ग्रंथ पाठ
सर्वतथागततत्त्वसंग्रह · अध्याय 196
196.1
इत्याह भगवान् वज्रसत्वः ॥
तत्रेदं वज्रकुलचक्षुर्ज्ञानसिद्धितन्त्रं ।
सव्यापसव्यवर्तिभ्यो खे तः पश्यति चक्षुषा ।
आकाशधातवः शीघ्रं भ्रमन्तो अंभ्रसन्निभाः
196.2
तां दृष्ट्वा न हि बिभ्येत मुद्रास्ता वज्रसंभवाः ।
तेषां ग्रहणतो मुद्राः सिध्यन्ते मुद्रचक्षुषा
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0