ग्रंथ पाठ
सर्वतथागततत्त्वसंग्रह · अध्याय 105
105.1
तत्रैषां हृदयानि भवन्ति ।
हूं ॥
ओं पद्मभृकुटि त्रः ॥
ओं पद्मसूर्य ज्वल हूं ॥
ओं पद्ममणि केतुधर चन्द्र प्रल्हादयावलोकितेश्वर देहि मे सर्वार्थान् शीघ्रं समय हूं ॥
ओं पद्माट्टहासैकदशमुख हः हः हः हः हूं ॥
वज्रवेगेन चाक्रम्य तृतीयं मण्डलन्तथा ।
समापन्नं महासत्वं लिखेत् पद्मप्रतिष्ठितम्
105.2
तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः ।
पद्मालोकादियोगेन महासत्वान् निर्वेशयेत्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0