भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 179

179.1

इत्याह भगवान् वज्रपाणिः ॥
अथ ऋद्धिविधिज्ञानसिद्धिर्भवति ।
महामुद्रां समाधाय यां यां ऋद्धिमभीष्यति ।
यत्र वा तत्र वा तद्वै संदर्शयेत्समाधिने- ॥
त्याह भगवान् महाबोधिचित्तः ॥
तत्रेदं वज्रकुलाभिज्ञासिद्धितन्त्रं ॥
त्रिलोकविजयाग्रीं वै बध्वा तु सुसमाहितः ।
पञ्चाभिज्ञानवाप्नोति विधिनानेन साधकः

179.2

क्रुद्धः सः सर्वकार्याणि यथावदनुपूर्वशः ।
दिव्यचक्ष्वादियोगेन सर्वाभिज्ञो भवेत् क्षणाद्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc