आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तय इति ह्य् आरूप्यसमापत्तयश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः,
यो भगवन् विमोक्षाणां व्ययो न ते विमोक्षा इति हि विमोक्षाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विमोक्षाणां व्ययो न ते विमोक्षाः,
यो भगवन् नवानुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः, इति ह्य् अनुपूर्वविहारसमापत्तयश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः,
यो भगवञ् छून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि,
यो भगवन्न् अभिज्ञानां व्ययो न ता अभिज्ञा, इति ह्य् अभिज्ञाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभिज्ञानां व्ययो न ता अभिज्ञाः,
यो भगवन् समाधीनां व्ययो न ते समाधयः, इति हि समाधयश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः समाधीनां व्ययो न ते समाधयः,
यो भगवन् धारणीमुखानां व्ययो न तानि धारणीमुखानीति ह्य् धारणीमुखानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? ( श्स्प्_इइ-1_195 ) तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो धारणीमुखानां व्ययो न तानि धारणीमुखानि,
यो भगवन् दशतथागतबलानां व्ययो न तानि दशतथागतबलानीति हि दशतथागतबलानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो दशतथागतबलानां व्ययो न तानि दशतथागतबलानि,
यो भगवन् वैशारद्यानां व्ययो न तानि वैशारद्यानीति हि वैशारद्यानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वैशारद्यानां व्ययो न तानि वैशारद्यानि,
यो भगवन् प्रतिसंविदां व्ययो न ताः प्रतिसंविद इति हि प्रतिसंविदश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रतिसंविदां व्ययो न ताः प्रतिसंविदः,
यो भगवन् महामैत्र्या व्ययो न सा महामैत्री, इति हि महामैत्री च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो महामैत्र्या व्ययो न सा महामैत्री,
यो भगवन् महाकरुणाया व्ययो न सा महाकरुणा, इति हि महाकरुणा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाकरुणाया व्ययो न सा महाकरुणा,
यो भगवन्न् अष्टादशावेणिकानां बुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः, इति ह्य् आवेणिकबुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः,
यो भगवन् सर्वज्ञताया व्ययो न सा सर्वज्ञता, इति हि सर्वज्ञता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वज्ञताया व्ययो न सा सर्वज्ञता,
यो भगवन् मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता, इति हि मार्गाकारज्ञता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ( श्स्प्_इइ-1_196 ) मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता,
यो भगवन् सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता, इति हि सर्वाकारज्ञता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता.
यत् पुनर् भ्गवान् उच्यते रूपम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संज्ञेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संस्कारा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
यद् उच्यते चक्षुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते श्रोत्रम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते काय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मन इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
यद् उच्यते रूपम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शब्द इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते गन्ध इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते रस इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते धर्मा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
यद् उच्यते चक्षुर्विज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते श्रोत्रविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वाविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते कायविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मनोविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
यद् उच्यते चक्षुःसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा ( श्स्प्_इइ-1_197 ) गणना कृता, यद् उच्यते श्रोत्रसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वासंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते कायसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मनःसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
यद् उच्यते चक्षुःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते श्रोत्रसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वासंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते कायसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मनःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
यद् उच्यते पृथिवीधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते अब्धातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते तेजोधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वायुधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आकाशधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विज्ञानधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
यद् उच्यते ऽविद्येत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संस्कारा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते नामरूपम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते षडायतनम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते तृष्णेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते उपादानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते भव इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जातिर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जरामरणाम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा ( श्स्प्_इइ-1_198 ) गणना कृता.
यद् उच्यते दानपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शीलपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते क्षान्तिपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वीर्यपारमितेत्य् अद्वयस्यासंमोषस्यधर्मस्यैषा गणना कृता, यद् उच्यते ध्यानपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते प्रज्ञापारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
यद् उच्यते ऽध्यात्मशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते बहिर्धाशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽध्यात्मबहिर्धाशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शून्यताशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते महाशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते परमार्थशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संस्कृतशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽसंस्कृतशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽत्यन्तशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽनवराग्रशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽनवकारशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते प्रकृतिशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सर्वधर्मशून्यतेत्य् अद्वयस्या संमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्वलक्षणशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽनुपलम्भशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽभावशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्वभावशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽभावस्वभावशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
यद् उच्यते स्मृत्युपस्थानानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सम्यक्प्रहाणानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऋद्धिपादा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते इन्द्रियानीति अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते बलानीत्य् अद्वयस्यासंमोषस्य ( श्स्प्_इइ-1_199 ) धर्मस्यैषा गणना कृता, यद् उच्यते बोध्यङ्गानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आर्याष्टाङ्गो मार्ग इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आर्यसत्यानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ध्यानानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽप्रमाणानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आरूप्यसमापत्तय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विमोक्षा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते नवानुपूर्वविहारसमापत्तय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽभिज्ञा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते समाधय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते धारणीमुखानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते दशतथागतबलानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते चत्वारि वैशारद्यानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते चतस्रः प्रतिसंविद इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते महामैत्रीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते महाकरुणेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽष्टादशावेणिकबुद्धधर्मा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सर्वज्ञतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मार्गाकारज्ञतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता इति.
शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तो द्वादशः
शतसाहस्रिका प्रज्ञापारमिता, इइ-2
अथायुष्माञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते? कतम आयुष्मन् सुभूते बोधिसत्त्वः? कतमा प्रज्ञापारमिता? कतमोपपरीक्षा?
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: यद् आयुष्मञ् छारद्वतीपुत्र एवं वदसि, कतमो बोधिसत्त्व इति, बोधिर् एव सत्त्वस् तेनोच्यते बोधिसत्त्व इति, तया च बोध्या सर्वधर्माणाम् आकारान् जानाति न च तान् धर्मान् अभिनिविशते. कतमेषां धर्माणाम् आकारान् जानाति?
रूपस्याकारान् जानाति न च तत्राभिनिविशते, वेदनाया आकारान् जानाति न च तत्राभिनिविशते, संज्ञाया आकारान् जानाति न च तत्राभिनिविशते, संस्काराणाम् आकारान् जानाति न च तत्राभिनिविशते, विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते.
चक्षुष आकारान् जानाति न च तत्राभिनिविशते, श्रोत्रस्याकारान् जानाति न च तत्राभिनिविशते, घ्राणस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वाया आकारान् जानाति न च तत्राभिनिविशते, कायस्याकारान् जानाति न च तत्राभिनिविशते, मनस आकारान् जानाति न च तत्राभिनिविशते.
रूपस्याकारान् जानाति न च तत्राभिनिविशते, शब्दस्याकारान् जानाति न च तत्राभिनिविशते, गन्धस्याकारान् जानाति न च तत्राभिनिविशते, रसस्याकारान् जानाति न च तत्राभिनिविशते, स्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, धर्माणाम् आकारान् जानाति न च तत्राभिनिविशते.
चक्षुर्विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, श्रोत्रविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, घ्राणविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वाविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, कायविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, मनोविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते.
चक्षुःसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, श्रोत्रसंस्पर्शस्याकारान् ( श्स्प् इइ-2 2 ) जानाति न च तत्राभिनिविशते, घ्राणसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वासंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, कायसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, मनःसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते.
चक्षुःसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, श्रोत्रसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, घ्राणसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, जिह्वासंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, कायसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, मनःसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते.
पृथिवीधातोर् आकारान् जानाति न च तत्राभिनिविशते, अब्धातोर् आकारान् जानाति न च तत्राभिनिविशते, तेजोधातोर् आकारान् जानाति न च तत्राभिनिविशते, वायुधातोर् आकारान् जानाति न च तत्राभिनिविशते, आकाशधातोर् आकारान् जानाति न च तत्राभिनिविशते, विज्ञानधातोर् आकारान् जानाति न च तत्राभिनिविशते.
अविद्याया आकारान् जानाति न च तत्राभिनिविशते, संस्काराणाम् आकारान् जानाति न च तत्राभिनिविशते, विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, नामरूपस्याकारान् जानाति न च तत्राभिनिविशते, षडायतनस्याकारान् जानाति न च तत्राभिनिविशते, स्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, वेदनाया आकारान् जानाति न च तत्राभिनिविशते, तृष्णाया आकारान् जानाति न च तत्राभिनिविशते, उपादानस्याकारान् जानाति न च तत्राभिनिविशते, भवस्याकारान् जानाति न च तत्राभिनिविशते, जातेर् आकारान् जानाति न च तत्राभिनिविशते, जरामरणस्याकारान् जानाति न च तत्राभिनिविशते.
दानपारमिताया आकारान् जानाति न च तत्राभिनिविशते, शीलपारमिताया आकारान् जानाति न च तत्राभिनिविशते, क्षान्तिपारमिताया आकारान् जानाति न च तत्राभिनिविशते, वीर्यपारमिताया आकारान् जानाति न च तत्राभिनिविशते, ध्यानपारमिताया आकारान् जानाति न च तत्राभिनिविशते, प्रज्ञापारमिताया आकारान् जानाति न च तत्राभिनिविशते.
अध्यात्मशून्यताया आकारान् जानाति न च तत्राभिनिविशते, बहिर्धाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अध्यात्मबहिर्धाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, शून्यताशून्यताया आकारान् जानाति न च तत्राभिनिविशते, महाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, परमार्थशून्यताया आकारान् जानाति न च तत्राभिनिविशते, संस्कृतशून्यताया आकारान् जानाति न च तत्राभिनिविशते, असंस्कृतशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अत्यन्तशून्यताया आकारान् जानाति न च ( श्स्प् इइ-2 3 ) तत्राभिनिविशते, अनवराग्रशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अनवकारशून्यताया आकारान् जानाति न च तत्राभिनिविशते, प्रकृतिशून्यताया आकारान् जानाति न च तत्राभिनिविशते, सर्वधर्मशून्यताया आकारान् जानाति न च तत्राभिनिविशते, स्वलक्षणशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अनुपलम्भशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते, स्वभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अभावस्वभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते.
स्मृत्युपस्थानानाम् आकारान् जानाति न च तत्राभिनिविशते, सम्यक्प्रहाणानाम् आकारान् जानाति न च तत्राभिनिविशते, ऋद्धिपादानाम् आकारान् जानाति न च तत्राभिनिविशते, इन्द्रियाणाम् आकारान् जानाति न च तत्राभिनिविशते, बलानाम् आकारान् जानाति न च तत्राभिनिविशते, बोध्यङ्गानाम् आकारान् जानाति न च तत्राभिनिविशते, आर्याष्टाङ्गमार्गस्याकारान् जानाति न च तत्राभिनिविशते, आर्यसत्यानाम् आकारान् जानाति न च तत्राभिनिविशते.
ध्यानानाम् आकारान् जानाति न च तत्राभिनिविशते, अप्रमाणानाम् आकारान् जानाति न च तत्राभिनिविशते, आरूप्यसमापत्तीनाम् आकारान् जानाति न च तत्राभिनिविशते, विमोक्षाणाम् आकारान् जानाति न च तत्राभिनिविशते, अनुपूर्वविहारसमापत्तीनाम् आकारान् जानाति न च तत्राभिनिविशते.
शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् आकारान् जानाति न च तत्राभिनिविशते, अभिज्ञानाम् आकारान् जानाति न च तत्राभिनिविशते, समाधीनाम् आकारान् जानाति न च तत्राभिनिविशते, धारणीमुखानाम् आकारान् जानाति न च तत्राभिनिविशते, तथागतबलानाम् आकारान् जानाति न च तत्राभिनिविशते, वैशारद्यानाम् आकारान् जानाति न च तत्राभिनिविशते, प्रतिसंविदाम् आकारान् जानाति न च तत्राभिनिविशते, महामैत्र्या आकारान् जानाति न च तत्राभिनिविशते, महाकरुणाया आकारान् जानाति न च तत्राभिनिविशते, अष्टादशावेणिकबुद्धधर्माणाम् आकारान् जानाति न च तत्राभिनिविशते.
आह: कतमे आयुष्मन् सुभूते सर्वधर्माणाम् आकाराः?
सुभूतिर् आह: यैर् आयुष्मञ् छारद्वतीपुत्राकारैर् यैर् लिङ्गैर् यैर् निमित्तैः सर्वधर्मा आकार्यन्ते, यद् उत रूपैर् वा शब्दैर् वा गन्धैर् वा रसैर् वा स्पर्शैर् वा आध्यात्मिकैर् वा बाह्यैर् वा धर्मैः संस्कृतासंस्कृता धर्मा यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् आकार्यन्ते, इम उच्यन्ते सर्वधर्माणाम् आकाराः.
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, कतमा प्रज्ञापारमितेति? आरमितैषायुष्मञ् छारद्वतीपुत्र यद् उच्यते प्रज्ञापारमिता. कस्माद् आरमिता? आरमितायुष्मञ् छारद्वतीपुत्र स्कन्धेभ्यस् तद् उच्यते.
आरमिता आरता धातुभ्यस् तद् उच्यते, आरमिता आरता आयतनेभ्यस् तद् उच्यते, आरमिता आरता सर्वक्लेशेभ्यस् तद् उच्यते, आरमिता आरता सर्वदृष्टिगतेभ्यस् तद् उच्यते, आरमिता आरता षड्भ्यो गतिभ्यस् तद् उच्यते.
आरमिता आरता दानपारमितायास् तद् उच्यते, आरमिता आरता शीलपारमितायास् तद् उच्यते, आरमिता आरता क्षान्तिपारमितायास् तद् उच्यते, आरमिता आरता वीर्यपारमितायास् तद् उच्यते, आरमिता आरता ध्यानपारमितायास् तद् उच्यते, आरमिता आरता प्रज्ञापारमितायास् तद् उच्यते.
आरमिता आरताध्यात्मशून्यतायास् तद् उच्यते, आरमिता आरता बहिर्धाशून्यतायास् तद् उच्यते, आरमिता आरताध्यात्मबहिर्धाशून्यतायास् तद् उच्यते, आरमिता आरता शून्यताशून्यतायास् तद् उच्यते, आरमिता आरता महाशून्यतायास् तद् उच्यते, आरमिता आरता परमार्थशून्यतायास् तद् उच्यते, आरमिता आरता संस्कृतशून्यतायास् तद् उच्यते, आरमिता आरतासंस्कृतशून्यतायास् तद् उच्यते, आरमिता आरतात्यन्तशून्यतायास् तद् उच्यते, आरमिता आरतानवराग्रशून्यतायास् तद् उच्यते, आरमिता आरतानवकारशून्यतायास् तद् उच्यते, आरमिता आरता प्रकृतिशून्यतायास् तद् उच्यते, आरमिता आरता सर्वधर्मशून्यतायास् तद् उच्यते, आरमिता आरता स्वलक्षणशून्यतायास् तद् उच्यते, आरमिता आरतानुपलम्भशून्यतायास् तद् उच्यते, आरमिता आरताभावशून्यतायास् तद् उच्यते, आरमिता आरता स्वभावशून्यतायास् तद् उच्यते, आरमिता आरताभावस्वभावशून्यतायास् तद् उच्यते.
आरमिता आरता स्मृत्युपस्थानेभ्यस् तद् उच्यते, आरमिता आरता सम्यक्प्रहाणेभ्यस् तद् उच्यते, आरमिता आरता ऋद्धिपादेभ्यस् तद् उच्यते, आरमिता आरता इन्द्रियेभ्यस् तद् उच्यते, आरमिता आरता बलेभ्यस् तद् उच्यते, आरमिता आरता बोध्यङ्गेभ्यस् तद् उच्यते, आरमिता आरता आर्याष्टाङ्गान् मार्गात् तद् उच्यते, आरमिता आरता आर्यसत्येभ्यस् तद् उच्यते, आरमिता आरता ध्यानेभ्यस् तद् उच्यते, आरमिता आरता अप्रमाणेभ्यस् तद् उच्यते, आरमिता आरता आरूप्यसमापत्तिभ्यस् तद् उच्यते, आरमिता आरता विमोक्षेभ्यस् तद् उच्यते, आरमिता आरता अनुपूर्वविहारसमापत्तिभ्यस् तद् उच्यते, आरमिता आरता शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यस् तद् उच्यते, आरमिता आरता अभिज्ञाभ्यस् तद् उच्यते, आरमिता आरता समाधिभ्यस् तद् उच्यते, आरमिता आरता धारणीमुखेभ्यस् तद् उच्यते, आरमिता आरता तथागतबलेभ्यस् ( श्स्प् इइ-2 5 ) तद् उच्यते, आरमिता आरता वैशारद्येभ्यस् तद् उच्यते, आरमिता आरता प्रतिसंविद्भ्यस् तद् उच्यते, आरमिता आरता महामैत्र्यास् तद् उच्यते, आरमिता आरता महाकरुणायास् तद् उच्यते, आरमिता आरता आवेणिकबुद्धधर्मेभ्यस् तद् उच्यते, आरमिता आरता सर्वज्ञतायास् तद् उच्यते, आरमिता आरता मार्गाकारज्ञतायास् तद् उच्यते, आरमिता आरता सर्वाकारज्ञतायास् तद् उच्यते.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणारमितैषा यद् उत प्रज्ञापारमिता.
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, कतमोपपरीक्षणेति, इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न रूपं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न रूपम् आत्मेत्य् उपपरीक्षते नानात्मेति, न रूपं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न रूपं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न रूपं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न रूपं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न रूपं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न रूपं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न वेदनां नित्येत्य् उपपरीक्षते नानित्येति, न वेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न वेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न वेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न वेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न वेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न वेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न वेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न संज्ञां नित्येत्य् उपपरीक्षते नानित्येति, न संज्ञां सुखेत्य् उपपरीक्षते न दुःखेति, न संज्ञाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न संज्ञां शुभेत्य् उपपरीक्षते नाशुभेति, न संज्ञां शून्येत्य् उपपरीक्षते नाशून्येति, न संज्ञां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न संज्ञां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न संज्ञां शान्तेत्य् उपपरीक्षते नाशान्तेति, न संज्ञां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न संस्कारान् नित्या इत्य् उपपरीक्षते नानित्या इति, न संस्कारान् सुखा इत्य् उपपरीक्षते न दुःखा इति, न संस्कारान् आत्मेत्य् उपपरीक्षते नानात्मान इति, न संस्कारान् शुभा इत्य् उपपरीक्षते नाशुभा इति, न संस्कारान् शून्या ( श्स्प् इइ-2 6 ) इत्य् उपपरीक्षते नाशून्या इति, न संस्कारान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न संस्कारान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न संस्कारान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न संस्कारान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न विज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न विज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न विज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न विज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न विज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न विज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न विज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न विज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न विज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न चक्षुर् नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न चक्षुः सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न चक्षुर् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुः शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न चक्षुः शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न चक्षुर् निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न चक्षुः प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न चक्षुः शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न चक्षुर् विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न श्रोत्रं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न श्रोत्रं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न श्रोत्रम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न श्रोत्रं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न श्रोत्रं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न श्रोत्रं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न श्रोत्रं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न श्रोत्रं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न घ्राणं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न घ्राणं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न घ्राणम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न घ्राणं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न घ्राणं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न घ्राणं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न घ्राणं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न घ्राणं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न जिह्वां नित्येत्य् उपपरीक्षते नानित्येति, न जिह्वां सुखेत्य् उपपरीक्षते न दुःखेति, न जिह्वाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वां शुभेत्य् ( श्स्प् इइ-2 7 ) उपपरीक्षते नाशुभेति, न जिह्वां शून्येत्य् उपपरीक्षते नाशून्येति, न जिह्वां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न जिह्वां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न जिह्वां शान्तेत्य् उपपरीक्षते नाशान्तेति, न जिह्वां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न कायं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न कायं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न कायम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न कायं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न कायं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न कायं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न कायं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न कायं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न मनो नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न मनः सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न मन आत्मेत्य् उपपरीक्षते नानात्मेति, न मनः शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न मनः शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न मनो निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न मनः प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न मनः शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न मनो विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न रूपं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न रूपं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न रूपम् आत्मेत्य् उपपरीक्षते नानात्मेति, न रूपं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न रूपं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न रूपं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न रूपं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न रूपं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न रूपं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न शब्दं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न शब्दं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न शब्दम् आत्मेत्य् उपपरीक्षते नानात्मेति, न शब्दं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न शब्दं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न शब्दं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न शब्दं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न शब्दं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न शब्दं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न गन्धं नित्य इत्य् उपपरीक्षते नानित्य इति, न गन्धं सुख इत्य् उपपरीक्षते न दुःख इति, न गन्धम् आत्मेत्य् उपपरीक्षते नानात्मेति, ( श्स्प् इइ-2 8 ) न गन्धं शुभ इत्य् उपपरीक्षते नाशुभ इति, न गन्धं शून्य इत्य् उपपरीक्षते नाशून्य इति, न गन्धं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न गन्धं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न गन्धं शान्त इत्य् उपपरीक्षते नाशान्त इति, न गन्धं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न रसं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न रसं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न रसम् आत्मेत्य् उपपरीक्षते नानात्मेति, न रसं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न रसं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न रसं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न रसं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न रसं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न रसं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न स्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न स्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न स्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न स्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न स्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न स्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न स्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न स्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न धर्मान् नित्या इत्य् उपपरीक्षते नानित्या इति, न धर्मान् सुखा इत्य् उपपरीक्षते न दुःखा इति, न धर्मान् आत्मान इत्य् उपपरीक्षते नानात्मान इति, न धर्माञ् छुभा इत्य् उपपरीक्षते नाशुभा इति, न धर्माञ् छून्या इत्य् उपपरीक्षते नाशून्या इति, न धर्मान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न धर्मान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न धर्मान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न धर्मान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न चक्षुर्विज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न चक्षुर्विज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न चक्षुर्विज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुर्विज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न चक्षुर्विज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न चक्षुर्विज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न चक्षुर्विज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न चक्षुर्विज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न चक्षुर्विज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न श्रोत्रविज्ञनं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न श्रोत्रविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न श्रोत्रविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न श्रोत्रविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न श्रोत्रविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न श्रोत्रविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न श्रोत्रविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न श्रोत्रविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न घ्राणविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न घ्राणविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न घ्राणविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न घ्राणविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न घ्राणविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न घ्राणविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न घ्राणविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न घ्राणविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न जिह्वाविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न जिह्वाविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न जिह्वाविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वाविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न जिह्वाविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न जिह्वाविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न जिह्वाविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न जिह्वाविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न जिह्वाविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न कायविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न कायविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न कायविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न कायविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न कायविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न कायविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न कायविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न कायविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न मनोविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न मनोविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न मनोविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मनोविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न मनोविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न ( श्स्प् इइ-2 10 ) मनोविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न मनोविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न मनोविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न मनोविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न चक्षुःसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न चक्षुःसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न चक्षुःसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुःसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न चक्षुःसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न चक्षुःसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न चक्षुःसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न चक्षुःसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न चक्षुःसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न श्रोत्रसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न श्रोत्रसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न श्रोत्रसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न श्रोत्रसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न श्रोत्रसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न श्रोत्रसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न श्रोत्रसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न श्रोत्रसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न घ्राणसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न घ्राणसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न घ्राणसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न घ्राणसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न घ्राणसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न घ्राणसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न घ्राणसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न घ्राणसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न जिह्वासंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न जिह्वासंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न जिह्वासंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वासंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न जिह्वासंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न जिह्वासंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न जिह्वासंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न जिह्वासंस्पर्शं शान्त इत्य् ( श्स्प् इइ-2 11 ) उपपरीक्षते नाशान्त इति, न जिह्वासंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न कायसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न कायसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न कायसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न कायसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न कायसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न कायसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न कायसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न कायसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न मनःसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न मनःसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न मनःसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मनःसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न मनःसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न मनःसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न मनःसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न मनःसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न मनःसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न चक्षुःसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न चक्षुःसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न चक्षुःसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न चक्षुःसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न श्रोत्रसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां ( श्स्प् इइ-2 12 ) शान्तेत्य् उपपरीक्षते नाशान्तेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न घ्राणसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न घ्राणसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न घ्राणसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न घ्राणसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न घ्राणसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न घ्राणसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न जिह्वासंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न जिह्वासंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न जिह्वासंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न जिह्वासंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न जिह्वासंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न जिह्वासंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न कायसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न कायसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न कायसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न कायसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न कायसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न कायसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न कायसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न कायसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न मनःसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न मनःसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न मनःसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मनःसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न मनःसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न ( श्स्प् इइ-2 13 ) मनःसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न मनःसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न मनःसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न मनःसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न पृथिवीधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न पृथिवीधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न पृथिवीधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न पृथिवीधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न पृथिवीधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न पृथिवीधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न पृथिवीधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न पृथिवीधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न पृथिवीधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
नाब्धातुं नित्य इत्य् उपपरीक्षते नानित्य इति, नाब्धातुं सुख इत्य् उपपरीक्षते न दुःख इति, नाब्धातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाब्धातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, नाब्धातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, नाब्धातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, नाब्धातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, नाब्धातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, नाब्धातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न तेजोधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न तेजोधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न तेजोधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न तेजोधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न तेजोधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न तेजोधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न तेजोधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न तेजोधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न तेजोधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न वायुधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न वायुधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न वायुधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वायुधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न वायुधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न वायुधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न वायुधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न वायुधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न वायुधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
नाकाशधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, नाकाशधातुं ( श्स्प् इइ-2 14 ) सुख इत्य् उपपरीक्षते न दुःख इति, नाकाशधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाकाशधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, नाकाशधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, नाकाशधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, नाकाशधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, नाकाशधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, नाकाशधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न विज्ञानधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न विज्ञानधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न विज्ञानधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न विज्ञानधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न विज्ञानधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न विज्ञानधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न विज्ञानधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न विज्ञानधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न विज्ञानधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
नाविद्यां नित्येत्य् उपपरीक्षते नानित्येति, नाविद्यां सुखेत्य् उपपरीक्षते न दुःखेति, नाविद्याम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाविद्यां शुभेत्य् उपपरीक्षते नाशुभेति, नाविद्यां शून्येत्य् उपपरीक्षते नाशून्येति नाविद्यां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाविद्यां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाविद्यां शान्तेत्य् उपपरीक्षते नाशान्तेति नाविद्यां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न संस्कारान् नित्या इत्य् उपपरीक्षते नानित्या इति, न संस्कारान् सुखा इत्य् उपपरीक्षते न दुःखा इति, न संस्कारान् आत्मा इत्य् उपपरीक्षते नानात्मा इति, न संस्कारान् शुभा इत्य् उपपरीक्षते नाशुभा इति, न संस्कारान् शून्या इत्य् उपपरीक्षते नाशून्या इति, न संस्कारान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न संस्कारान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न संस्कारान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न संस्कारान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न विज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न विज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न विज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न विज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न विज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न विज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न विज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न विज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न विज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न नामरूपं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न नामरूपं ( श्स्प् इइ-2 15 ) सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न नामरूपम् आत्मेत्य् उपपरीक्षते नानात्मेति, न नामरूपं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न नामरूपं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न नामरूपं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न नामरूपं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न नामरूपं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न नामरूपं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न षडायतनं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न षडायतनं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न षडायतनम् आत्मेत्य् उपपरीक्षते नानात्मेति, न षडायतनं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न षडायतनं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न षडायतनं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न षडायतनं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न षडायतनं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न षडायतनं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न स्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न स्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न स्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न स्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न स्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न स्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न स्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न स्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न वेदनां नित्येत्य् उपपरीक्षते नानित्येति, न वेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न वेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न वेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न वेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न वेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न वेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न वेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न तृष्णाम् नित्येत्य् उपपरीक्षते नानित्येति, न तृष्णां सुखेत्य् उपपरीक्षते न दुःखेति, न तृष्णाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न तृष्णां शुभेत्य् उपपरीक्षते नाशुभेति, न तृष्णां शून्येत्य् उपपरीक्षते नाशून्येति, न तृष्णां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न तृष्णां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न तृष्णां शान्तेत्य् उपपरीक्षते नाशान्तेति, न तृष्णां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नोपादानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, नोपादानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, नोपादानम् आत्मेत्य् उपपरीक्षते नानात्मेति, ( श्स्प् इइ-2 16 ) नोपादानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, नोपादानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, नोपादानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, नोपादानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, नोपादानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, नोपादानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न भवं नित्य इत्य् उपपरीक्षते नानित्य इति, न भवं सुख इत्य् उपपरीक्षते न दुःख इति, न भवम् आत्मेत्य् उपपरीक्षते नानात्मेति, न भवं शुभ इत्य् उपपरीक्षते नाशुभ इति, न भवं शून्य इत्य् उपपरीक्षते नाशून्य इति, न भवं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न भवं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न भवं शान्त इत्य् उपपरीक्षते नाशान्त इति, न भवं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न जातिं नित्येत्य् उपपरीक्षते नानित्येति, न जातिं सुखेत्य् उपपरीक्षते न दुःखेति, न जातिम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जातिं शुभेत्य् उपपरीक्षते नाशुभेति, न जातिं शून्येत्य् उपपरीक्षते नाशून्येति, न जातिं निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न जातिं प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न जातिं शान्तेत्य् उपपरीक्षते नाशान्तेति, न जातिं विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न जरामरणं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न जरामरणं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न जरामरणम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जरामरणं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न जरामरणं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न जरामरणं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न जरामरणं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न जरामरणं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न जरामरणं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न दानपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न दानपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न दानपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न दानपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न दानपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न दानपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न दानपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न दानपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न दानपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न शीलपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न शीलपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न शीलपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न शीलपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न शीलपारमितां ( श्स्प् इइ-2 17 ) शून्येत्य् उपपरीक्षते नाशून्येति, न शीलपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न शीलपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न शीलपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न शीलपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न क्षान्तिपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न क्षान्तिपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न क्षान्तिपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न क्षान्तिपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न क्षान्तिपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न क्षान्तिपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न क्षान्तिपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न क्षान्तिपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न क्षान्तिपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न वीर्यपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न वीर्यपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न वीर्यपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वीर्यपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न वीर्यपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न वीर्यपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न वीर्यपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न वीर्यपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न वीर्यपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न ध्यानपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न ध्यानपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न ध्यानपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न ध्यानपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न ध्यानपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न ध्यानपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न ध्यानपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न ध्यानपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न ध्यानपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न प्रज्ञापारमितां नित्येत्य् उपपरीक्षते नानित्येति, न प्रज्ञापारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न प्रज्ञापारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न प्रज्ञापारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न प्रज्ञापारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न प्रज्ञापारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न प्रज्ञापारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न प्रज्ञापारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न प्रज्ञापारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नाध्यात्मशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाध्यात्मशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाध्यात्मशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाध्यात्मशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाध्यात्मशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाध्यात्मशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाध्यात्मशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाध्यात्मशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नाध्यात्मशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न बहिर्धाशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न बहिर्धाशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न बहिर्धाशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न बहिर्धाशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न बहिर्धाशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न बहिर्धाशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न बहिर्धाशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न बहिर्धाशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न बहिर्धाशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नाध्यात्मबहिर्धाशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाध्यात्मबहिर्धाशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाध्यात्मबहिर्धाशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाध्यात्मबहिर्धाशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाध्यात्मबहिर्धाशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाध्यात्मबहिर्धाशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाध्यात्मबहिर्धाशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाध्यात्मबहिर्धाशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नाध्यात्मबहिर्धाशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न शून्यताशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न शून्यताशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न शून्यताशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न शून्यताशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न शून्यताशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न शून्यताशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न शून्यताशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न शून्यताशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न शून्यताशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न महाशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न महाशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न महाशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न महाशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न महाशून्यतां ( श्स्प् इइ-2 19 ) शून्येत्य् उपपरीक्षते नाशून्येति, न महाशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न महाशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न महाशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न महाशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न परमार्थशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न परमार्थशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न परमार्थशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न परमार्थशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न परमार्थशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न परमार्थशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति,न परमार्थशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न परमार्थशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न परमार्थशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न संस्कृतशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न संस्कृतशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न संस्कृतशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न संस्कृतशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न संस्कृतशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न संस्कृतशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न संस्कृतशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न संस्कृतशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न संस्कृतशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नासंस्कृतशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नासंस्कृतशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नासंस्कृतशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नासंस्कृतशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नासंस्कृतशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नासंस्कृतशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नासंस्कृतशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नासंस्कृतशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नासंस्कृतशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नात्यन्तशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नात्यन्तशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नात्यन्तशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नात्यन्तशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नात्यन्तशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नात्यन्तशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नात्यन्तशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नात्यन्तशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नात्यन्तशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नानवराग्रशून्यतां नित्येत्य् उपपन्क्षते नानित्येति, नानवराग्रशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नानवराग्रशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नानवराग्रशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नानवराग्रशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नानवराग्रशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नानवराग्रशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नानवराग्रशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नानवराग्रशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नानवकारशून्यतां नित्येत्य् उपपरीक्षते ञानित्येति, नानवकारशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नानवकारशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नानवकारशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नानवकारशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नानवकारशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नानवकारशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नानवकारशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नानवकारशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न प्रकृतिशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न प्रकृतिशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न प्रकृतिशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न प्रकृतिशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न प्रकृतिशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न प्रकृतिशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न प्रकृतिशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न प्रकृतिशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न प्रकृतिशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न सर्वधर्मशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न सर्वधर्मशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न सर्वधर्मशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न सर्वधर्मशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न सर्वधर्मशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न सर्वधर्मशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न सर्वधर्मशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न सर्वधर्मशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न सर्वधर्मशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न स्वलक्षणशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न स्वलक्षणशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न स्वलक्षणशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्वलक्षणशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न स्वलक्षणशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न ( श्स्प् इइ-2 21 ) स्वलक्षणशुन्यतं निमित्तेत्य् उपपरीक्षते ननिमित्तेति, न स्वलक्षणशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न स्वलक्षणशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न स्वलक्षणशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नानुपलम्भशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नानुपलम्भशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नानुपलम्भशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नानुपलम्भशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नानुपलम्भशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नानुपलम्भशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नानुपलम्भशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नानुपलम्भशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नानुपलम्भशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नाभावशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाभावशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाभावशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाभावशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाभावशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाभावशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाभावशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाभावशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नाभावशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न स्वभावशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न स्वभावशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न स्वभावशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्वभावशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न स्वभावशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न स्वभावशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न स्वभावशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न स्वभावशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न स्वभावशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नाभावस्वभावशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाभावस्वभावशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाभावस्वभावशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाभावस्वभावशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाभावस्वभावशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाभावस्वभावशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाभावस्वभावशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाभावस्वभावशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, ( श्स्प् इइ-2 22 ) नाभावस्वभावशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न स्मृत्युपस्थानानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न स्मृत्य् उपस्थानानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न स्मृत्युपस्थानान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न स्मृत्युपस्थानानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न स्मृत्युपस्थानानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न स्मृत्युपस्थानानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति न स्मृत्युपस्थानानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न स्मृत्युपस्थानानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न स्मृत्युपस्थानानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
न सम्यक्प्रहाणानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न सम्यक्प्रहाणानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न सम्यक्प्रहाणान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न सम्यक्प्रहाणानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न सम्यक्प्रहाणानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न सम्यक्प्रहाणानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न सम्यक्प्रहाणानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न सम्यक्प्रहाणानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न सम्यक्प्रहाणानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
नर्द्धिपादान् नित्या इत्य् उपपरीक्षते नानित्या इति, नर्द्धिपादान् सुखा इत्य् उपपरीक्षते न दुःखा इति, नर्द्धिपादान् आत्मान इत्य् उपपरीक्षते नात्मान इति, नर्द्धिपादान् शुभा इत्य् उपपरीक्षते नाशुभा इति, नर्द्धिपादान् शून्या इत्य् उपपरीक्षते नाशून्या इति, नर्द्धिपादान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नर्द्धिपादान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति नर्द्धिपादान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नर्द्धिपादान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
नेन्द्रियाणि नित्यानीत्य् उपपरीक्षते नानित्यानीति, नेन्द्रियाणि सुखानीत्य् उपपरीक्षते न दुःखानीति, नेन्द्रियाण्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति नेन्द्रियाणि शुभानीत्य् उपपरीक्षते नाशुभानीति, नेन्द्रियाणि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, नेन्द्रियाणि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति नेन्द्रियाणि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, नेन्द्रियाणि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, नेन्द्रियाणि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
न बलानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न बलानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न बलान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति न बलानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न बलानि शून्यानीत्य् ( श्स्प् इइ-2 23 ) उपपरीक्षते नाशून्यानीति, न बलानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न बलानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न बलानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न बलानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
न बोध्यङ्गानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न बोध्यङ्गानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न बलान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न बोध्यङ्गानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न बोध्यङ्गानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न बोध्यङ्गानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न बोध्यङ्गानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न बोध्यङ्गानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न बोध्यङ्गानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
नार्याष्टाङ्गमार्गं नित्य इत्य् उपपरीक्षते नानित्य इति, नार्याष्टाङ्गमार्गं सुख इत्य् उपपरीक्षते न दुःख इति, नार्याष्टाङ्गमार्गम् आत्मेत्य् उपपरीक्षते नानात्मेति, नार्याष्टाङ्गमार्गं शुभ इत्य् उपपरीक्षते नाशुभ इति, नार्याष्टाङ्गमार्गं शून्य इत्य् उपपरीक्षते नाशून्य इति, नार्याष्टाङ्गमार्गं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, नार्याष्टाङ्गमार्गं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, नार्याष्टाङ्गमार्गं शान्त इत्य् उपपरीक्षते नाशान्त इति, नार्याष्टाङ्गमार्गं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
नार्यसत्यानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, नार्यसत्यानि सुखानीत्य् उपपरीक्षते न दुःखानीति, नार्यसत्यान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, नार्यसत्यानि शुभानीत्य् उपपरीक्षते नाशुभानीति, नार्यसत्यानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, नार्यसत्यानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, नार्यसत्यानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, नार्यसत्यानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, नार्यसत्यानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
न ध्यानानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न ध्यानानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न ध्यानान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न ध्यानानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न ध्यानानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न ध्यानानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न ध्यानानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न ध्यानानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न ध्यानानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
नाप्रमाणानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, नाप्रमाणानि सुखानीत्य् उपपरीक्षते न दुःखानीति, नाप्रमाणान्य् आत्मानीत्य् उपपरीक्षते ( श्स्प् इइ-2 24 ) नानात्मानीति, नाप्रमाणानि शुभानीत्य् उपपरीक्षते नाशुभानीति, नाप्रमाणानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, नाप्रमाणानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, नाप्रमाणानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, नाप्रमाणानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, नाप्रमाणानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
नारूप्यसमापत्तीर् नित्या इत्य् उपपरीक्षते नानित्या इति, नारूप्यसमापत्तीः सुखा इत्य् उपपरीक्षते न दुःखा इति, नारूप्यसमापत्ती आत्मान इत्य् उपपरीक्षते नानात्मान इति, नारूप्यसमापत्तीः शुभा इत्य् उपपरीक्षते नाशुभा इति, नारूप्यसमापत्तीः शून्या इत्य् उपपरीक्षते नाशून्या इति, नारूप्यसमापत्तीर् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नारूप्यसमापत्तीः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नारूप्यसमापत्तीः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नारूप्यसमापत्तीर् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
नाष्टौ विमोक्षान् नित्या इत्य् उपपरीक्षते नानित्या इति, नाष्टौ विमोक्षान् सुखा इत्य् उपपरीक्षते न दुःखा इति, नाष्टौ विमोक्षान् आत्मान इत्य् उपपरीक्षते नानात्मान इति, नाष्टौ विमोक्षान् शुभा इत्य् उपपरीक्षते नाशुभा इति, नाष्टौ विमोक्षान् शून्या इत्य् उपपरीक्षते नाशून्या इति, नाष्टौ विमोक्षान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नाष्टौ विमोक्षान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नाष्टौ विमोक्षान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नाष्टौ विमोक्षान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न नवानुपूर्वविहारसमापत्तीर् नित्या इत्य् उपपरीक्षते नानित्या इति न नवानुपूर्वविहारसमापत्तीः सुखा इत्य् उपपरीक्षते न दुःखा इति, न नवानुपूर्वविहारसमापत्तीर् आत्मान इत्य् उपपरीक्षते नानात्मान इति न नवानुपूर्वविहारसमापत्तीः शुभा इत्य् उपपरीक्षते नाशुभा इति, न नवानुपूर्वविहारसमापत्तीः शून्या इत्य् उपपरीक्षते नाशून्या इति, न नवानुपूर्वविहारसमापत्तीर् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न नवानुपूर्वविहारसमापत्तीः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न नवानुपूर्वविहारसमापत्तीः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न नवानुपूर्वविहारसमापत्तीर् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि ( श्स्प् इइ-2 25 ) शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
नाभिज्ञा नित्या इत्य् उपपरीक्षते नानित्या इति, नाभिज्ञाः सुखा इत्य् उपपरीक्षते न दुःखा इति, नाभिज्ञा आत्मान इत्य् उपपरीक्षते नानात्मन इति, नाभिज्ञाः शुभा इत्य् उपपरीक्षते नाशुभा इति, नाभिज्ञाः शून्या इत्य् उपपरीक्षते नाशून्या इति, नाभिज्ञा निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नाभिज्ञाः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नाभिज्ञाः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नाभिज्ञा विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न समाधीन् नित्या इत्य् उपपरीक्षते नानित्या इति, न समाधीन् सुखा इत्य् उपपरीक्षते न दुःखा इति, न समाधीन् आत्मान इत्य् उपपरीक्षते नानात्मान इति, न समाधीञ् छुभा इत्य् उपपरीक्षते नाशुभा इति, न समाधीञ् छून्या इत्य् उपपरीक्षते नाशून्या इति, न समाधीन् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न समाधीन् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न समाधीञ् छान्ता इत्य् उपपरीक्षते नाशान्ता इति, न समाधीन् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न धारणीमुखानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न धारणीमुखानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न धारणीमुखान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न धारणीमुखानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न धारणीमुखानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न धारणीमुखानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न धारणीमुखानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न धारणीमुखानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न धारणीमुखानि विविक्तानित्य् उपपरीक्षते नाविविक्तानीति.
न तथागतबलानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न तथागतबलानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न तथागतबलान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न तथागतबलानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न तथागतबलानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न तथागतबलानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न तथागतबलानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न तथागतबलानि शान्तानीत्य् ( श्स्प् इइ-2 26 ) उपपरीक्षते नाशान्तानीति, न तथागतबलानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
न वैशारद्यानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न वैशारद्यानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न वैशारद्यान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न वैशारद्यानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न वैशारद्यानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न वैशारद्यानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न वैशारद्यानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न वैशारद्यानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न वैशारद्यानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
न प्रतिसंविदो नित्या इत्य् उपपरीक्षते नानित्या इति, न प्रतिसंविदः सुखा इत्य् उपपरीक्षते न दुःखा इति, न प्रतिसंविद आत्मानीत्य् उपपरीक्षते नानात्मानीति, न प्रतिसंविदः शुभा इत्य् उपपरीक्षते नाशुभा इति, न प्रतिसंविदः शून्या इत्य् उपपरीक्षते नाशून्या इति, न प्रतिसंविदो निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न प्रतिसंविदः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न प्रतिसंविदः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न प्रतिसंविदो विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न महामैत्रीं नित्येत्य् उपपरीक्षते नानित्येति, न महामैत्रीं सुखेत्य् उपपरीक्षते न दुःखेति, न महामैत्रीम् आत्मेत्य् उपपरीक्षते नानात्मेति, न महामैत्रीं शुभेत्य् उपपरीक्षते नाशुभेति, न महामैत्रीं शून्येत्य् उपपरीक्षते नाशून्येति, न महामैत्रीं निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न महामैत्रीं प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न महामैत्रीं शान्तेत्य् उपपरीक्षते नाशान्तेति, न महामैत्रीं विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न महाकरुणां नित्येत्य् उपपरीक्षते नानित्येति, न महाकरुणां सुखेत्य् उपपरीक्षते न दुःखेति, न महाकरुणाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न महाकरुणां शुभेत्य् उपपरीक्षते नाशुभेति, न महाकरुणां शून्येत्य् उपपरीक्षते नाशून्येति, न महाकरुणां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न महाकरुणां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न महाकरुणां शान्तेत्य् उपपरीक्षते नाशान्तेति, न महाकरुणां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नावेणिकबुद्धधर्मान् नित्या इत्य् उपपरीक्षते नानित्या इति, नावेणिकबुद्धधर्मान् सुखा इत्य् उपपरीक्षते न दुःखा इति, नावेणिकबुद्धधर्मान् आत्मान इत्य् उपपरीक्षते नानात्मान इति, नावेणिकबुद्धधर्माञ् छुभा इत्य् उपपरीक्षते नाशुभा इति, नावेणिकबुद्धधर्माञ् छून्या इत्य् ( श्स्प् इइ-2 27 ) उपपरीक्षते नाशून्या इति, नावेणिकबुद्धधर्मान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नावेणिकबुद्धधर्मान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नावेणिकबुद्धधर्माञ् छान्ता इत्य् उपपरीक्षते नाशान्ता इति, नावेणिकबुद्धधर्मान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न सर्वज्ञतां नित्येत्य् उपपरीक्षते नानित्येति, न सर्वज्ञतां सुखेत्य् उपपरीक्षते न दुःखेति, न सर्वज्ञताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न सर्वज्ञतां शुभेत्य् उपपरीक्षते नाशुभेति, न सर्वज्ञतां शून्येत्य् उपपरीक्षते नाशून्येति, न सर्वज्ञतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न सर्वज्ञतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न सर्वज्ञतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न सर्वज्ञतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न मार्गाकारज्ञतां नित्येत्य् उपपरीक्षते नानित्येति, न मार्गाकारज्नतां सुखेत्य् उपपरीक्षते न दुःखेति, न मार्गाकारज्ञताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मार्गाकारज्ञतां शुभेत्य् उपपरीक्षते नाशुभेति, न मार्गाकारज्ञतां शून्येत्य् उपपरीक्षते नाशून्येति, न मार्गाकारज्ञतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न मार्गाकारज्ञतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न मार्गाकारज्ञतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न मार्गाकारज्ञतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न सर्वाकारज्ञतां नित्येत्य् उपपरीक्षते नानित्येति, न सर्वाकारज्ञतां सुखेत्य् उपपरीक्षते न दुःखेति, न सर्वाकारज्ञताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न सर्वाकारज्ञतां शुभेत्य् उपपरीक्षते नाशुभेति, न सर्वाकारज्ञतां शून्येत्य् उपपरीक्षते नाशून्येति, न सर्वाकारज्ञतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न सर्वाकारज्ञतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न सर्वाकारज्ञतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न सर्वाकारज्ञतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् उपपरीक्षते.
आह: केन कारणेनायुष्मन् सुभूते एवं वदसि? यो रूपस्यानुत्पादो न तद् रूपं, यो वेदनाया अनुत्पादो न सा वेदना, यः संज्ञाया अनुत्पादो न सा संज्ञा, यः संस्काराणाम् अनुत्पादो न ते संस्काराः, यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुषो ऽनुत्पादो ( श्स्प् इइ-2 28 ) न तच् चक्षुः, यः श्रोत्रस्यानुत्पादो न तच् छ्रोत्रं, यो घ्राणस्यानुत्पादो न तद् घ्राणं, यो जिह्वाया अनुत्पादो न सा जिह्वा, यः कायस्यानुत्पादो न स कायः, यो मनसो ऽनुत्पादो न तन् मनः.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यो रूपस्यानुत्पादो न तद् रूपं, यः शब्दस्यानुत्पादो न सः शब्दः, यो गन्धस्यानुत्पादो न स गन्धः, यो रसस्यानुत्पादो न स रसः, यः स्पर्शस्यानुत्पादो न सः स्पर्शः, यो धर्माणाम् अनुत्पादो न ते धर्माः.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानं, यो घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानं, यो जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानं, यः कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानं, यो मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानम्.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुःसंस्पर्शस्यानुत्पादो न सश् चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्यानुत्पादो न सः श्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्यानुत्पादो न सो घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्यानुत्पादो न सो जिह्वासंस्पर्शः, यः कायसंस्पर्शस्यानुत्पादो न सः कायसंस्पर्शः, यो मनःसंस्पर्शस्यानुत्पादो न सो मनःसंस्पर्शः.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यः पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः, यो ऽब्धातोर् अनुत्पादो न सो ऽब्धातुः, यस् तेजोधातोर् अनुत्पादो न स तेजोधातुः, यो वायुधातोर् अनुत्पादो न स वायुधातुः, य आकाशधातोर् अनुत्पादो न स आकाशधातुः, यो विज्ञानधातोर् अनुत्पादो न सो विज्ञानधातुः.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यो ऽविद्याया अनुत्पादो न सो ऽविद्या, यः संस्काराणाम् अनुत्पादो न ते संस्काराः, यो विज्ञानस्यानुत्पादो न तद् विज्ञानं, यो नामरूपस्यानुत्पादो न तन् नामरूपं, ( श्स्प् इइ-2 29 ) यः षडायतनस्यानुत्पादो न स षडायतनं, यः स्पर्शस्यानुत्पादो न स स्पर्शः, यो वेदनाया अनुत्पादो न सा वेदना, यस् तृष्णाया अनुत्पादो न सा तृष्णा, य उपादानस्यानुत्पादो न तद् उपादानं, यो भवस्यानुत्पादो न स भवः, यो जातेर् अनुत्पादो न सा जातिः, यो जरामरणस्यानुत्पादो न तज् जरामरणम्.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यो दानपारमिताया अनुत्पादो न सा दानपारमिता, यः शीलपारमिताया अनुत्पादो न सा शीलपारमिता, यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यो ऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, यो महाशून्यताया अनुत्पादो न सा महाशून्यता, यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, यो ऽसंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता, यो ऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, यो नवराग्रशून्यताया अनुत्पादो न सा नवराग्रशून्यता, यो ऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, यो ऽनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, यो ऽभावशून्यताया अनुत्पादो न साभावशून्यता, यः स्वभवशून्यताया अनुत्पादो न सा स्वभावशून्यता, यो ऽभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानाम् अनुत्पादो न त ऋद्धिपादाः, य इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणि, यो बलानाम् अनुत्पादो न तानि बलानि, यो बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानि, य आर्याष्टाङ्गस्यानुत्पादो न स आर्याष्टाङ्गो मार्गः, य आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानि, यो ध्यानानाम् अनुत्पादो न तानि ध्यानानि, यो ऽप्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानि, य आरूप्यसमापत्तीनान् अनुत्पादो न ता आरूप्यसमापत्तयः, ( श्स्प् इइ-2 30 ) यो विमोक्षाणाम् अनुत्पादो न ते विमोक्षाः, यो ऽनुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, य अभिज्ञानाम् अनुत्पादो न ता अभिज्ञाः, यः समाधीनाम् अनुत्पादो न ते समाधयः, यो धारणीमुखानाम् अनुत्पादो न तानि धारणीमुखानि, यस् तथागतबलानाम् अनुत्पादो न तानि तथागतबलानि, यो वैशारद्यानाम् अन्त्पादो न तानि वैशारद्यानि, यः प्रतिसंविदाम् अनुत्पादो न ता प्रतिसंविदः, यो महामैत्र्या अनुत्पादो न सा महामैत्री, यो महाकरुणाया अनुत्पादो न सा करुणा, य आवेणिकबुद्धधर्माणाम् अनुत्पादो न त आवेणिकबुद्धधर्माः.
केन कारणेनायुष्मन् सुभूते एवं वदसि? यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, यो मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता, यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं रूपेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् रूपं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, वेदनायुष्मञ् छारद्वतीपुत्र शून्या वेदनया यद् आयुष्मञ् छारद्वतीपुत्र शून्या न सा वेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वेदनाया अनुत्पादो न सा वेदना, संज्ञायुष्मञ् छारद्वतीपुत्र शून्या संज्ञया आयुष्मञ् छारद्वतीपुत्र शून्या न सा संज्ञा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संज्ञाया अनुत्पादो न सा संज्ञा, संस्कारा आयुष्मञ् छारद्वतीपुत्र शून्याः संस्कारैर् य आयुष्मञ् छारद्वतीपुत्र शून्या न ते संस्कारा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संस्काराणाम् अनुत्पादो न ते संस्काराः, विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं विज्ञानेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् विज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्.
चक्षुर् आयुष्मञ् छारद्वतीपुत्र शून्यं चक्षुषा यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तच् चक्षुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यच् चक्षुषो ऽनुत्पादो न तच् चक्षुः, श्रोत्रम् आयुष्मञ् छारद्वतीपुत्र शून्यं श्रोत्रेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तच् छ्रोत्रं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः श्रोत्रस्यानुत्पादो न तच् छ्रोत्रं, घ्राणम् आयुष्मञ् छारद्वतीपुत्र ( श्स्प् इइ-2 31 ) शून्यं घ्राणेन यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् घ्राणं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणस्यानुत्पादो न तद् घ्राणं, जिह्वायुष्मञ् छारद्वतीपुत्र शून्या जिह्वया यायुष्मञ् छारद्वतीपुत्र शून्या न सा जिह्वा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वाया अनुत्पादो न सा जिह्वा, काय आयुष्मञ् छारद्वतीपुत्र शून्यं कायेण य आयुष्मञ् छारद्वतीपुत्र शून्यो न स कायो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः कायस्यानुत्पादो न स कायः, मन आयुष्मञ् छारद्वतीपुत्र शून्यं मनसा यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तन् मनो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनसो ऽनुत्पादो न तन् मनः.
रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं रूपेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् रूपं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, शब्द आयुष्मञ् छारद्वतीपुत्र शून्यः शब्देन, यश् च शून्यो न स शब्दो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शब्दस्यानुत्पादो न स शब्दः, गन्ध आयुष्मञ् छारद्वतीपुत्र शून्यो गन्धेन यश् च शून्यो न स गन्धो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो गन्धस्यानुत्पादो न स गन्धः, रस आयुष्मञ् छारद्वतीपुत्र शून्यो रसेन यश् च शून्यो न स रसो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रसस्यानुत्पादो न स रसः, स्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः स्पर्शेन, यश् च शून्यो न स स्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्पर्शस्यानुत्पादो न स स्पर्शः, धर्मा आयुष्मञ् छारद्वतीपुत्र शून्या धर्मैर् ये च शून्या न ते धर्मा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो धर्ंआनाम् अनुत्पादो न ते धर्माः.
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं चक्षुर्विज्ञानेन, यच् च शून्यं न तच् चक्षुर्विज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यश् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानं, श्रोत्रविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं श्रोत्रविज्ञानेन, यच् च शून्यं न तच् छ्रोत्रविज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानं, घ्राणविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं घ्राणविज्ञानेन, यच् च शून्यं न तद् घ्राणविज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानं, जिह्वाविज्ञानम् आयुष्मञ् ( श्स्प् इइ-2 32 ) छारद्वतीपुत्र शून्यं जिह्वाविज्ञानेन, यच् च शून्यं न तज् जिह्वाविज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानं, कायविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं कायविज्ञानेन, यच् च शून्यं न तत् कायविज्ञानं नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यत् कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानं, मनोविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं मनोविज्ञानेन, यच् च शून्यं न तन् मनोविज्ञानं नोत्पादः, अनेन आयुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानम्.
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यश् चक्षुःसंस्पर्शेन यश् च शून्यो न स चक्षुःसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यश् चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः, श्रोत्रसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः श्रोत्रसंस्पर्शेन, यश् च शून्यो न स श्रोत्रसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्पर्शः, घ्राणसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो घ्राणसंस्पर्शेन, यश् च शून्यो न स घ्राणसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्पर्शः, जिह्वासंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो जिह्वासंस्पर्शेन, यश् च शून्यो न स जिह्वासंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वासंस्पर्शस्यानुत्पादो न स जिह्वासंस्पर्शः, कायसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः कायसंस्पर्शेन, यश् च शून्यो न स कायसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः कायसंस्पर्शस्यानुत्पादो न स कायसंस्पर्शः, मनःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो मनःसंस्पर्शेन, यश् च शून्यो न स मनःसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनःसंस्पर्शस्यानुत्पादो न स मनःसंस्पर्शः.
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या चक्षुःसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा चक्षुःसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्यय वेदना, श्रोत्रसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या श्रोत्रसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा श्रोत्रसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः ( श्स्प् इइ-2 33 ) श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, घ्राणसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या घ्राणसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा घ्राणसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, जिह्वासंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या जिह्वासंस्पर्शप्रत्ययवेदनया, या च शून्या न सा जिह्वासंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, कायसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या कायसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा कायसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, मनःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या मनःसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा मनःसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना.
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यः पृथिवीधातुना, यश् च शून्यो न स पृथिवीधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः, अब्धातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो ऽब्धातुना, यश् च शून्यो न सो ऽब्धातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽब्धातोर् अनुत्पादो न सो ऽब्धातुः, तेजोधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यस् तेजोधातुना, यश् च शून्यो न स तेजोधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यस् तेजोधातोर् अनुत्पादो न स तेजोधातुः, वायुधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो वायुधातुना, यश् च शून्यो न स वायुधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वायुधातोर् अनुत्पादो न स वायुधातुः, आकाशधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो आकाशधातुना, यश् च शून्यो न स आकाशधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आकाशधातोर् अनुत्पादो न स आकाशधातुः, विज्ञानधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो विज्ञानधातुना, यश् च शून्यो न स विज्ञानधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विज्ञानधातोर् अनुत्पादो न स विज्ञानधातुः.
अविद्यायुष्मञ् छारद्वतीपुत्र शून्यो अविद्यया, या च शून्या न साविद्या नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो अविद्याया अनुत्पादो न साविद्या, संस्कारा आयुष्मञ् छारद्वतीपुत्र शून्याः संस्कारैर्, ये च शून्या न ते संस्कारा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संस्काराणाम् अनुत्पादो न ते संस्काराः विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं विज्ञानेन, यच् च शून्यं न तद् विज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विज्ञानस्यानुत्पादो न तद् विज्ञानं, नामरूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं नामरूपेण, यच् च शून्यं न तन् नामरूपं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो नामरूपस्यानुत्पादो न तन् नामरूपं, षडायतनम् आयुष्मञ् छारद्वतीपुत्र शून्यं षडायतनेन, यच् च शून्यं न तत् षडायतनं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः षडायतनस्यानुत्पादो न तत् षडायतनं, स्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः स्पर्शेन, यश् च शून्यो न स स्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्पर्शस्यानुत्पादो न स स्पर्शः, वेदनायुष्मञ् छारद्वतीपुत्र शून्यो वेदनया, या च शून्या न सा वेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वेदनायाम् अनुत्पादो न सा वेदना, तृष्णायुष्मञ् छारद्वतीपुत्र शून्या तृष्णया, या च शून्या न सा तृष्णा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यस् तृष्णाया अनुत्पादो न सा तृष्णा, उपादानम् आयुष्मञ् छारद्वतीपुत्र शून्यम् उपादानेन, यच् च शून्यं न तद् उपादानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् उपादानस्यानुत्पादो न तद् उपादानं, भव आयुष्मञ् छारद्वतीपुत्र शून्यो भवेन, यश् च शून्यो न स भवो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो भवस्यानुत्पादो न स भवः, जातिर् आयुष्मञ् छारद्वतीपुत्र शून्या जात्या, या च शून्या न सा जातिर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जातेर् अनुत्पादो न सा जातिः, जरामरणम् आयुष्मञ् छारद्वतीपुत्र शून्या जरामरणेन, यच् च शून्यं न तज् जरामरणं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जरामरणस्यानुत्पादो न तज् जरामरणम्.
दानपारमितायुष्मञ् छारद्वतीपुत्र शून्या दानपारमितया, या च शून्या न सा दानपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता, शीलपारमितायुष्मञ् छारद्वतीपुत्र शून्या शीलपारमितया, या च शून्या न सा शीलपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शीलपारमिताया ( श्स्प् इइ-2 35 ) अनुत्पादो न सा शीलपारमिता, क्षान्तिपारमितायुष्मञ् छारद्वतीपुत्र शून्या क्षान्तिपारमितया, या च शून्या न सा क्षान्तिपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, वीर्यपारमितायुष्मञ् छारद्वतीपुत्र शून्या वीर्यपारमितया, या च शून्या न सा वीर्यपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, ध्यानपारमितायुष्मञ् छारद्वतीपुत्र शून्या ध्यानपारमितया, या च शून्या न सा ध्यानपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्र शून्या प्रज्ञापारमितया, या च शून्या न सा प्रज्ञापारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता.
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र शून्याध्यात्मशून्यतया, या च शून्या न साध्यात्मशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, बहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र शून्या बहिर्धाशून्यतया, या च शून्या न सा बहिर्धाशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र शून्याध्यात्मबहिर्धाशून्यतया, या च शून्या न साध्यात्मबहिर्धाशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, शून्यताशून्यतायुष्मञ् छारद्वतीपुत्र शून्या शून्यताशून्यतया, या च शून्या न सा शून्यताशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, महाशून्यतायुष्मञ् छारद्वतीपुत्र शून्या महाशून्यतया, या च शून्या न सा महाशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो महाशून्यताया अनुत्पादो न सा महाशून्यता, परमार्थशून्यतायुष्मञ् छारद्वतीपुत्र शून्या परमार्थशून्यतया, या च शून्या न सा परमार्थशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, संस्कृतशून्यतायुष्मञ् छारद्वतीपुत्र शून्या संस्कृतशून्यतया, या च शून्या न सा संस्कृतशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, अत्यन्तशून्यतायुष्मञ् ( श्स्प् इइ-2 36 ) छारद्वतीपुत्र शून्यात्यन्तशून्यतया, या च शून्या न सात्यन्तशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, अनवराग्रशून्यतायुष्मञ् छारद्वतीपुत्र शून्यानवराग्रशून्यतया, या च शून्या न सानवराग्रशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनवराग्रशून्यताया अनुत्पादो न सानवराग्रशून्यता, अनवकारशून्यतायुष्मञ् छारद्वतीपुत्र शून्यानवकारशून्यतया, या च शून्या न सानवकारशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, प्रकृतिशून्यतायुष्मञ् छारद्वतीपुत्र शून्या प्रकृतिशून्यतया, या च शून्या न सा प्रकृतिशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, सर्वधर्मशून्यतायुष्मञ् छारद्वतीपुत्र शून्या सर्वधर्मशून्यतया, या च शून्या न सा सर्वधर्मशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, स्वलक्षणशून्यतायुष्मञ् छारद्वतीपुत्र शून्या स्वलक्षणशून्यतया, या च शून्या न सा स्वलक्षणशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, अनुपलम्भशून्यतायुष्मञ् छारद्वतीपुत्र शून्यानुपलम्भशून्यतया, या च शून्या न सानुपलम्भशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, अभावशून्यतायुष्मञ् छारद्वतीपुत्र शून्याभावशून्यतया, या च शून्या न साभावशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽभावशून्यताया अनुत्पादो न साभावशून्यता, स्वभावशून्यतायुष्मञ् छारद्वतीपुत्र शून्या स्वभावशून्यतया, या च शून्या न सा स्वभावशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता, अभावस्वभावशून्यतायुष्मन् छारद्वतीपुत्र शून्याभावस्वभावशून्यतया, या च शून्या न साभावस्वभावशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता.
