भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 97

97.1

सर्वे चैव समापन्ना बुद्धवज्रधरादयः ।
धर्ममण्डलयोगेन हृच्चिह्नास्तु समालिखेत् ॥
इनितिअतिओन् इन्तो थे मन्दल
अथात्र [धर्मसमय]मण्डले यथावत्कर्म कृत्वा, वज्रधारिमुद्रांसु वज्रघण्टां [बद्धं बध्यै]वं ब्रुयात् "न त्वया कस्यचिदसमयदृष्टस्यादृष्टदेवकुलस्य वक्तव्यम्" इति उक्त्वा, तां घण्टां रणापयेत् एवं च ब्रूयात्, शपथहृदयं दत्वा ।
यथेयं रणितघण्टा शब्दश्चास्य यथा ध्रुवः ।
तथेदं कर्मवज्रं ते नाशं कुर्यत्तथा ध्रुवं

97.2

वज्राचार्यत्वगौरव्यं वज्रस्रातृष्वमित्रता ।
दुष्टमैत्रीविरासश्च यदि कुर्याद्भवान् कदा ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc