ग्रंथ पाठ
सर्वतथागततत्त्वसंग्रह · अध्याय 185
185.1
इदं जपंस्तु हृदयं साधयेत् सर्वसिद्धयः ।
[तत्वचोदनयोगे]न तुष्टः स त्वाशु सिध्यती- ॥
त्याह भगवान् वज्रसत्वः ॥
तत्रेदं वज्रकुलसर्वमण्डलसिद्धिगुह्यतन्त्रं ।
त्रिलोकविजयाकारं सर्ववज्रकुलस्य हि ।
सर्वमण्डलयोगं तु संलिखेत विचक्षणः
185.2
तं प्रविष्ट्वैव शीघ्रं वै ब्रूयात्सिद्धिं तु याचयन् ।
"रागात्त्वमसि संभूत" , एवं सर्वेषु सिध्यती-
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0