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि स्मृत्युपस्थानं यानि च शून्यानि न तानि स्मृत्युपस्थानानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, सम्यक्प्रहाणान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि ( श्स्प् इइ-2 37 ) सम्यक्प्रहाणैर् यानि च शून्यानि न तानि सम्यक्प्रहाणानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानि, ऋद्धिपादा आयुष्मञ् छारद्वतीपुत्र शून्या ऋद्धिपादैर् या च शून्या न ते ऋद्धिपादा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य ऋद्धिपादानाम् अनुत्पादो न ते ऋद्धिपादाः, इन्द्रियाणि आयुष्मञ् छारद्वतीपुत्र शून्यानीन्द्रियैर् यानि च शून्यानि न तानीन्द्रियाणि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणि, बलान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि बलैर् यानि च शून्यानि न तानि बलानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो बलानाम् अनुत्पादो न तानि बलानि, बोध्यङ्गान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि बोध्यङ्गैर् यानि च शून्यानि न तानि बोध्यङ्गानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानि, आर्याष्टाङ्गो मार्ग आयुष्मञ् छारद्वतीपुत्र शून्य आर्याष्टाङ्गमार्गेन यश् च शून्यो न स मार्गो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आर्याष्टाङ्गस्य मार्गस्यानुत्पादो न स मार्गः, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र शून्यान्य् आर्यसत्यैः, यानि च शून्यानि न तान्य् आर्यसत्यानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानि, ध्यानान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि ध्यानैः, यानि च शून्यानि न तान्य् ध्यानानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ध्यानानाम् अनुत्पादो न तान्य् ध्यानानि, अप्रमाणान्य् आयुष्मञ् छारद्वतीपुत्र शून्यान्य् अप्रमाणैः, यानि च शून्यानि न तान्य् अप्रमाणानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो प्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानि, आरूप्यसमापत्तय आयुष्मञ् छारद्वतीपुत्र शून्या आरूप्यसमापत्तिभिः, याश् च शून्या न ता आरूप्यसमापत्तयो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आरूप्यसमापत्तीनाम् अनुत्पादो न ता आरूप्यसमापत्तयः, विमोक्षा आयुष्मञ् छारद्वतीपुत्र शून्या विमोक्षैः, ये च शून्या न ते विमोक्षा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विमोक्षाणाम् अनुत्पादो न ते विमोक्षाः, अनुपूर्वविहारसमापत्तय आयुष्मञ् छारद्वतीपुत्र शून्या अनुपूर्वविहारसमापत्तिभिः, याश् च शून्या न ता अनुपूर्वविहारसमापत्तयो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आयुष्मञ् छारद्वतीपुत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः, ( श्स्प् इइ-2 38 ) यानि च शून्यानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञा आयुष्मञ् छारद्वतीपुत्र शून्या अभिज्ञाभिः, याश् च शून्या न ता अभिज्ञा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽभिज्ञाया अनुत्पादो न ता अभिज्ञाः, समाधय आयुष्मञ् छारद्वतीपुत्र शून्या समाधिभिः, ये च शून्या न ते समाधयो नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः समाधीनाम् अनुत्पादो न ते समाधयः, धारणीमुखान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि धारणीमुखैः, यानि च शून्यानि न तानि धारणीमुखानि नोत्पादः, अनेन आयुष्मञ् छारद्वतीपुत्र पर्यायेण यो धारणीमुखानाम् अनुत्पादो न तानि धारणीमुखानि, तथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि तथागतबलैः, यानि च शून्यानि न तानि तथागतबलानि नोत्पादः, अनेन आयुष्मञ् छारद्वतीपुत्र पर्यायेण यः तथागतबलानाम् अनुत्पादो न तानि तथागतबलानि, वैशारद्यान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि वैशारद्यैः, यानि च शून्यानि न तानि वैशारद्यानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानि प्रतिसंविद आयुष्मञ् छारद्वतीपुत्र शून्याः प्रतिसंविद्भिः, याश् च शून्या न ता प्रतिसंविदो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः प्रतिसंविदाम् अनुत्पादो न ता प्रतिसंविदः, महामैत्र्य् आयुष्मञ् छारद्वतीपुत्र शून्या महामैत्र्या, या च शून्या न सा महामैत्री नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो महामैत्र्या अनुत्पादो न सा महामैत्री, महाकरुणायुष्मञ् छारद्वतीपुत्र शून्या महाकरुणया, या च शून्या न सा महाकरुणा नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो महाकरुणाया अनुत्पादो न सा महाकरुणा, आवेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्र शून्या आवेणिकबुद्धधर्मैः, ये च शून्या न त आवेणिकबुद्धधर्मा नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आवेणिकबुद्धधर्माणाम् अनुत्पादो न त आवेणिकबुद्धधर्माः.
सर्वज्ञतायुष्मञ् छारद्वतीपुत्र शून्या सर्वज्ञतया, या च शून्या न सा सर्वज्ञता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, मार्गाकारज्ञतायुष्मञ् छारद्वतीपुत्र शून्या मार्गाकारज्ञतया, या च शून्या न सा मार्गाकारज्ञता नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मार्गाकारज्ञताया अनुत्पादो ( श्स्प् इइ-2 39 ) न सा मार्गाकारज्ञता, सर्वाकारज्ञतायुष्मञ् छारद्वतीपुत्र शून्या सर्वाकारज्ञतया, या च शून्या न सा सर्वाकारज्ञता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
आह: केन कारणेनायुष्मन् सुभूते एवं वदसि? यो रूपस्य व्ययो न तद् रूपं, यो वेदनाया व्ययो न सा वेदना, यः संज्ञाया व्ययो न सा संज्ञा, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानम्.
यश् चक्षुषो व्ययो न तच् चक्षुः, यः श्रोत्रस्य व्ययो न तच् छ्रोत्रं, यो घ्राणस्य व्ययो न तद् घ्राणं, यो जिह्वाया व्ययो न सा जिह्वा, यः कायस्य व्ययो न स कायः, यो मनसो व्ययो न तन् मनः.
यो रूपस्य व्ययो न तद् रूपं, यः शब्दस्य व्ययो न स शब्दः, यो गन्धस्य व्ययो न स गन्धः, यो रसस्य व्ययो न स रसः, यः स्पर्शस्य व्ययो न स स्पर्शः, यो धर्माणां व्ययो न ते धर्माः.
यश् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानं, यो घ्राणविज्ञनस्य व्ययो न तद् घ्राणविज्ञानं, यो जिह्वाविज्ञनस्य व्ययो न तज् जिह्वाविज्ञानं, यः कायविज्ञनस्य व्ययो न तत् कायविज्ञानं, यो मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्.
यश् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्य व्ययो न स छ्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः, यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः.
यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना.
यः पृथिवीधातोर् व्ययो न स पृथिवीधातुः, यो ऽब्धातोर् व्ययो न सो ऽब्धातुः, यस् तेजोधातोर् व्ययो न स तेजोधातुः, यो वायुधातोर् व्ययो न स वायुधातुः, य आकाशधातोर् व्ययो न स आकाशधातुः, यो विज्ञानधातोर् व्ययो न स विज्ञानधातुः.
यो ऽविद्याया व्ययो न साविद्या, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानं, यो नामरूपस्य व्ययो न तन् नामरूपं, यः षडायतनस्य व्ययो न तत् षडायतनं, यः स्पर्शस्य व्ययो न स स्पर्शः, यो वेदनाया व्ययो न सा वेदना, यस् तृष्णाया व्ययो न सा तृष्णा, य उपादानस्य व्ययो न तद् उपादानं, यो भवस्य व्ययो न स भवः, यो जातेर् व्ययो न सा जातिः, यो जरामरणस्य व्ययो न तज् जरामरणम्.
यो दानपारमिताया व्ययो न सा दानपारमिता, यः शीलपारमिताया व्ययो न सा शीलपारमिता, यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता.
यो ऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, यो महाशून्यताया व्ययो न सा महाशून्यता, यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, यो ऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, यो ऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, यो ऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, यो ऽनवकारशून्यताया व्ययो न सानवकारशून्यता, यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताय व्ययो न सा स्वलक्षणशून्यता, यो ऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, यो ऽभावशून्यताया व्ययो न साभावशून्यता, यः स्वभावशून्यताया व्ययो न सा स्वभावशून्यता, यो ऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता.
यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानां व्ययो न ते ऋद्धिपादाः, य इन्द्रियाणां व्ययो न तानीन्द्रियाणि, यो बलानां व्ययो न तानि बलानि, यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, य आर्याष्टाङ्गस्य मार्गस्य व्ययो न स आर्याष्टाङ्गमार्गः, य आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, यो ध्यानानां व्ययो न तानि ध्यानानि, यो प्रमाणानां व्ययो न तान्य् अप्रमाणानि, य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः, यो विमोक्षाणां व्ययो न ते विमोक्षाः, यो ऽनुपूर्वविहारसमापत्तीनां ( श्स्प् इइ-2 41 ) व्ययो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यो ऽभिज्ञानां व्ययो न ता अभिज्ञाः, यः समाधीनां व्ययो न ते समाधयः, यो धारणीमुखानां व्ययो न तानि धारणीमुखानि, यस् तथागतबलानां व्ययो न तानि तथागतबलानि, यो वैशारद्यानां व्ययो न तानि वैशारद्यानि, यः प्रतिसंविदां व्ययो न ता प्रतिसंविदः, यो महामैत्र्या व्ययो न सा महामैत्री, यो महाकरुणाया व्ययो न सा महाकरुणा, य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः, यः सर्वज्ञताया व्ययो न सा सर्वज्ञता, यो मार्गाकारञताया व्ययो न सा मार्गाकारज्ञता, यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता.
सुभूतिर् आह: तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो या च वेदना यच् चाद्वैधीकारं, यश् च व्ययो या च संज्ञा यच् चाद्वैधीकारं, यस् च व्ययो ये च संस्कारा यच् चाद्वैधीकारं, यश् च व्ययो यच् च विज्ञानं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यच् च चक्षुर् यच् चाद्वैधीकारं, यश् च व्ययो यच् च श्रोत्रं यच् चाद्वैधीकारं, यश् च व्ययो यच् च घ्राणं यच् चाद्वैधीकारं, यश् च व्ययो या च जिह्वा यच् चाद्वैधीकारं, यश् च व्ययो यश् च कायो यच् चाद्वैधीकारं, यश् च व्ययो यच् च मनो यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं, यश् च व्ययो यश् च शब्दो यच् चाद्वैधीकारं, यश् च व्ययो यश् च गन्धो यच् चाद्वैधीकारं, यश् च व्ययो यश् च रसो यच् चाद्वैधीकारं, यश् च व्ययो यश् च स्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो ये च धर्मा यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यच् च चक्षुर्विज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च श्रोत्रविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च घ्राणविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च जिह्वाविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च कायविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च मनोविज्ञानं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यश् च चक्षुःसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च श्रोत्रसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च घ्राणसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च जिह्वासंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च कायसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च मनःसंस्पर्शो यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो या च चक्षुःसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च श्रोत्रसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च घ्राणसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च जिह्वासंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च कायसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च मनःसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यश् च पृथिवीधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् चाब्धातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् च तेजोधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् च वायुधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् चाकाशधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् च विज्ञानधातुर् यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो या चाविद्या यच् चाद्वैधीकारं, यश् च व्ययो ये च संस्कारा यच् चाद्वैधीकारं, यश् च व्ययो यच् च विज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च नामरूपं यच् चाद्वैधीकारं, यश् च व्ययो यच् च षडायतनं यच् चाद्वैधीकारं, यश् च व्ययो यश् च स्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो या च वेदना यच् चाद्वैधीकारं, यश् च व्ययो या च तृष्णा यच् चाद्वैधीकारं, यश् च व्ययो यच् चोपादानं ( श्स्प् इइ-2 43 ) यच् चाद्वैधीकारं, यश् च व्ययो यश् च भवो यच् चाद्वैधीकारं, यश् च व्ययो या च जातिर् यच् चाद्वैधीकारं, यश् च व्ययो यच् च जरामरणं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो या च दानपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च शीलपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च क्षान्तिपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च वीर्यपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च ध्यानपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च प्रज्ञापारमिता यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो या चाध्यात्मशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च बहिर्धाशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चाध्यात्मबहिर्धाशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च शून्यताशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च महाशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च परमार्थशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च संस्कृतशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चासंस्कृतशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चात्यन्तशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चानवराग्रशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चानवकारशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च प्रकृतिशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च सर्वधर्मशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च स्वलक्षणशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चानुपलम्भशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चाभावशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च स्वभावशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चाभावस्वभावशून्यता यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यानि च स्मृत्युपस्थानानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च सम्यक्प्रहाणानि यच् चाद्वैधीकारं, यश् च व्ययो ये च ऋद्धिपादा यच् चाद्वैधीकारं, यश् च व्ययो यानि चेन्द्रियाणि यच् चाद्वैधीकारं, यश् च व्ययो यानि च बलानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च बोध्यङ्गानि यच् चाद्वैधीकारं, यश् च व्ययो यश् चार्याष्टाङ्गमार्गो यच् चाद्वैधीकारं, यश् च व्ययो यानि चार्यसत्यानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च ध्यानानि यच् चाद्वैधीकारं, ( श्स्प् इइ-2 44 ) यश् च व्ययो यानि चाप्रमाणानि यच् चाद्वैधीकारं, यश् च व्ययो याश् चारूप्यसमापत्तयो यच् चाद्वैधीकारं, यश् च व्ययो ये च विमोक्षा यच् चाद्वैधीकारं, यश् च व्ययो याश् चानुपूर्वविहारसमापत्तयो यच् चाद्वैधीकारं, यश् च व्ययो यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि यच् चाद्वैधीकारं, यश् च व्ययो याश् चाभिज्ञा यच् चाद्वैधीकारं, यश् च व्ययो ये च समाधयो यच् चाद्वैधीकारं, यश् च व्ययो यानि च धारणीमुखानि यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यानि च तथागतबलानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च वैशारद्यानि यच् चाद्वैधीकारं, यश् च व्ययो याश् च प्रतिसंविदो यच् चाद्वैधीकारं, यश् च व्ययो या च महामैत्री यच् चाद्वैधीकारं, यश् च व्ययो या च महाकरुणा यच् चाद्वैधीकारं, यश् च व्ययो ये चाष्टादशावेणिकबुद्धधर्मा यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यच् च श्रोतआपत्तिफलं यच् चाद्वैधीकारं, यश् च व्ययो यच् च सकृदागामिफलं यच् चाद्वैधीकारं, यश् च व्ययो यच् चानागामिफलं यच् चाद्वैधीकारं, यश् च व्ययो यच् चार्हत्त्वं यच् चाद्वैधीकारं, यश् च व्ययो या च प्रत्येकबोधिर् यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो या च सर्वज्ञता यच् चाद्वैधीकारं, यश् च व्ययो या च मार्गाकारज्ञता यच् चाद्वैधीकारं, यश् च व्ययो या च सर्वाकारज्ञता यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रूपस्य व्ययो न तद् रूपं, यो वेदनाया व्ययो न सा वेदना, यः संज्ञाया व्ययो न सा संज्ञा, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानम्.
यश् चक्षुसो व्ययो न तच् चक्षुः, यः श्रोत्रस्य व्ययो न तच् छ्रोत्रं, यो घ्राणस्य व्ययो न तद् घ्राणं, यो जिह्वाया व्ययो न सा जिह्वा, यः कायस्य व्ययो न स कायः, यो मनसो व्ययो न तन् मनः.
यो रूपस्य व्ययो न तद् रूपं, यः शब्दस्य व्ययो न स शब्दः, यो ( श्स्प् इइ-2 45 ) गन्धस्य व्ययो न स गन्धः, यो रसस्य व्ययो न स रसः, यः स्पर्शस्य व्ययो न स स्पर्शः, यो धर्माणां व्ययो न ते धर्माः.
यश् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानं, यो घ्राणविज्ञानस्य व्ययो न तद् घ्राणविज्ञानं, यो जिह्वाविज्ञानस्य व्ययो न तज् जिह्वाविज्ञानं, यः कायविज्ञानस्य व्ययो न तत् कायविज्ञानं, यो मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्.
यश् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्य व्ययो न स श्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः, यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः.
यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना.
यः पृथिवीधातोर् व्ययो न स पृथिवीधातुः, यो ऽब्धातोर् व्ययो न सो ऽब्धातुः, यस् तेजोधातोर् व्ययो न स तेजोधातुः, यो वायुधातोर् व्ययो न स वायुधातुः, य आकाशधातोर् व्ययो न स आकाशधातुः, यो विज्ञानधातोर् व्ययो न स विज्ञानधातुः.
यो ऽविद्याया व्ययो न सो ऽविद्या, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानं, यो नामरूपस्य व्ययो न तन् नामरूपं, यः षडायतनस्य व्ययो न तत् षडायतनं, यः स्पर्शस्य व्ययो न स स्पर्शः, यो वेदनाया व्ययो न सा वेदना, यस् तृष्णाया व्ययो न सा तृष्णा, य उपादानस्य व्ययो न तद् उपादानं, यो भवस्य व्ययो न स भवः, यो जातेर् व्ययो न सा जातिः, यो जरामरणस्य व्ययो न तज् जरामरणम्.
यो दानपारमिताया व्ययो न सा दानपारमिता, यः शीलपारमिताया व्ययो न सा शीलपारमिता, यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता.
यो ऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, यो महाशून्यताया व्ययो न सा महाशून्यता, यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, यो ऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, यो ऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, यो ऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, यो ऽनवकारशून्यताया व्ययो न सानवकारशून्यता, यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता, यो ऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, यो ऽभावशून्यताया व्ययो न साभावशून्यता, यः स्वभवशून्यताया व्ययो न सा स्वभावशून्यता, यो ऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता.
यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानां व्ययो न त ऋद्धिपादाः, य इन्द्रियाणां व्ययो न तानीन्द्रियाणि, यो बलानां व्ययो न तानि बलानि, यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, य आर्याष्टाङ्गस्य व्ययो न स आर्याष्टाङ्गो मार्गः, य आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, यो ध्यानानां व्ययो न तानि ध्यानानि, यो प्रमाणानां व्ययो न तान्य् अप्रमाणानि, य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः, यो विमोक्षाणां व्ययो न ते विमोक्षाः, यो ऽनुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यो ऽभिज्ञानां व्ययो न ता अभिज्ञाः, यः समाधीनां व्ययो न ते समाधयः, यो धारणीमुखानां व्ययो न तानि धारणीमुखानि, यस् तथागतबलानां व्ययो न तानि तथागतबलानि, यो वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानि, यः प्रतिसंविदां व्ययो न ताः प्रतिसंविदः, यो महामैत्र्या व्ययो न सा महामैत्री, यो महाकरुणाया व्ययो न सा करुणा, य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः.
यः सर्वज्ञताया व्ययो न सा सर्वज्ञता, यो मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता, यः सर्वकारज्ञताया व्ययो न सा सर्वाकारज्ञता.
आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यद् एतद् उच्यते ( श्स्प् इइ-2 47 ) रूपम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संज्ञेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संस्कारा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते चक्षुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते काय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मन इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते रूपम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शब्द इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते गन्ध इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते रस इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते धर्मा इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते चक्षुर्विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वाविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते कायविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मनोविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते चक्षुःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वासंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते कायसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मनःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते चक्षुःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वासंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते कायसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मनःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते पृथिवीधातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽब्धातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते तेजोधातुर् ( श्स्प् इइ-2 48 ) इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वायुधातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आकाशधातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विज्ञानधातुर् इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते ऽविद्येत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संस्कारा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते नामरूपम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते षडायतनम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते तृष्णेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते उपादानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते भव इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जातिर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जरामरणाम् इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते दानपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शीलपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते क्षान्तिपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वीर्यपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ध्यानपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते प्रज्ञापारमितेत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते ऽध्यात्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते बहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽध्यात्मबहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शून्यताशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते महाशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते परमार्थशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽसंस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽत्यन्तशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनवराग्रशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनवकारशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते प्रकृतिशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सर्वधर्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्वलक्षणशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनुपलम्भशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽभावस्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते स्मृत्युपस्थानानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सम्यक्प्रहाणानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऋद्धिपादा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते इन्द्रियानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते बलानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते बोध्यङ्गानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आर्याष्टाङ्गमार्ग इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आर्यसत्यानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ध्यानानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽप्रमाणानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आरूप्यसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विमोक्षा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनुपूर्वविहारसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽभिज्ञा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते समाधय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते धारणीमुखानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते दशतथागतबलानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वैशारद्यानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते प्रतिसंविद इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते महामैत्रीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते महाकरुणेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आवेणिकबुद्धधर्मा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सर्वज्ञतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मार्गाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता इति.
सुभूतिर् आह: तथा ह्य् आयुष्मञ् छारद्वतीपुत्र नान्यद् रूपम् अन्यो ऽनुत्पादः, अनुत्पाद एव रूपं रूपम् एवानुत्पादः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते रूपम् इत्य् अद्वयैषा गणना कृता, तथा हि नान्या वेदनान्यो अनुत्पादः, अनुत्पाद एव वेदना वेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या संज्ञान्यो ऽनुत्पादः, अनुत्पाद एव संज्ञा संज्ञैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयं संज्ञेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये संस्कारा अन्यो ऽनुत्पादः, अनुत्पाद एव संस्काराः संस्कारा ( श्स्प् इइ-2 50 ) एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते संस्कारा इत्य् अद्वयस्यैषा गणना कृताः, तथा हि नान्यद् विज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव विज्ञानं विज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यच् चक्षुर् अन्यो ऽनुत्पादः, अनुत्पाद एव चक्षुश् चक्षुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते चक्षुर् इत्य् अद्वयस्यैषा गणना, तथा हि नान्यच् छ्रोत्रम् अन्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रं श्रोत्रम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते श्रोत्रम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् घ्राणम् अन्यो ऽनुत्पादः, अनुत्पाद एव घ्राणं घ्राणम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते घ्राणम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या जिह्वान्यो ऽनुत्पादः, अनुत्पाद एव जिह्वा जिह्वैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते जिह्वेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः कायो ऽन्यो ऽनुत्पादः, अनुत्पाद एव कायः काय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते काय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यं मनो ऽन्यो ऽनुत्पादः, अनुत्पाद एव मनो मन एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते मन इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यद् रूपम् अन्यानुत्पादः, अनुत्पाद एव रूपं रूपम् एवानुत्पादः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते रूप्म् इत्य् अद्वयैषा गणना कृता, तथा हि नान्यः शब्दो ऽन्यो ऽनुत्पादः, अनुत्पाद एव शब्दः शब्द एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते शब्द इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो गन्धो ऽन्यो ऽनुत्पादः, अनुत्पाद एव गन्धो गन्ध एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते गन्ध इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो रसो ऽन्यो ऽनुत्पादः, अनुत्पाद एव रसो रस एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते रस इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः स्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव स्पर्शः स्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये धर्मा अन्यो ऽनुत्पादः, अनुत्पाद एव धर्मा धर्मा ( श्स्प् इइ-2 51 ) एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यते धर्मा इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यच् चक्षुर्विज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव चक्षुर्विज्ञानं चक्षुर्विज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते चक्षुर्विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यच् छ्रोत्रविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रविज्ञानं श्रोत्रविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते श्रोत्रविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् घ्राणविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव घ्राणविज्ञानं घ्राणविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते घ्राणविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यज् जिह्वाविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव जिह्वाविज्ञानं जिह्वाविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते जिह्वाविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यत् कायविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव कायविज्ञानं कायविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते कायविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् मनोविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव मनोविज्ञानं मनोविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते मनोविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यश् चक्षुःसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव चक्षुःसंस्पर्शश् चक्षुःसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते चक्षुःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः श्रोत्रसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् एतद् उच्यते श्रोत्रसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो घ्राणसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव घ्राणसंस्पर्शो घ्राणसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते घ्राणसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो जिह्वासंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव जिह्वासंस्पर्शो जिह्वासंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते जिह्वासंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः कायसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव कायसंस्पर्शः कायसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ( श्स्प् इइ-2 52 ) ऽयम् उच्यते कायसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो मनःसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव मनःसंस्पर्श मनःसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते मनःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्या चक्षुःसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते चक्षुःसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या श्रोत्रसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् एतद् उच्यते श्रोत्रसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या घ्राणसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते घ्राणसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या जिह्वासंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते जिह्वासंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या कायसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते कायसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या मनःसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते मनःसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यः पृथिवीधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव पृथिवीधातुः पृथिवीधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते पृथिवीधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो ऽब्धातुर् अन्यो ऽनुत्पादः, अनुत्पाद एवाब्धातुर् अब्धातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते ऽब्धातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यस् तेजोधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव तेजोधातुः तेजोधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते तेजोधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि ( श्स्प् इइ-2 53 ) नान्यो वायुधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव वायुधातुर् वायुधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते वायुधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य आकाशधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एवाकाशधातुर् आकाशधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते आकाशधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो विज्ञानधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव विज्ञानधातुर् विज्ञानधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते विज्ञानधातुर् इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्याविद्यान्यो ऽनुत्पादः, अनुत्पाद एवाविद्याविद्यैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽविद्येत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये संस्कारा अन्यो ऽनुत्पादः, अनुत्पाद एव संस्काराः संस्कारा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यते संस्कारा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् विज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव विज्ञानं विज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यन् नामरूपम् अन्यो ऽनुत्पादः, अनुत्पाद एव नामरूपं नामरूपम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते नामरूपम् इत्य् अद्वयस्यैषा गणना कृता, (तथा हि नान्यः षडायतनम् अन्यो ऽनुत्पादः, अनुत्पाद एव षडायतनं षडायतनम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते षडायतनम् इत्य् अद्वयस्यैषा गणना कृता.) तथा हि नान्यः स्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव स्पर्शः स्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्या वेदनान्यो ऽनुत्पादः, अनुत्पाद एव वेदना वेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या तृष्णान्यो ऽनुत्पादः, अनुत्पाद एव तृष्णा तृष्णैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते तृष्णेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् उपादानम् अन्यो ऽनुत्पादः, अनुत्पाद एवोपादानम् उपादानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते उपादानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो भवो ऽन्यो ऽनुत्पादः, अनुत्पाद एव भवो भव एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते भव इत्य् अद्वयस्यैषा गणना ( श्स्प् इइ-2 54 ) कृता, तथा हि नान्या जातिर् अन्यो ऽनुत्पादः, अनुत्पाद एव जातिर् जातिर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते जातिर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यज् जरामरणं ऽन्यो ऽनुत्पादः, अनुत्पाद एव जरामरणं जरामरणम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते जरामरणम् इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्या दानपारमितान्यो ऽनुत्पादः, अनुत्पाद एव दानपारमिता दानपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते दानपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या शीलपारमितान्यो ऽनुत्पादः, अनुत्पाद एव शीलपारमिता शीलपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते शीलपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या क्षान्तिपारमितान्यो ऽनुत्पादः, अनुत्पाद एव क्षान्तिपारमिता क्षान्तिपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते क्षान्तिपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या वीर्यपारमितान्यो ऽनुत्पादः, अनुत्पाद एव वीर्यपारमिता वीर्यपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते वीर्यपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या ध्यानपारमितान्यो ऽनुत्पादः, अनुत्पाद एव ध्यानपारमिता ध्यानपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ध्यानपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या प्रज्ञापारमितान्यो ऽनुत्पादः, अनुत्पाद एव प्रज्ञापारमिता प्रज्ञापारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते प्रज्ञापारमितेत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्याध्यात्मशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवाध्यात्मशून्यताध्यात्मशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽध्यात्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या बहिर्धाशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव बहिर्धाशून्यता बहिर्धाशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते बहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्याध्यात्मबहिर्धाशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवाध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते अध्यात्मबहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या शून्यताशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव शून्यताशून्यता शून्यताशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र ( श्स्प् इइ-2 55 ) पर्यायेण येयम् उच्यते शून्यताशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या महाशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव महाशून्यता महाशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते महाशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या परमार्थशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव परमार्थशून्यता परमार्थशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते परमार्थशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या संस्कृतशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव संस्कृतशून्यता संस्कृतशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते संस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यासंस्कृतशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवासंस्कृतशून्यतासंस्कृतशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽसंस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यात्यन्तशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवात्यन्तशून्यतात्यन्तशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽत्यन्तशून्यता अद्वयस्यैषा गणना कृता, तथा हि नान्यानवराग्रशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवानवराग्रशून्यता नवराग्रशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते अनवराग्रशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या अनवकारशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव अनवकारशून्यता अनवकारशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽनवकारशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या प्रकृतिशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव प्रकृतिशून्यता प्रकृतिशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते प्रकृतिशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वधर्मशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव सर्वधर्मशून्यता सर्वधर्मशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते सर्वधर्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या स्वलक्षणशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव स्वलक्षणशून्यता स्वलक्षणशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते स्वलक्षणशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानुपलम्भशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवानुपलम्भशून्यतानुपलम्भशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽनुपलम्भशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्याभावशून्यतान्यो ऽनुत्पादः, अनुत्पाद ( श्स्प् इइ-2 56 ) एवाभावशून्यताभावशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या स्वभावशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव स्वभावशून्यता स्वभावशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते स्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्याभावस्वभावशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवाभावस्वभावशून्यताभावस्वभावशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽभावस्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यानि स्मृत्युपस्थानान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव स्मृत्युपस्थानानि स्मृत्युपस्थानान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते स्मृत्युपस्थानानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि सम्यक्प्रहाणान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव सम्यक्प्रहाणानि सम्यक्प्रहाणान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते सम्यक्प्रहाणानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य ऋद्धिपादा अन्यो ऽनुत्पादः, अनुत्पादा एव ऋद्धिपादा ऋद्धिपादा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते ऋद्धिपादा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानीन्द्रियाण्य् अन्यो ऽनुत्पादः, अनुत्पाद एवेन्द्रियाणीन्द्रियाण्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते इन्द्रियाणीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि बलान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव बलानि बलान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते बलानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि बोध्यङ्गान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव बोध्यङ्गानि बोध्यङ्गान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते बोध्यङ्गानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य आर्याष्टाङ्गो मार्गो ऽन्यो ऽनुत्पादः, अनुत्पाद एवार्याष्टाङ्गमार्गः आर्याष्टाङ्गमार्ग एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यत आर्याष्टाङ्गमार्ग इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यान्य् आर्यसत्यान्य् अन्यो ऽनुत्पादः, अनुत्पाद एवार्यसत्यान्य् आर्यसत्यान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्त आर्यसत्यानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि ध्यानान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव ध्यानानि ध्यानान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते ध्यानानीत्य् अद्वयस्यैषा गणना कृता, ( श्स्प् इइ-2 57 ) तथा हि नान्यान्य् अप्रमाणान्य् अन्यो ऽनुत्पादः, अनुत्पाद एवाप्रमाणान्य् अप्रमाणान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते प्रमाणानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या आरूप्यसमापत्तयो ऽन्यो ऽनुत्पादः, अनुत्पाद एवारूप्यसमापत्तय आरूप्यसमापत्तय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इम उच्यन्ते आरूप्यसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये विमोक्षा अन्यो ऽनुत्पादः, अनुत्पाद एव विमोक्षा विमोक्षा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते विमोक्षा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानुपूर्वविहारसमापत्तयो ऽन्यो ऽनुत्पादः, अनुत्पाद एवानुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते ऽनुपूर्वविहारसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यान्य् शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या अभिज्ञान्यो ऽनुत्पादः, अनुत्पाद एवाभिज्ञा अभिज्ञा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण या इमा उच्यन्ते अभिज्ञा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये समाधयो ऽन्यो ऽनुत्पादः, अनुत्पाद एव समाधयः समाधय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते समाधय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि धारणीमुखान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव धारणीमुखानि धारणीमुखान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यानीमान्य् उच्यन्ते धारणीमुखानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि तथागतबलान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव तथागतबलानि तथागतबलान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यानीमान्य् उच्यन्ते तथागतबलानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि वैशारद्यान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव वैशारद्यानि वैशारद्यान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यानीमान्य् उच्यन्ते वैशारद्यानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो प्रतिसंविदो ऽन्यो ऽनुत्पादः, अनुत्पाद एव प्रतिसंविदः प्रतिसंविद एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते प्रतिसंविद इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या महामैत्र्य् अन्यो ऽनुत्पादः, अनुत्पाद एव महामैत्री महामैत्र्य् ( श्स्प् इइ-2 58 ) एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते महामैत्रीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या महाकरुणा न्यो ऽनुत्पादः, अनुत्पाद एव महाकरुणा महाकरुणैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते महाकरुणेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य आवेणिकबुद्धधर्मा अन्यो ऽनुत्पादः, अनुत्पाद एवावेणिकबुद्धधर्मा आवेणिकबुद्धधर्मा एवानुत्पादः.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते आवेणिकबुद्धधर्मा इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यत् स्रोतआपत्तिफलम् अन्यो ऽनुत्पादः, अनुत्पाद एव स्रोतआपत्तिफलं स्रोतआपत्तिफलम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते श्रोत्रआपत्तिफलम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यत् सकृदागामिफलम् अन्यो ऽनुत्पादः, अनुत्पाद एव सकृदागामिफलं सकृदागामिफलम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते सकृदागामिफलम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् अनागामिफलम् अन्यो ऽनुत्पादः, अनुत्पाद एवानागामिफलम् अनागामिफलम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते ऽनागामिफलम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् अर्हत्त्वम् अन्यो ऽनुत्पादः, अनुत्पाद एवार्हत्त्वम् अर्हत्त्वम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते ऽर्हत्त्वम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या प्रत्येकबोधिर् अन्यो ऽनुत्पादः, अनुत्पाद एव प्रत्येकबोधिः प्रत्येकबोधिर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते प्रत्येकबोधिर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वज्ञतान्यो ऽनुत्पादः, अनुत्पाद एव सर्वज्ञता सर्वज्ञतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते सर्वज्ञतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या मार्गाकारज्ञतान्यो ऽनुत्पादः, अनुत्पाद एव मार्गाकारज्ञता मार्गाकारज्ञतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते मार्गाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वाकारज्ञतान्यो ऽनुत्पादः, अनुत्पाद एव सर्वाकारज्ञता सर्वाकारज्ञतैवानुत्पादः.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता.
अथायुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् उपपरीक्षते, तस्मिन् समये भगवन् रूपस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संज्ञाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संस्काराणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
चक्षुषो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनसो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
रूपस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, शब्दस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, गन्धस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, रसस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, धर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
चक्षुर्विज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वाविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनोविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
चक्षुःसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वासंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनःसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायसंस्पर्शप्रत्ययवेदनाया ( श्स्प् इइ-2 60 ) अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
पृथिवीधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अब्धातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, तेजोधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वायुधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आकाशधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विज्ञानधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
अविद्याया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संस्काराणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, नामरूपस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, षडायतनस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, तृष्णाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, उपादानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, भवस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जातेर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जरामरणस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
दानपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, शीलपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, क्षान्तिपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वीर्यपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ध्यानपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रज्ञापारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
अध्यात्मशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बहिर्धाशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, शून्यताशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, महाशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, परमार्थशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संस्कृतशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, असंस्कृतशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अत्यन्तशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनवराग्रशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनवकारशून्यताया ( श्स्प् इइ-2 61 ) अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रकृतिशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सर्वधर्मशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्वलक्षणशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनुपलम्भशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अभावशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्वभावशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अभावस्वभावशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
स्मृत्युपस्थानानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सम्यक्प्रहाणानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ऋद्धिपादानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, इन्द्रियाणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बलानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बोध्यङ्गानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आर्याष्टाङ्गमार्गस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आर्यसत्यानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ध्यानानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आरूप्यसमापत्तीनाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विमोक्षाणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनुपूर्वविहारसमापत्तीनाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
शून्यतानिमित्तेप्रणिहितविमोक्षमुखानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अभिज्ञानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, समाधीनाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, धारणीमुखानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, तथागतबलानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वैशारद्यानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रतिसंविदाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, महामैत्र्या अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, महाकरुणाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आवेणिकबुद्धधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
सर्वज्ञताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मार्गाकारज्ञताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सर्वाकारज्ञताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
पृथग्जनस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, पृथग्जनधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सकृदागामिनो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनागामिनो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अर्हतो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सकृदागामिधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनागामिधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बुद्धस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बुद्धधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
अथायुष्माञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यथाहम् आयुष्मतः सुभूतेर् भाषितस्यार्थम् आजानामि,
रूपम् अनुत्पादः, वेदनाम् अनुत्पादः, संज्ञाम् अनुत्पादः, संस्कारा अनुत्पादः, विज्ञानम् अनुत्पादः.
चक्षुर् अनुत्पादः, श्रोत्रम् अनुत्पादः, घ्राणम् अनुत्पादः, जिह्वानुत्पादः, कायो ऽनुत्पादः, मनो ऽनुत्पादः.
रूपम् अनुत्पादः, शब्दो ऽनुत्पादः, गन्धो ऽनुत्पादः, रसो ऽनुत्पादः, स्पर्शो ऽनुत्पादः, धर्मा अनुत्पादः.
चक्षुर्विज्ञानम् अनुत्पादः, श्रोत्रविज्ञानम् अनुत्पादः, घ्राणविज्ञानम् अनुत्पादः, जिह्वाविज्ञानम् अनुत्पादः, कायविज्ञानम् अनुत्पादः, मनोविज्ञानम् अनुत्पादः.
चक्षुःसंस्पर्शो ऽनुत्पादः, श्रोत्रसंस्पर्शो ऽनुत्पादः, घ्राणसंस्पर्शो ऽनुत्पादः, जिह्वासंस्पर्शो ऽनुत्पादः, कायसंस्पर्शो ऽनुत्पादः, मनःसंस्पर्शो ऽनुत्पादः.
चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः, श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादः, घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादः, जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः ( श्स्प् इइ-2 63 ) कायसंस्पर्शप्रत्ययवेदनानुत्पादः, मनःसंस्पर्शप्रत्ययवेदनानुत्पादः.
पृथिवीधातुर् अनुत्पादः, अब्धातुर् अनुत्पादः, तेजोधातुर् अनुत्पादः, वायुधातुर् अनुत्पादः, आकाशधातुर् अनुत्पादः, विज्ञानधातुर् अनुत्पादः.
अविद्यानुत्पादः, संस्कारा अनुत्पादः, विज्ञानम् अनुत्पादः, नामरूपम् अनुत्पादः, षडायतनम् अनुत्पादः, स्पर्शो ऽनुत्पादः, वेदनानुत्पादः, तृष्णानुत्पादः, उपादानम् अनुत्पादः, भवो ऽनुत्पादः, जातिर् अनुत्पादः, जरामरणम् अनुत्पादः.
दानपारमितानुत्पादः, शीलपारमितानुत्पादः, क्षान्तिपारमितानुत्पादः, वीर्यपारमितानुत्पादः, ध्यानपारमितानुत्पादः, प्रज्ञापारमितानुत्पादः.
अध्यात्मशून्यतानुत्पादः, बहिर्धाशून्यतानुत्पादः, अध्यात्मबहिर्धाशून्यतानुत्पादः, शून्यताशून्यतानुत्पादः, महाशून्यतानुत्पादः, परमार्थशून्यतानुत्पादः, संस्कृतशून्यतानुत्पादः, असंस्कृतशून्यतानुत्पादः, अत्यन्तशून्यतानुत्पादः, अनवराग्रशून्यतानुत्पादः, अनवकारशून्यतानुत्पादः, प्रकृतिशून्यतानुत्पादः, सर्वधर्मशून्यतानुत्पादः, स्वलक्षणशून्यतानुत्पादः, अनुपलम्भशून्यतानुत्पादः, अभावशून्यतानुत्पादः, स्वभावशून्यतानुत्पादः, अभावस्वभावशून्यतानुत्पादः.
स्मृत्युपस्थानान्य् अनुत्पादः, सम्यक्प्रहाणान्य् अनुत्पादः, ऋद्धिपादा अनुत्पादः, इन्द्रियाण्य् अनुत्पादः, बलान्य् अनुत्पादः, बोध्यङ्गान्य् अनुत्पादः, आर्याष्टाङ्गो मार्गो ऽनुत्पादः, आर्यसत्यान्य् अनुत्पादः, चत्वारि ध्यानान्य् अनुत्पादः, चत्वार्य् अप्रमाणान्य् अनुत्पादः, चतस्र आरूप्यसमापत्तयो ऽनुत्पादः, अष्टौ विमोक्षा अनुत्पादः, नवानुपूर्वविहारसमापत्तयो ऽनुत्पादः,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पादः, अभिज्ञा अनुत्पादः, समाधयो ऽनुत्पादः, धारणीमुखान्य् अनुत्पादः, दशतथागतबलान्य् अनुत्पादः, चत्वारि वैशारद्यान्य् अनुत्पादः, चतस्रः प्रतिसंविदो ऽनुत्पादः, महामैत्र्य् अनुत्पादः, महाकरुणानुत्पादः, अष्टादशावेणिकबुद्धधर्मा अनुत्पादः. सर्वज्ञतानुत्पादः, मार्गाकारज्ञतानुत्पादः, सर्वाकारज्ञतानुत्पादः,
पृथग्जनो ऽनुत्पादः, पृथग्जनधर्मा अनुत्पादः, स्रोतआपन्नो ऽनुत्पादः, स्रोतआपन्नधर्मा अनुत्पादः, सकृदागामिनो ऽनुत्पादः, सकृदागामिधर्मा अनुत्पादः, अनागामिनो ऽनुत्पादः, अनागामिधर्मा अनुत्पादः, ( श्स्प् इइ-2 64 ) अर्हत्त्वम् अनुत्पादः, अर्हद्धर्मा अनुत्पादः, प्रत्येकबुद्धो ऽनुत्पादः, प्रत्येकबुद्धधर्मा अनुत्पादः, बोधिसत्त्वो ऽनुत्पादः, बोधिसत्त्वधर्मा अनुत्पादः, बुद्धो ऽप्य् अनुत्पादः, बुद्धधर्मा अनुत्पादः.
यदि वायुष्मन् सुभूते रूपम् अनुत्पादः, वेदनाम् अनुत्पादः, संज्ञाम् अनुत्पादः, संस्कारा अनुत्पादः, विज्ञानम् अनुत्पादः.
चक्षुर् अनुत्पादः श्रोत्रम् अनुत्पादो घ्राणम् अनुत्पादो जिह्वानुत्पादः कायो ऽनुत्पादो मनो ऽनुत्पादः.
रूपम् अनुत्पादः शब्दो ऽनुत्पादो गन्धो ऽनुत्पादो रसो ऽनुत्पादः स्पर्शो ऽनुत्पादो धर्मा अनुत्पादः.
चक्षुर्विज्ञानम् अनुत्पादः, श्रोत्रविज्ञानम् अनुत्पादो घ्राणविज्ञानम् अनुत्पादो जिह्वाविज्ञानम् अनुत्पादः कायविज्ञानम् अनुत्पादो मनोविज्ञानम् अनुत्पादः.
चक्षुःसंस्पर्शो ऽनुत्पादः श्रोत्रसंस्पर्शो ऽनुत्पादो घ्राणसंस्पर्शो ऽनुत्पादो जिह्वासंस्पर्शो ऽनुत्पादः कायसंस्पर्शो ऽनुत्पादो मनःसंस्पर्शो ऽनुत्पादः.
चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादो घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादो जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः कायसंस्पर्शप्रत्ययवेदनानुत्पादो मनःसंस्पर्शप्रत्ययवेदनानुत्पादः.
पृथिवीधातुर् अनुत्पादो ऽब्धातुर् अनुत्पादः तेजोधातुर् अनुत्पादो वायुधातुर् अनुत्पाद आकाशधातुर् अनुत्पादो विज्ञानधातुर् अनुत्पादः.
अविद्यानुत्पादः संस्कारा अनुत्पादो विज्ञानम् अनुत्पादो नामरूपम् अनुत्पादः षडायतनम् अनुत्पादः स्पर्शो ऽनुत्पादो वेदनानुत्पादः तृष्णानुत्पाद उपादानम् अनुत्पादो भवो ऽनुत्पादो जातिर् अनुत्पादो जरामरणम् अनुत्पादः.
दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादः.
अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादो ऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यतानुत्पादः संस्कृतशून्यतानुत्पादो ऽसंस्कृतशून्यतानुत्पादो ऽत्यन्तशून्यतानुत्पादो ऽनवराग्रशून्यतानुत्पादो ऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादो ऽनुपलम्भशून्यतानुत्पादो ( श्स्प् इइ-2 65 ) ऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादो ऽभावस्वभावशून्यतानुत्पादः.
स्मृत्युपस्थानान्य् अनुत्पादः सम्यक्प्रहाणान्य् अनुत्पाद ऋद्धिपादा अनुत्पादः इन्द्रियाण्य् अनुत्पादो बलान्य् अनुत्पादो बोध्यङ्गान्य् अनुत्पाद आर्याष्टाङ्गो मार्गो ऽनुत्पाद आर्यसत्यान्य् अनुत्पादश् चत्वारि ध्यानान्य् अनुत्पादश् चत्वार्य् अप्रमाणान्य् अनुत्पाद चतस्र आरूप्यसमापत्तयो ऽनुत्पादो अष्टौ विमोक्षानुत्पादो नवानुपूर्वविहारसमापत्तयो ऽनुत्पादः,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पादो ऽभिज्ञानुत्पादः, समाधयो ऽनुत्पादो धारणीमुखान्य् अनुत्पादः दशतथागतबलान्य् अनुत्पादश् चत्वारि वैशारद्यान्य् अनुत्पादश् चतस्रः प्रतिसंविदो ऽनुत्पादो महामैत्र्य् अनुत्पादो महाकरुणानुत्पादो ऽष्टादशावेणिकबुद्धधर्मा अनुत्पादः. सर्वज्ञतानुत्पादः, मार्गाकारज्ञतानुत्पादः, सर्वाकारज्ञतानुत्पादः,
पृथग्जनो ऽनुत्पादः, पृथग्जनधर्मा अनुत्पादः, स्रोतआपन्नो ऽनुत्पादः, स्रोतआपन्नधर्मा अनुत्पादः, सकृदागामिनो ऽनुत्पादः, सकृदागामिधर्मा अनुत्पादः, अनागामिनो ऽनुत्पादः, अनागामिधर्मा अनुत्पादः, अर्हत्त्वम् अनुत्पादः, अर्हद्धर्मा अनुत्पादः, प्रत्येकबुद्धो ऽनुत्पादः, प्रत्येकबुद्धधर्मा अनुत्पादः, बोधिसत्त्वो ऽनुत्पादः, बोधिसत्त्वधर्मा अनुत्पादः, बुद्धो ऽप्य् अनुत्पादः, बुद्धधर्मा अप्य् अनुत्पादः. तत् प्राप्तम् एव भवति श्रावकयाणिकैः स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्तैव भवति, प्रत्येकबुद्धयानिकैः प्रत्येकबोधिः प्राप्तैव भवति, बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता पञ्चानां गतीनां भेदे न भविष्यति प्राप्तैव भवति बोधिसत्त्वेन महसत्त्वेन पञ्चविधा बोधिः.
यद्य् आयुष्मन् सुभूते सर्वधर्मा अनुत्पादः, किं कारणं स्रोतआपन्नेन त्रयाणां संयोजनानां प्रहाणाय मार्गो भावितः, सकृदागामिना रागद्वेषमोहानां तनुत्वाय मार्गो भावितः, अनागामिना पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाय मार्गो भावितः, अर्हता पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाय मार्गो भावितः, प्रत्येकबुद्धयानिकैः प्रत्येकबोधये मार्गो भावितः? किं कारणं बोधिसत्त्वो महासत्त्वो दुष्करचर्याञ् चरति यद् दुःखानि सत्त्वानां कृतने प्रत्यनुभवति? किं कारणं तथागतेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, किं कारणं तथागतेन धर्मचक्रं प्रवर्तितम्?
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: नाहम् आयुष्मञ् छारद्वतीपुत्रानुत्पादस्य धर्मस्य प्राप्तिम् इच्छामि न समयं चानुत्पादस्य स्रोतआपत्तित्वम् इच्छामि, स्रोतआपत्तिफलं नानुत्पादस्य सकृदागामित्वम् इच्छामि, सकृदागामिफलं नानुत्पादस्यानागामित्वम् इच्छामि नानागामिफलं नानुत्पादस्यार्हत्त्वम् इच्छामि नार्हत्त्वसाक्षात्क्रियां, नानुत्पादस्य प्रत्येकबुद्धत्वम् इच्छामि न प्रत्येकबोधिर् नाप्य् अहम् आयुष्मञ् छारद्वतीपुत्रेच्छामि यो बोधिसत्त्वो महासत्त्वो दुष्करचर्यां चरन् नापि बोधिसत्त्वो महासत्त्वो दुष्करसंज्ञया चरति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र दुःखसंज्ञां जनयित्वाशक्यम् अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थं कर्तुम् अपि त्व् आयुष्मञ् छारद्वतीपुत्र सर्वत्त्वेयुमातृसंज्ञा जनयित्वा पितृसंज्ञां जनयित्वा पुत्रसंज्ञा जनयित्वासक्यम् अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थकर्तुन् तच् चानुपलम्भयोगेन एवं बोधिसत्त्वेन महासत्त्वेन चित्तम् उत्पादयितव्यं, यथात्मात्मेति चोच्यते स च सर्वेण सर्वथा सर्वं न संविद्यते नोपलभ्यते.
एवम् अध्यात्मिकबाह्येषु धर्मेषु संज्ञोत्पादयितव्या, सचेद् एवं संज्ञाम् उत्पादयितव्येति दुष्करसंज्ञाम् उत्पदयिष्यति. तत् कस्य हेतोः? तथा हि न स कच्चित् तद् धर्मम् उत्पादयति नोपलभ्यते नाहम् आयुष्मञ् छारद्वतीपुत्रानुत्पादे तथागतम् इच्छामि नानुत्तरा संयक्संबोधिर् यथा तथागतेन धर्मचक्रं प्रवर्तितं न ह्य् अनुत्पन्नेन धर्मेण प्राप्तिः प्राप्यते.
आह: किम् पुनस् त्वम् आयुष्मन् सुभूते उत्पन्नेन धर्मेण प्राप्तिम् इच्छसि? अथानुत्पन्नेन धर्मेण प्राप्यमाणम्?
सुभूतिर् आह: नाहम् आयुष्मञ् छारद्वतीपुत्रोत्पान्नेन धर्मेण प्राप्तिम् इच्छामि नाप्य् अनुत्पन्नेन धर्मेण प्राप्यमाणाम्.
आह: किं पुनर् आयुष्मन् सुभूते नास्ति प्राप्तिर् नास्त्य् अभिसमयः.
सुभूतिर् आह: अस्त्य् आयुष्मञ् छारद्वतीपुत्र प्राप्तिर् अस्त्य् अभिसमयो न पुनः परमार्थेन धर्मेण.
अपि तु खलु पुनर् आयुष्मञ् छारद्वतीपुत्र लोकव्यवहारेण प्राप्तिर् अभिसमयो वा प्रज्ञाप्यते लोकव्यवहारेण स्रोतआपन्नो वा सकृदागामी वा नागामी वार्हत्त्वं वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा प्रज्ञयते. न पुनः परमार्थेन प्राप्तिर् वाभिसमयो वा स्रोतआपन्नो वा ( श्स्प् इइ-2 67 ) सकृदागामी वानागामी वार्हत्त्वं वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते.
आह: किं पुनर् आयुष्मन् सुभूते यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च तथैव पञ्चानां गतीनां लोकव्यवहारेण भेदो न पुनः परमार्थेन?
आह: एवम् एतद् आयुष्मञ् छारद्वतीपुत्र यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च तथैव पञ्चानां गतीनां लोकव्यवहारेण भेदो न पुनः परमार्थेन. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र परमार्थेण कर्मणः करमविपाकः, नोत्पादो न निरोधो न संक्लेशो न व्यवदानः.
आह: किं पुनर् आयुष्मन् सुभूते ऽनुत्पन्नो धर्म उत्पद्यते, अथ वोत्पन्नो धर्म उत्पद्यते?
सुभूतिर् आह: नाहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य धर्मस्योत्पादम् इच्छामि.
आह: कतमस्यायुष्मन् सुभूते अनुत्पन्नस्य धर्मस्योत्पादं नेच्छसि?
सुभूतिर् आह: रूपस्यायुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, संज्ञाया आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, संस्काराणाम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानस्यायुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुषो ऽहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनसो ऽहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
रूपस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, शब्दस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, गन्धस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य ( श्स्प् इइ-2 68 ) स्वभावशून्यस्योत्पादं नेच्छामि, रसस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, धर्मानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुर्विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनोविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
पृथिवीधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अब्धातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य ( श्स्प् इइ-2 69 ) स्वभावशून्यस्योत्पादं नेच्छामि, तेजोधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वायुधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आकाशधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
अविद्याया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, नामरूपस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, षडायतनस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, तृष्णाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, उपादानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, भवस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जातेर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जरामरणस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
दानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शीलपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, क्षान्तिपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, वीर्यपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, ध्यानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रज्ञापारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
अध्यात्मशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, बहिर्धाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अध्यात्मबहिर्धाशून्यताया ( श्स्प् इइ-2 70 ) अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शून्यताशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, महाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, परमार्थशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, असंस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अत्यन्तशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवराग्रशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवकारशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रकृतिशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वधर्मशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वलक्षणशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनुपलम्भशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावस्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
स्मृत्युपस्थानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सम्यक्प्रहाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ऋद्धिपादानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, इन्द्रियाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बोध्यङ्गानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आर्याष्टाङ्गमार्गस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आर्यसत्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् ( श्स्प् इइ-2 71 ) उत्पादं नेच्छामि, ध्यानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अप्रमाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आरूप्यसमापत्तीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विमोक्षाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अनुपूर्वविहारसमापत्त्ल्नाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अभिज्ञानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, समाधीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, धारणीमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
तथागतबलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, वैशारद्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, प्रतिसंविदाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महामैत्र्या अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महाकरुणाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्यायाम् उत्पादं नेच्छामि, आवेणिकबुद्धधर्माणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
स्रोतआपत्तिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सकृदागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अनागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अर्हत्त्वस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, प्रत्येकबोधेर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मार्गाकारज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वाकारज्ञताया अहम् आयुष्मञ् ( श्स्प् इइ-2 72 ) छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
आह: कतमस्य त्वम् आयुष्मन् सुभूते उत्पन्नस्य धर्मस्योत्पादं नेच्छसि?
आह: रूपस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संज्ञाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुषो ऽहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणस्याहम् आयुष्मञ् छारद्वति पुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनसो ऽहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
रूपस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, शब्दस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, गन्धस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, रसस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, धर्माणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि.
चक्षुर्विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य ( श्स्प् इइ-2 73 ) स्वभावशून्यस्योत्पादं नेच्छामि, मनोविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, घ्राणसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जिह्वासंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, कायसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मनःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
पृथिवीधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अब्धातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, तेजोधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वायुधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आकाशधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
अविद्याया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, नामरूपस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, षडायतनस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं ( श्स्प् इइ-2 74 ) नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, तृष्णाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, उपादानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, भवस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जातेर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जरामरणस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
दानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शीलपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, क्षान्तिपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, वीर्यपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, ध्यानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रज्ञापारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
अध्यात्मशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, बहिर्धाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अध्यात्मबहिर्धाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शून्यताशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, महाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, परमार्थशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, असंस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अत्यन्तशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवराग्रशून्यताया अहम् आयुष्मञ्
छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवकारशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रकृतिशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वधर्मशून्यताया ( श्स्प् इइ-2 75 ) अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वलक्षणशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनुपलम्भशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावस्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
स्मृत्युपस्थानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सम्यक्प्रहाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ऋद्धिपादानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, इन्द्रियाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बोध्यङ्गानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आर्याष्टाङ्गमार्गस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आर्यसत्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ध्यानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अप्रमाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आरूप्यसमापत्तीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विमोक्षाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अनुपूर्वविहारसमापत्तिनाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अभिज्ञानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, समाधीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, धारणीमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
तथागतबलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, वैशारद्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, प्रतिसंविदाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महामैत्र्या अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महाकरुणाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्यायाम् उत्पादं नेच्छामि, आवेणिकबुद्धधर्माणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
स्रोतआपत्तिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सकृदागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अनागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अर्हत्त्वस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, प्रत्येकबोधेर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि,
सर्वज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मार्गाकारज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वाकारज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
शारद्वतीपुत्र आह: किं पुनर् आयुष्मन् सुभूते उत्पाद उत्पद्यते? अथानुत्पाद उत्पद्यते?
आह: न ह्य् आयुष्मञ् छारद्वतीपुत्रोत्पाद उत्पद्यते, नानुत्पाद उत्पद्यते. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यश् चोत्पादो यश् चानुत्पाद उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् अरूपिणाव् अनिदर्शनाव् अप्रतिघाव् एकलक्षणो यद् उतालक्षणः. तद् अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नोत्पाद उत्पद्यते, नानुत्पाद उत्पद्यते.
शारद्वतीपुत्र आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मन् सुभूते प्रतिभाति ते मन्त्रयितुम्, अनुत्पन्नानां धर्माणाम् अनुत्पादो ह्य् आयुष्मन् सुभूते प्रतिभाति मन्त्रयितुम्.
सुभूतिर् आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मञ् ( श्स्प् इइ-2 77 ) छारद्वतीपुत्र यच् च प्रतिभाति ते मन्त्रयितुम् इति, अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मञ् छारद्वतीपुत्र न मे प्रतिभाति मन्त्रयितुम्, अनुत्पन्नानां धर्माणाम् अनुत्पादो ऽपि मे आयुष्मञ् छारद्वतीपुत्र न प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यश् चानुत्पन्नो धर्मो यश् चानुत्पादो यच् च प्रतिभानं ये च मन्त्रा या चानुत्पत्तिः सर्वधर्मा एते न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा अविज्ञप्तिका एकलक्षणा यद् उतालक्षणाः.
आह: अनुत्पाद इत्य् आयुष्मन् सुभूते मन्त्रः, अनुत्पादं प्रतिभानं, अनुत्पादो धर्मः, ते ऽपि धर्मा अनुत्पादा यांस् तान् आरभ्य प्रतिभाति मन्त्रयितुम्.
सुभूतिर् आह: एवम् एतद् आयुष्मञ् छारद्वतीपुत्र अनुत्पादो मन्त्रो ऽनुत्पादः प्रतिभानो ऽनुत्पादो धर्मः, ते ऽपि धर्मा अनुत्पादा यांस् तान् आरभ्य प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपम् अनुत्पादो वेदनानुत्पादः संज्ञानुत्पादः संस्कारानुत्पादो विज्ञानम् अनुत्पादः.
चक्षुर् अनुत्पादः श्रोत्रम् अनुत्पादो घ्राणम् अनुत्पादो जिह्वानुत्पादः कायो ऽनुत्पादो मनो ऽनुत्पादः.
रूपम् अनुत्पादः शब्दो ऽनुत्पादो गन्धो ऽनुत्पादो रसो ऽनुत्पादः स्पर्शो ऽनुत्पादो धर्मा अनुत्पादः.
चक्षुर्विज्ञानम् अनुत्पादः, श्रोत्रविज्ञानम् अनुत्पादो घ्राणविज्ञानम् अनुत्पादो जिह्वाविज्ञानम् अनुत्पादः कायविज्ञानम् अनुत्पादो मनोविज्ञानम् अनुत्पादः.
चक्षुःसंस्पर्शो ऽनुत्पादः श्रोत्रसंस्पर्शो ऽनुत्पादो घ्राणसंस्पर्शो ऽनुत्पादो जिह्वासंस्पर्शो ऽनुत्पादः कायसंस्पर्शो ऽनुत्पादो मनःसंस्पर्शो ऽनुत्पादः.
चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादो घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादो जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः कायसंस्पर्शप्रत्ययवेदनानुत्पादो मनःसंस्पर्शप्रत्ययवेदनानुत्पादः.
पृथिवीधातुर् अनुत्पादो ऽब्धातुर् अनुत्पादः तेजोधातुर् अनुत्पादो वायुधातुर् अनुत्पाद आकाशधातुर् अनुत्पादो विज्ञानधातुर् अनुत्पादः.
अविद्यानुत्पादः संस्कारा अनुत्पादो विज्ञानम् अनुत्पादो नामरूपम् अनुत्पादः षडायतनम् अनुत्पादः स्पर्शो ऽनुत्पादो वेदनानुत्पादः तृष्णानुत्पाद उपादानम् अनुत्पादो भवो ऽनुत्पादो जातिर् अनुत्पादो जरामरणम् अनुत्पादः.
दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादः.
अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादो ऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यतानुत्पादः संस्कृतशून्यतानुत्पादो ऽसंस्कृतशून्यतानुत्पादो ऽत्यन्तशून्यतानुत्पादो ऽनवराग्रशून्यतानुत्पादो ऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादो ऽनुपलम्भशून्यतानुत्पादो ऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादो ऽभावस्वभावशून्यतानुत्पादः.
स्मृत्युपस्थानान्य् अनुत्पादः सम्यक्प्रहाणान्य् अनुत्पाद ऋद्धिपादा अनुत्पादः इन्द्रियाण्य् अनुत्पादो बलान्य् अनुत्पादो बोध्यङ्गान्य् अनुत्पाद आर्याष्टाङ्गो मार्गो ऽनुत्पाद आर्यसत्यान्य् अनुत्पादो ध्यानान्य् अनुत्पादो ऽप्रमाणान्य् अनुत्पाद आरूप्यसमापत्तयो ऽनुत्पादो विमोक्षानुत्पादो ऽनुपूर्वविहारसमापत्तयो ऽनुत्पादः,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पादो ऽभिज्ञानुत्पादः, समाधयो ऽनुत्पादो धारणीमुखान्य् अनुत्पादः तथागतबलान्य् अनुत्पादो वैशारद्यान्य् अनुत्पादः प्रतिसंविदो ऽनुत्पादो महामैत्र्य् अनुत्पादो महाकरुणानुत्पाद आवेणिकबुद्धधर्मा अनुत्पादः.
स्रोतआपत्तिफलम् अनुत्पादः सकृदागामिफलम् अनुत्पादो ऽनागामिफलम् अनुत्पादो ऽर्हत्त्वम् अनुत्पादः प्रत्येकबोधिर् अनुत्पादः, सर्वज्ञतानुत्पादो मार्गाकारज्ञतानुत्पादः सर्वाकारज्ञतानुत्पादः,
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणानुत्पादो मन्त्रो ऽनुत्पादं प्रतिभानम् अनुत्पादो धर्मः, ते ऽपि धर्मा अनुत्पादा यांस् तान् आरभ्य प्रतिभाति मन्त्रयितुम्.
आह: धर्मकथिकानाम् अग्रतायाम् अयम् आयुष्मन् सुभूतिः स्थापयितव्यः. तत् कस्य हेतोः? तथा हि सुभूतिः स्थविरो यतो यत एव परिपृच्छ्यते ततस् तत एव निःसरति.
सुभूतिर् आह: धर्मतैषायुष्मञ् छारद्वतीपुत्र भगवतः श्रावकानाम् अनिश्रितानां सर्वधर्मेषु ते यतो यत एव परिपृच्छ्यन्ते ( श्स्प् इइ-2 79 ) ततस् तत एव निःसरन्ति. तत् कस्य हेतोः? यथापि तद् अनिश्रितत्वात् सर्वधर्माणाम्.
आह: कथम् आयुष्मन् सुभूते ऽनिश्रिताः सर्वधर्माः?
सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, वेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संज्ञायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संस्कारा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्त्रेणोपलभ्यते, विज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
चक्षुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न
बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, श्रोत्रम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, घ्राणम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, जिह्वायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, काय आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, मन आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
रूपम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, शब्द आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, गन्ध आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, रस आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, स्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो ( श्स्प् इइ-2 80 ) नोभयम् अन्तरेणोपलभ्यते, धर्मा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, श्रोत्रविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, घ्राणविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, जिह्वाविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, कायविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, मनोविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, श्रोत्रसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, घ्राणसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, जिह्वासंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, कायसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिःश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, मनःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते.
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, कायसंस्पर्शप्रत्ययवेदनायुष्मञ् ( श्स्प् इइ-2 81 ) छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, अब्धातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, तेजोधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, वायुधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, आकाशधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, विज्ञानधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तर् एणोपलभ्य् अते.
अविद्यायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संस्कारा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, विज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, नामरूपम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, षडायतनम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, स्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, वेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, तृष्णायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अतरेणोपलभ्यते, उपादानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, भव आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, जातिर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, जरामरनम् आयुष्मञ् ( श्स्प् इइ-2 82 ) छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
दानपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, शीलपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, क्षान्तिपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, वीर्यपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, ध्यानपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, बहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अध्यात्मबहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, शून्यताशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, महाशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, परमार्थशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संस्कृतशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, असंस्कृतशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अत्यन्तशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनवराग्रशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनवकारशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, प्रकृतिशून्यतायुष्मन् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता ( श्स्प् इइ-2 83 ) नोभयम् अन्तरेणोपलभ्यते, सर्वधर्मशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, स्वलक्षणशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनुपलम्भशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अभावशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, स्वभावशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अभावस्वभावशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, सम्यक्प्रहाणान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, ऋद्धिपादा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, इन्द्रियाण्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, बलान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, बोध्यङ्गान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, आर्याष्टाङ्गो मार्ग आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, ध्यानान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, अप्रमाणान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, आरूप्यसमापत्तयः आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, विमोक्षा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनुपूर्वविहारसमापत्तय आयुष्मञ् ( श्स्प् इइ-2 84 ) छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रितानि न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, अभिज्ञा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, समाधय आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, धारणीमुखान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, तथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, वैशारद्यान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, प्रतिसंविद आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, महामैत्र्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, महाकरुणायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, आवेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
स्रोतआपत्तिफलम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, सकृदागामिफलम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, अनागामिफलम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, अर्हत्त्वम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, प्रत्येकबोधिर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, सर्वज्ञतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, मार्गाकारज्ञतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, सर्वाकारज्ञतायुष्मञ् ( श्स्प् इइ-2 85 ) छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनिश्रिताः प्रकृतिशून्याम् उपादाय.
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरित्वा रूपं परिशोधयितव्यं, वेदना परिशोधयितव्या, संज्ञा परिशोधयितव्या, संस्काराः परिशोधयितव्याः, विज्ञानं परिशोधयितव्यम्.
चक्षुर् परिशोधयितव्यं, श्रोत्रं परिशोधयितव्यं, घ्राणं परिशोधयितव्यं, जिह्वा परिशोधयितव्या, कायः परिशोधयितव्यः, मनः परिशोधयितव्यम्.
रूपं परिशोधयितव्यं, शब्दः परिशोधयितव्यः, गन्धः परिशोधयितव्यः, रसः परिशोधयितव्यः, स्पर्शः परिशोधयितव्यः, धर्माः परिशोधयितव्याः.
चक्षुर्विज्ञानं परिशोधयितव्यं, श्रोत्रविज्ञानं परिशोधयितव्यं, घ्राणविज्ञानं परिशोधयितव्यं, जिह्वाविज्ञानं परिशोधयितव्यं, कायविज्ञानं परिशोधयितव्यं, मनोविज्ञानं परिशोधयितव्यम्.
चक्षुःसंस्पर्शः परिशोधयितव्यः, श्रोत्रसंस्पर्शः परिशोधयितव्यः, घ्राणसंस्पर्शः परिशोधयितव्यः, जिह्वासंस्पर्शः परिशोधयितव्यः, कायसंस्पर्शः परिशोधयितव्यः, मनःसंस्पर्शः परिशोधयितव्यः.
चक्षुःसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, घ्राणसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, जिह्वासंस्पर्शप्रत्ययवेदना परिशोधयितव्या, कायसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, मनःसंस्पर्शप्रत्ययवेदना परिशोधयितव्या.
पृथिवीधातुः परिशोधयितव्यो ऽब्धातुः परिशोधयितव्यः तेजोधातुः परिशोधयितव्यो वायुधातुः परिशोधयितव्य आकाशधातुः परिशोधयितव्यो विज्ञानधातुः परिशोधयितव्यः.
अविद्या परिशोधयितव्या, संस्काराः परिशोधयितव्याः, विज्ञानं परिशोधयितव्यं, नामरूपं परिशोधयितव्यं, षडायतनं परिशोधयितव्यं, स्पर्शः परिशोधयितव्यो वेदना परिशोधयितव्या, तृष्णा परिशोधयितव्या, ( श्स्प् इइ-2 86 ) उपादानं परिशोधयितव्यं, भवः परिशोधयितव्यो जातिः परिशोधयितव्या, जरामरणं परिशोधयितव्यम्.
दानपारमिता परिशोधयितव्या, शीलपारमिता परिशोधयितव्या, क्षान्तिपारमिता परिशोधयितव्या, वीर्यपारमिता परिशोधयितव्या, ध्यानपारमिता परिशोधयितव्या, प्रज्ञापारमिता परिशोधयितव्या.
अध्यात्मशून्यता परिशोधयितव्या, बहिर्धाशून्यता परिशोधयितव्या, अध्यात्मबहिर्धाशून्यता परिशोधयितव्या, शून्यताशून्यता परिशोधयितव्या, महाशून्यता परिशोधयितव्या, परमार्थशून्यता परिशोधयितव्या, संस्कृतशून्यता परिशोधयितव्या, असंस्कृतशून्यता परिशोधयितव्या, अत्यन्तशून्यता परिशोधयितव्या, अनवराग्रशून्यता परिशोधयितव्या, अनवकारशून्यता परिशोधयितव्या, प्रकृतिशून्यता परिशोधयितव्या, सर्वधर्मशून्यता परिशोधयितव्या, स्वलक्षणशून्यता परिशोधयितव्या, अनुपलम्भशून्यता परिशोधयितव्या, अभावशून्यता परिशोधयितव्या, स्वभावशून्यता परिशोधयितव्या, अभावस्वभावशून्यता परिशोधयितव्या.
स्मृत्युपस्थानानि परिशोधयितव्यानि, सम्यक्प्रहाणानि परिशोधयितव्यानि, ऋद्धिपादाः परिशोधयितव्याः, इन्द्रियाणि परिशोधयितव्यानि, बलानि परिशोधयितव्यानि, बोध्यङ्गानि परिशोधयितव्यानि, आर्याष्टाङ्गो मार्गः परिशोधयितव्यः, आर्यसत्यानि परिशोधयितव्यानि, ध्यानानि परिशोधयितव्यानि, अप्रमाणानि परिशोधयितव्यानि, आरूप्यसमापत्तयः परिशोधयितव्याः, विमोक्षाः परिशोधयितवाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिशोधयितव्यानि, अभिज्ञाः परिशोधयितवाः, समाधयः परिशोधयितवाः, धारणीमुखानि परिशोधयितव्यानि, तथागतबलानि परिशोधयितव्यानि, वैशारद्यानि परिशोधयितव्यानि, प्रतिसंविदः परिशोधयितव्यः, महामैत्री परिशोधयितव्या, महाकरुणा परिशोधयितव्या, आवेणिकबुद्धधर्माः परिशोधयितव्याः, सर्वज्ञता परिशोधयितव्या, मार्गाकारज्ञता परिशोधयितव्या, सर्वाकारज्ञता परिशोधयितव्या.
अथायुष्मञ् छारद्वतीपुत्र पुनर् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति?
सुभूतिर् आह: इहायुष्मञ् छारद्वतीपुत्र दानपारमिता लौकिक्य् अस्ति ( श्स्प् इइ-2 87 ) लोकोत्तरास्ति, शीलपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, क्षान्तिपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, वीर्यपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, ध्यानपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, प्रज्ञापारमिता लौकिक्य् अस्ति लोकोत्तरास्ति.
आह: कतमायुष्मन् सुभूते दानपारमिता लौकिकी कतमा लोकोत्तरा?
सुभूतिर् आह: इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो दाता भवति दानपतिः श्रमणब्राह्मणकृपणवनीपकायाचनकेभ्यः, अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो यानं यानार्थिकेभ्यो वस्त्रं वस्त्रार्थिकेभ्यः पुष्पं पुष्पार्थिकेभ्यो माल्यं माल्यार्थिकेभ्यो गन्धं गन्धार्थिकेभ्यो विलेपनं विलेपनार्थिकेभ्य उपाश्रयम् उपाश्रयार्थिकेभ्य शय्यासनं शय्यासनार्थिकेभ्य उपकरणम् उपकरणार्थिकेभ्यो भैषज्यं भैषज्यार्थिकेभ्यः, यावद् अन्यतरान्यतरा मानुष्यकापरिष्कारान् ददाति पुत्रार्थिकेभ्यः पुत्रं ददाति दुहितृकार्थिकेभ्यो दुहितृन् ददाति भार्यार्थिकेभ्यो भार्यां ददाति राज्यार्थिकेभ्यो राज्यं ददाति, शिरोऽर्थिकेभ्यः शिरो ददाति, नयनार्थिकेभ्यो नयनं ददाति, अङ्गप्रत्यङ्गार्थिकेभ्यो ऽङ्गं ददाति, मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जान् ददाति, तच् च संनिश्रितः परित्यजति तस्यैवं भवति, अहं ददाम्य् एष प्रतिग्र्ह्णाति, इदं दानम् अहं दाता, अहं दानपतिर् अहं सर्वास्तिपरित्यागी, अहं बुद्धाज्ञां करोमि, अहं दानपारमितायां चरामि, तच् च दानं दत्वोपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनेन मे दानफलेनैते सत्त्वा दृष्ट एव धर्मे सुखिता भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति, स त्रिषु संयोगेषु सक्तस् तद् दानं ददाति, कतमेषु त्रिषु? यद् उतात्मसंज्ञायां परसंज्ञायां दानसंज्ञायाम् एषु त्रिषु संयोगेषु सक्तो दानं ददाति. इयम् उच्यते लौकिकी दानपारमिता. केन कारणेनोच्यते लौकिकी दानपारमितेति? तथा हि लोकतो न चरति नोच्चरति, न च संक्रामति तेनोच्यते लौकिकी दानपारमिता.
तत्र कतमा लोकोत्तरा दानपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस् तद् दानं ददन्न् आत्मानं नोपलभ्यते प्रतिग्राहकं नोपलभ्यते दानं नोपलभ्यते विपाकञ् ( श्स्प् इइ-2 88 ) च नाभिनन्दति. इयम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः.
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र दानं ददाति सर्वसत्त्वेभ्यश् च तद् दानं निर्यातयति तांश् च सत्त्वान् नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तं न समनुपश्यति. इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र लोकोत्तरा दानपारमिता. केन कारणेनोच्यते लोकोत्तरा दानपारमितेति? तथा हि लोकोत्तरेति लोका चरति संक्रामति तेनोच्यते लोकोत्तरा दानपारमितेति.
अस्त्य् आयुष्मञ् छारद्वतीपुत्र शीलपारमिता लौकिक्य् अस्ति लोकोत्तरा.
तत्र कतमा लौकिकी शीलपारमिता?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः शीलं रक्षति तच् च संनिश्रितो भवति तस्यैवं भवत्य् अहम् शीलं रक्षामि सत्त्वानाम् अर्थाय. इदम् शीलम् अहं बुद्धाज्ञां करोमि तच् च शीलं रक्षन्न् उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनेन मे शीलफलेनैते सत्त्वा दृष्ट एव धर्मेषु सुखिनो भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति. स त्रिषु संज्ञेषु सक्तस् तच् छीलं रक्षति यद् उतात्मसंज्ञायां परसंज्ञायां शीलसंज्ञायाम् इयम् उच्यते लौकिकी शीलपारमितेति. तथा हि लोकतो न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति.
तत्र कतमा लोकोत्तरा शीलपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः शीलं रक्षन्न् आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते शीलं नोपलभ्यते विपाकं नाभिनन्दति सर्वसत्त्वेभ्यश् च तच् छीलं निर्यातयति. तांश् च सत्त्वान् नोपलभ्यते ऽनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तं न समनुपश्यतीयम् उच्यते लोकोत्तरा शीलपारमिता तथा हि लोका चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति.
अस्त्य् आयुष्मञ् छारद्वतीपुत्र क्षान्तिपारमिता लौकिक्य् अस्ति लोकोत्तरा.
तत्र कतमा लौकिकी क्षान्तिपारमिता?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः क्षान्तिं भावयति, ताञ् च संनिश्रितो भवति, तस्यैवं भवत्व् अहं क्षान्तिं भावयामि सर्वसत्त्वानाम् अर्थाय, इयं क्षान्तिर् अहं बुद्धाज्ञां करोति तञ् च क्षान्तिं भावयन्न् उपलम्भयोगेन सर्वसत्त्वैः सार्धं ( श्स्प् इइ-2 89 ) साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयते, अनेन मे क्षान्तिफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति. स त्रिषु संज्ञेषु सक्तस् ता क्षान्तिं भावयति यद् उतात्मसंज्ञायां परसंज्ञायां क्षान्तिसंज्ञायाम् इयम् उच्यते लौकिकी क्षान्तिपारमितेति. तथा हि लोकतो न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति.
तत्र कतमा लोकोत्तरा क्षान्तिपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः क्षान्तिं भावयन्न् आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते क्षान्तिं नोपलभ्यते, विपाकं नाभिनन्दति, सर्वसत्त्वेभ्यश् च तां क्षान्तिं निर्यातयति तांश् च सत्त्वान् नोपलभ्यते, ऽनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तं न समनुपश्यति. इयम् उच्यते लोकोत्तरा क्षान्तिपारमिता, तथा हि लोकाच् चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति.
अस्त्य् आयुष्मञ् छारद्वतीपुत्र वीर्यपारमिता लौकिक्य् अस्ति लोकोत्तरा.
तत्र कतमा लौकिकी वीर्यपारमिता?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो वीर्यम् आरभते, तच् च संनिश्रित आरभते तस्यैवं भवत्य् अहं वीर्यम् आरभते सर्वसत्त्वानाम् अर्थाय, अयं काय इदं चित्तम् इदं वीर्यम् अहं बुद्धाज्ञां करोम्य् अहं वीर्यपारमितायाञ् चरामि तच् च वीर्यम् उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरयां सम्यक्संबोधौ परिणामयति, अनेन मे वीर्यफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवत्व् अनुपादाय च परिनिर्वान्त्व् इति. स त्रिषु संज्ञेषु सक्तस् तं वीर्यम् आरभते, यद् उतात्मसंज्ञायां परसंज्ञायां वीर्यसंज्ञायाम् इयम् उच्यते लौकिकी वीर्यपारमितेति. तथा हि कोकतो न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति.
तत्र कतमा लोकोत्तरा वीर्यपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो वीर्यम् आरभमाण आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते वीर्यं नोपलभ्यते विपाकं च नाभिनन्दति सर्वसत्त्वेभ्यश् च तद् वीर्यं निर्यतयति तांश् च सत्त्वान् नोपलभते नुत्तरायां सम्यक्संबोधौ परिणामयञ् चापि च निमित्तम् न समनुपश्यतीयम् उच्यते लोकोत्तरा वीर्यपारमिता तथा हि ( श्स्प् इइ-2 90 ) लोकाच् चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति.
अस्त्य् आयुष्मञ् छारद्वतीपुत्र ध्यानपारमिता लौकिक्य् अस्ति लोकोत्तरा.
तत्र कतमा लौकिकी ध्यानपारमिता?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो ध्यानं समापद्यते, तच् च संनिश्रितः समापद्यते तस्यैवं भवत्य् अहं ध्यानानि समापद्यते सर्वसत्त्वानाम् अर्थाय, इमानि ध्यानानि, अहं बुद्धाज्ञां करोमि तच् च ध्यानं समापद्यमान उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनेन मे ध्यानफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति, स त्रिषु संज्ञेषु सक्तस् तद् ध्यानं समापद्यते, यद् उतात्मसंज्ञायां परसंज्ञायां ध्यानसंज्ञायाम् इयम् उच्यते लौकिकी ध्यानपारमितेति, तथा हि लोकतो न चरति नोच्चरति न संक्रामति, तद् उच्यते लौकिकीति.
तत्र कतमा लोकोत्तरा ध्यानपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो ध्यानानि समापद्यमान आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते विपाकं च नाभिनन्दति, सर्वसत्त्वेभ्यश् च तानि ध्यानानि निर्यातयति, ताश् च सत्त्वान् नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तन् न समनुपश्यतीयम् उच्यते लोकोत्तरा ध्यानपारमिता तथा हि लोकाच् चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति.
अस्त्य् आयुष्मञ् छारद्वतीपुत्र प्रज्ञापारमिता लौकिक्य् अस्ति लोकोत्तरा.
तत्र कतमा लौकिकी प्रज्ञापारमिता?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रज्ञां भावयति, ताञ् च संनिश्रितो भावयति सर्वपापं प्रतिदेशयति, आत्मनः परेषां चार्थाय सर्वपुण्यम् अनुमोद्यते सर्वबुद्धान् अध्येषते उपलम्भयोगेन तच् च सर्वकुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपायेन तस्यैवं भवत्य् अहं प्रज्ञां भावयामि सर्वसत्त्वानाम् अर्थाय इयं प्रज्ञा इमां बुद्धाज्ञां करोमि. तां च प्रज्ञां भावयन्न् उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति अनेन मे प्रज्ञाफलेनैते सत्त्वा दृष्ट एव धर्मे सुखिनो भवन्त्व् अनुत्पादाय च परिनिर्वान्त्व् इति, स त्रिषु संज्ञेषु सक्तस् तां प्रज्ञां भावयन्ति, यद् उतात्मसंज्ञायां परसंज्ञायां प्रज्ञासंज्ञायाम् इयम् उच्यते लौकिकी ( श्स्प् इइ-2 91 ) प्रज्ञापारमिता तथा हि लोकान् न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति.
तत्र कतमा लोकोत्तरा प्रज्ञापारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रज्ञां भावयन्न् आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते प्रज्ञान् नोपलभ्यते विपाकश् च नाभिनन्दति, सर्वसत्त्वेभ्यश् च प्रज्ञां निर्यातयति, तांश् च सत्त्वान् नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तन् न समनुपश्यतीयम् उच्यते लोकोत्तरा प्रज्ञापारमिता तथा हि लोकाच् चरत्य् उच्चरति संक्रामति तद् उच्यते लोकोत्तरा प्रज्ञापारमितेति.
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति.
आह: कतमायुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः?
सुभूतिर् आह: दानपारमितायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शीलपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, क्षान्तिपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, वीर्यपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, ध्यानपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, बहिर्धाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अध्यात्मबहिर्धाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शून्यताशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, परमार्थशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, संस्कृतशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, असंस्कृतशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अत्यन्तशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनवराग्रशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनवकारशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, प्रकृतिशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वधर्मशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, स्वलक्षणशून्यता ( श्स्प् इइ-2 92 ) बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनुपलम्भशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, स्वभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अभावस्वभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
चत्वारि स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि सम्यक्प्रहाणानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि ऋद्धिपादा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्चेन्द्रियाणि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्च बलानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सप्त बोध्यङ्गानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, आर्याष्टाङ्गो मार्गो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
चत्वार्य् आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि ध्यानानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वार्य् अप्रमाणानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चतस्र आरूप्यसमापत्तयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अष्टौ विमोक्षा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, नवानुपूर्वविहारसमापत्तयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्चाभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वसमाधयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वधारणीमुखानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
दशतथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि वैशारद्यानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चतस्रः प्रतिसंविदो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महामैत्री बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महाकरुणा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अष्टादशावेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
आह: साधु साध्व् आयुष्मन् सुभूते कतमस्या अयं पारमितायाः पुरुषकारः?
सुभूतिर् आह: प्रज्ञापारमिताया आयुष्मञ् छारद्वतीपुत्रायं पुरुषकारः. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र प्रज्ञापारमिता ( श्स्प् इइ-2 93 ) जनयित्री सर्वकुशलानां धर्माणां श्रावकधर्माणां प्रत्येकबुद्धधर्माणां बुद्धधर्माणां प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्र परिग्राहिका संग्राहिका सर्वकुशलानां धर्माणां श्रावकधर्माणां बोधिसत्त्वधर्माणां बुद्धधर्माणां प्रज्ञापारमितायाम् आयुष्मञ् छारद्वतीपुत्र चरितैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धाः, अनागता अप्य् आयुष्मञ् छारद्वतीपुत्र तथागतार्हतः सम्यक्संबुद्धा अत्रैव प्रज्ञापारमितायाञ् चरित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. ये ऽपि ते आयुष्मञ् छारद्वतीपुत्र दशसु दिक्षु लोकधातुषु तथागतार्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रीयन्ते यापयन्ति, ते ऽपीहैव प्रज्ञापारमितायाञ् चरित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः.
सचेत् पुनर् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां भाष्यमाणायां न भवति काङ्क्षायितत्वं वा धन्वायितत्वं वा वेदितव्यम् आयुष्मञ् छारद्वतीपुत्र विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन विहारेण यद् उत सर्वसत्त्वानां त्राणाय सर्वसत्त्वानाम् अपरित्यागतायै तच् चानुपलम्भयोगेन विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन मनसिकारेण यद् उत महाकरुणा मनसिकारेन.
आह: विहरतुम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो ऽयम् अनेन विहारेणेच्छसि, अविरहितं चानेन मनसिकारेण यद् उत महाकरुणा मनसिकारेण, एवं सत्य् आयुष्मन् सुभूते सर्वसत्त्वा बोधिसत्त्वा भविष्यन्ति. तत् कस्य हेतोः? सर्वसत्त्वा ह्य् आयुष्मन् सुभूते ऽविरहिता मनसिकारेन.
सुभूतिर् आह: साधु साध्व् आयुष्मञ् छारद्वतीपुत्र उपालप्स्ये उपालप्स्य इति. अत एवायुष्मता शारद्वतीपुत्रेण भूतपदाभिधानेन परिगृहीतः. तत् कस्य हेतोः? सत्त्वासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या सत्त्वाभावतया मनसिकाराभावता वेदितव्या सत्त्वास्वभावतया मनसिकारास्वभावता वेदितव्या, सत्त्वशून्यतया मनसिकाराशून्यता वेदितव्या, सत्त्वविविक्ततया मनसिकारविविक्तता वेदितव्या, सत्त्वान् अभिसंबोधनतया मनसिकारान् अभिसंबोधनता वेदितव्या.
रूपासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, रूपाभावतया मनसिकाराभावनता वेदितव्या, रूपास्वभावतया मनसिकारास्वभावता ( श्स्प् इइ-2 94 ) वेदितव्या, रूपशून्यतया मनसिकारशून्यता वेदितव्या, रूपविविक्ततया मनसिकारविविक्तता वेदितव्या, रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
वेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वेदनाभावतया मनसिकाराभावता वेदितव्या, वेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, वेदनाशून्यतया मनसिकारशून्यता वेदितव्या, वेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, वेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
संज्ञासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संज्ञाभावतया मनसिकाराभावता वेदितव्या, संज्ञास्वभावतया मनसिकारास्वभावता वेदितव्या, संज्ञाशून्यतया मनसिकारशून्यता वेदितव्या, संज्नाविविक्ततया मनसिकारविविक्तता वेदितव्या, संज्ञानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
संस्कारासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्काराभावतया मनसिकाराभावता वेदितव्या, संस्कारास्वभावतया मनसिकारास्वभावता वेदितव्या, संस्काराशून्यतया मनसिकारशून्यता वेदितव्या, संस्काराविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कारानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानाभावतया मनसिकाराभावता वेदितव्या, विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानविविक्ततया मनसिकारवि विक्तता वेदितव्या, विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
चक्षुरसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुरभावतया मनसिकाराभावता वेदितव्या, चक्षुरस्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुर्विविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुरनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
श्रोत्रासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्राभावतया मनसिकाराभावता वेदितव्या, श्रोत्रास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रशून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
घ्राणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ( श्स्प् इइ-2 95 ) घ्राणाभावतया मनसिकाराभावता वेदितव्या, घ्राणास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
जिह्वासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वाभावतया मनसिकाराभावता वेदितव्या, जिह्वास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वाशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वाविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
कायासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायाभावतया मनसिकाराभावता वेदितव्या, कायास्वभावतया मनसिकारास्वभावता वेदितव्या, कायशून्यतया मनसिकारशून्यता वेदितव्या, कायविविक्ततया मनसिकारविविक्तता वेदितव्या, कायानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
मनोसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनोभावतया मनसिकाराभावता वेदितव्या, मनोऽस्वभावतया मनसिकारास्वभावता वेदितव्या, मनःशून्यतया मनसिकारशून्यता वेदितव्या, मनोऽविविक्ततया मनसिकारविविक्तता वेदितव्या, मनोऽनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
रूपासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, रूपाभावनतया मनसिकाराभावनता वेदितव्या, रूपास्वभावतया मनसिकारास्वभावता वेदितव्या, रूपशून्यतया मनसिकारशून्यता वेदितव्या, रूपविविक्ततया मनसिकारविविक्तता वेदितव्या, रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
शब्दासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शब्दाभावतया मनसिकाराभावता वेदितव्या, शब्दास्वभावतया मनसिकारास्वभावता वेदितव्या, शब्दशून्यतया मनसिकारशून्यता वेदितव्या, शब्दविविक्ततया मनसिकारविविक्तता वेदितव्या, शब्दानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
गन्धासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, गन्धाभावतया मनसिकाराभावता वेदितव्या, गन्धास्वभावतया मनसिकारास्वभावता वेदितव्या, गन्धशून्यतया मनसिकारशून्यता वेदितव्या, गन्धविविक्ततया मनसिकारविविक्तता वेदितव्या, गन्धानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
रससत्तययुष्मञ् छारद्वतीपुत्र मनसिकरसत्त वेदितव्य, रसाभावतया मनसिकाराभावता वेदितव्या, रसास्वभावतया मनसिकारास्वभावता वेदितव्या, रसशून्यतया मनसिकारशून्यता वेदितव्या, रसविविक्ततया मनसिकारविविक्तता वेदितव्या, रसानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
स्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्पर्शाभावतया मनसिकाराभावता वेदितव्या, स्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, स्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, स्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, स्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
धर्मासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, धर्माभावतया मनसिकाराभावता वेदितव्या, धर्मास्वभावतया मनसिकारास्वभावता वेदितव्या, धर्मशून्यतया मनसिकारशून्यता वेदितव्या, धर्मविविक्ततया मनसिकारविविक्तता वेदितव्या, धर्मानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
चक्षुर्विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुर्विज्ञानाभावतया मनसिकाराभावता वेदितव्या, चक्षुर्विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुर्विज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, चक्षुर्विज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुर्विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
श्रोत्रविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रविज्ञानाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रविज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
घ्राणविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, घ्राणविज्ञानाभावतया मनसिकाराभावता वेदितव्या, घ्राणविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणविज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, घ्राणविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
जिह्वाविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ( श्स्प् इइ-2 97 ) जिह्वाविज्ञानाभावतया मनसिकाराभावता वेदितव्या, जिह्वाविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वाविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वाविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वाविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधरिअता वेदितव्या,
कायविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायविज्ञानाभावतया मनसिकाराभावता वेदितव्या, कायविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, कायविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, कायविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, कायविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
मनोविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनोविज्ञानाभावतया मनसिकाराभावता वेदितव्या, मनोविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, मनोविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, मनोविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, मनोविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
चक्षुःसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुःसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, चक्षुःसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुःसंस्पर्श विविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुःसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
श्रोत्रसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रसंस्पर्श शून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
घ्राणसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, घ्राणसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, घ्राणसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणसंस्पर्शानभिसंबोधनतया ( श्स्प् इइ-2 98 ) मनसिकारानभिसंबोधनता वेदितव्या,
जिह्वासंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वासंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, जिह्वासंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वासंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वासंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वासंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
कायसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, कायसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, कायसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, कायसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, कायसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
मनःसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनःसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, मनःसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, मनःसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, मनःसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, मनःसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
चक्षुःसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
श्रोत्रसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
घ्राणसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र ( श्स्प् इइ-2 99 ) मनसिकारासत्ता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
जिह्वासंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
कायसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
मनःसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
पृथिवीधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, पृथिवीधात्वभावतया मनसिकाराभावता वेदितव्या, पृथिवीधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, पृथिवीधातुशून्यतया मनसिकारशून्यता वेदितव्या, पृथिवीधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, पृथिवीधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
अब्धात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ( श्स्प् इइ-2 100 ) अब्धात्वभावतया मनसिकाराभावता वेदितव्या, अब्धात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, अब्धातुशून्यतया मनसिकारशून्यता वेदितव्या, अब्धातुविविक्ततया मनसिकारविविक्तता वेदितव्या, अब्धात्व् अनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
तेजोधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, तेजोधात्वभावतया मनसिकाराभावता वेदितव्या, तेजोधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, तेजोधातुशून्यतया मनसिकारशून्यता वेदितव्या, तेजोधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, तेजोधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
वायुधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वायुधात्वभावतया मनसिकाराभावता वेदितव्या, वायुधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, वायुधातुशून्यतया मनसिकारशून्यता वेदितव्या, वायुधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, वायुधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
आकाशधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आकाशधात्वभावतया मनसिकाराभावता वेदितव्या, आकाशधात्व् अस्वभावतया मनसिकारास्वभावता वेदितव्या, आकाशधातुशून्यतया मनसिकारशून्यता वेदितव्या, आकाशधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, आकाशधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
विज्ञानधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानधात्वभावतया मनसिकाराभावता वेदितव्या, विज्ञानधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानधातुशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, विज्ञानधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
अविद्यासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अविद्याभावतया मनसिकाराभावता वेदितव्या, अविद्यास्वभावतया मनसिकारास्वभावता वेदितव्या, अविद्याशून्यतया मनसिकारशून्यता वेदितव्या, अविद्याविविक्ततया मनसिकारविविक्तता वेदितव्या, अविद्यानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
संस्कारासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्काराभावतया मनसिकाराभावता वेदितव्या, संस्कारास्वभावतया ( श्स्प् इइ-2 101 ) मनसिकारास्वभावता वेदितव्या, संस्कारशून्यतया मनसिकारशून्यता वेदितव्या, संस्कारविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कारानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानाभावतया मनसिकाराभावता वेदितव्या, विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
नामरूपासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, नामरूपाभावतया मनसिकाराभावता वेदितव्या, नामरूपास्वभावतया मनसिकारास्वभावता वेदितव्या, नामरूपशून्यतया मनसिकारशून्यता वेदितव्या, नामरूपविविक्ततया मनसिकारविविक्तता वेदितव्या, नामरूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
षडायतनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, षडायतनाभावतया मनसिकाराभावता वेदितव्या, षडायतनास्वभावतया मनसिकारास्वभावता वेदितव्या, षडायतनशून्यतया मनसिकारशून्यता वेदितव्या, षडायतनविविक्ततया मनसिकारविविक्तता वेदितव्या, षडायतनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
स्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्पर्शाभावतया मनसिकाराभावता वेदितव्या, स्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, स्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, स्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, स्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
वेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वेदनाभावतया मनसिकाराभावता वेदितव्या, वेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, वेदनाशून्यतया मनसिकारशून्यता वेदितव्या, वेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, वेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
तृष्णासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, तृष्णाभावतया मनसिकाराभावता वेदितव्या, तृष्णास्वभावतया मनसिकारास्वभावता वेदितव्या, तृष्णाशून्यतया मनसिकारशून्यता वेदितव्या, तृष्णाविविक्ततया मनसिकारविविक्तता वेदितव्या, तृष्णानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
उपादानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ( श्स्प् इइ-2 102 ) उपादानाभावतया मनसिकाराभावता वेदितव्या, उपादानास्वभावतया मनसिकारास्वभावता वेदितव्या, उपादानशून्यतया मनसिकारशून्यता वेदितव्या, उपादानविविक्ततया मनसिकारविविक्तता वेदितव्या, उपादानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
भवासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, भवाभावतया मनसिकाराभावता वेदितव्या, भवास्वभावतया मनसिकारास्वभावता वेदितव्या, भवशून्यतया मनसिकारशून्यता वेदितव्या, भवविविक्ततया मनसिकारविविक्तता वेदितव्या, भवानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
जात्यसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जात्यभावतया मनसिकाराभावता वेदितव्या, जात्यस्वभावतया मनसिकारास्वभावता वेदितव्या, जातिशून्यतया मनसिकारशून्यता वेदितव्या, जातिविविक्ततया मनसिकारविविक्तता वेदितव्या, जात्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
जरामरणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जरामरणाभावतया मनसिकाराभावता वेदितव्या, जरामरणास्वभावतया मनसिकारास्वभावता वेदितव्या, जरामरणशून्यतया मनसिकारशून्यता वेदितव्या, जरामरणविविक्ततया मनसिकारविविक्तता वेदितव्या, जरामरणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
दानपारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, दानपारमिताभावतया मनसिकाराभावता वेदितव्या, दानपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, दानपारमिता शून्यतया मनसिकारशून्यता वेदितव्या, दानपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, दानपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
शीलपारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शीलपारमिताभावतया मनसिकाराभावता वेदितव्या, शीलपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, शीलपारमिताशून्यतया मनसिकारशून्यता वेदितव्या, शीलपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, शीलपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
क्षान्तिपारमिता सत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, क्षान्तिपारमिताभावतया मनसिकाराभावता वेदितव्या, क्षान्तिपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, क्षान्तिपारमिताशून्यतया ( श्स्प् इइ-2 103 ) मनसिकारशून्यता वेदितव्या, क्षान्तिपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, क्षान्तिपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
वीर्यपारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वीर्यपारमिताभावतया मनसिकाराभावता वेदितव्या, वीर्यपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, वीर्यपारमिता शून्यतया मनसिकारशून्यता वेदितव्या, वीर्यपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, वीर्यपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
ध्यानपारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ध्यानपारमिताभावतया मनसिकाराभावता वेदितव्या, ध्यानपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, ध्यान्पारमिता शून्यतया मनसिकारशून्यता वेदितव्या, ध्यानपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, ध्यानपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
प्रज्ञापारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, प्रज्ञापारमिताभावतया मनसिकाराभावता वेदितव्या, प्रज्ञापारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, प्रज्ञापारमिता शून्यतया मनसिकारशून्यता वेदितव्या, प्रज्ञापारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, प्रज्ञापारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
अध्यात्मशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अध्यात्मशून्यताभावतया मनसिकाराभावता वेदितव्या, अध्यात्मशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अध्यात्मशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अध्यात्मशून्यता विविक्ततया मनसिकारविविक्तता वेदितव्या, अध्यात्मशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
बहिर्धाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बहिर्धाशून्यताभावतया मनसिकाराभावता वेदितव्या, बहिर्धाशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, बहिर्धाशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, बहिर्धाशून्यता विविक्ततया मनसिकारविविक्तता वेदितव्या, बहिर्धाशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
अध्यात्मबहिर्धाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता ( श्स्प् इइ-2 104 ) वेदितव्या, अध्यात्मबहिर्धाशून्यताभावतया मनसिकाराभावता वेदितव्या, अध्यात्मबहिर्धाशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अध्यात्मबहिर्धाशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अध्यात्मबहिर्धाशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अध्यात्मबहिर्धाशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
शून्यताशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शून्यताशून्यताभावतया मनसिकाराभावता वेदितव्या, शून्यताशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, शून्यताशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, शून्यताशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, शून्यताशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
महाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, महाशून्यताभावतया मनसिकाराभावता वेदितव्या, महाशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, महाशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, महाशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, महाशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
परमार्थशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, परमार्थशून्यताभावतया मनसिकाराभावता वेदितव्या, परमार्थशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, परमार्थशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, परमार्थशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, परमार्थशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
संस्कृतशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्कृतशून्यताभावतया मनसिकाराभावता वेदितव्या, संस्कृतशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, संस्कृतशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, संस्कृतशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कृतशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
असंस्कृतशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, असंस्कृतशून्यताभावतया मनसिकाराभावता वेदितव्या, असंस्कृतशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, असंस्कृतशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, असंस्कृतशून्यताविविक्ततया ( श्स्प् इइ-2 105 ) मनसिकारविविक्तता वेदितव्या, असंस्कृतशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
अत्यन्तशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अत्यन्तशून्यताभावतया मनसिकाराभावता वेदितव्या, अत्यन्तशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अत्यन्तशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अत्यन्तशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अत्यन्तशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
अनवराग्रशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनवराग्रशून्यताभावतया मनसिकाराभावता वेदितव्या, अनवराग्रशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अनवराग्रशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अनवराग्रशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अनवराग्रशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
अनवकारशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनवकारशून्यताभावतया मनसिकाराभावता वेदितव्या, अनवकारशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अनवकारशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अनवकारशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अनवकारशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
प्रकृतिशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, प्रकृतिशून्यताभावतया मनसिकाराभावता वेदितव्या, प्रकृतिशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, प्रकृतिशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, प्रकृतिशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, प्रकृतिशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
सर्वधर्मशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सर्वधर्मशून्यताभावतया मनसिकाराभावता वेदितव्या, सर्वधर्मशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, सर्वधर्मशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, सर्वधर्मशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, सर्वधर्मशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
स्वलक्षणशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्वलक्षणशून्यताभावतया मनसिकाराभावता वेदितव्या, ( श्स्प् इइ-2 106 ) स्वलक्षणशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, स्वलक्षणशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, स्वलक्षणशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, स्वलक्षणशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
अनुपलम्भशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनुपलम्भशून्यताभावतया मनसिकाराभावता वेदितव्या, अनुपलम्भशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अनुपलम्भशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अनुपलम्भशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अनुपलम्भशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
अभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अभावशून्यताभावतया मनसिकाराभावता वेदितव्या, अभावशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अभावशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अभावशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अभावशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
स्वभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्वभावशून्यताभावतया मनसिकाराभावता वेदितव्या, स्वभावशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, स्वभावशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, स्वभावशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, स्वभावशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
अभावस्वभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अभावस्वभावशून्यताभावतया मनसिकाराभावता वेदितव्या, अभावस्वभावशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अभावस्वभावशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अभावस्वभावशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अभावस्वभावशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
स्मृत्युपस्थानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्मृत्युपस्थानाभावतया मनसिकाराभावता वेदितव्या, स्मृत्युपस्थानास्वभावतया मनसिकारास्वभावता वेदितव्या, स्मृत्युपस्थानशून्यतया मनसिकारशून्यता वेदितव्या, स्मृत्युपस्थानविविक्ततया ( श्स्प् इइ-2 107 ) मनसिकारविविक्तता वेदितव्या, स्मृत्युपस्थानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
सम्यक्प्रहाणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सम्यक्प्रहाणाभावतया मनसिकाराभावता वेदितव्या, सम्यक्प्रहाणास्वभावतया मनसिकारास्वभावता वेदितव्या, सम्यक्प्रहाणशून्यतया मनसिकारशून्यता वेदितव्या, सम्यक्प्रहाणविविक्ततया मनसिकारविविक्तता वेदितव्या, सम्यक्प्रहाणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
ऋद्धिपादासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ऋद्धिपादाभावतया मनसिकाराभावता वेदितव्या, ऋद्धिपादास्वभावतया मनसिकारास्वभावता वेदितव्या, ऋद्धिपादशून्यतया मनसिकारशून्यता वेदितव्या, ऋद्धिपादविविक्ततया मनसिकारविविक्तता वेदितव्या, ऋद्धिपादानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
इन्द्रियासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, इन्द्रियाभावतया मनसिकाराभावता वेदितव्या, इन्द्रियास्वभावतया मनसिकारास्वभावता वेदितव्या, इन्द्रियशून्यतया मनसिकारशून्यता वेदितव्या, इन्द्रियविविक्ततया मनसिकारविविक्तता वेदितव्या, इन्द्रियानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
बलासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बलाभावतया मनसिकाराभावता वेदितव्या, बलास्वभावतया मनसिकारास्वभावता वेदितव्या, बलशून्यतया मनसिकारशून्यता वेदितव्या, बलविविक्ततया मनसिकारविविक्तता वेदितव्या, बलानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
मूल पाठ: Śatasāhasrikā Prajñāpāramitā-2 · Edition: Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0