भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 92

92.1

विद्याराजमहामुद्रागणः ॥
प्रसारिताश्रिता पाणौ हस्तपृष्ठे तथैव वा ।
मुष्टिसंस्था भुजा वा च मुखतः परिवर्तिता ॥
वज्रक्रोधमहामुद्रागणः ॥
वामाङ्गुष्ठसुसंस्था तु मालबन्धप्रयोजिता ।
दक्षिणेनार्थदायी च खङ्गमुद्राग्रमुष्टिमा ॥
गणपतिमहामुद्रागणः ॥
दक्षिणग्रस्तमुसला प्रसारितभुजा तथा ।
दक्षिणज्वालसन्दर्शा वज्रमुष्टिप्रकम्पिता ॥
दूतमहामुद्रागणः ॥
सगर्वमुखदंष्ट्राग्रा दण्डाघातप्रपातिता ।
बाहुसंकोचलम्बा च वामदक्षिणहारिणी ॥ ति ॥
चेटमहामुद्रागणः ॥
कल्पनं मण्डले सर्वे [वाम]वज्रग्रहेण तु ।
अतः परं प्रवक्ष्यामि साधनं कर्म एव च

92.2

यस्य सत्वस्य या मुद्रा भवेत्तस्य स्वमात्मना ।
भावयन्तं स्वमात्मानं मुद्रासाधनमुत्तमं

92.3

मनोष्णीषमहारक्षा तेजोराशी सुसिद्धदा ।
सर्वकृद्वज्रहुंकारा सर्वाकर्षा तु हृद्गते ॥ ति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc