भाषा

ENहिગુ
ग्रंथ पाठ

सनातनदेवीसूक्तम् · अध्याय 1

1

या परमेश्वरी सर्वभूतानां या च देवे व्यवस्थिता ।
चण्डिकारूपेण सा देवि मम पापं व्यपोहतु

2

नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम्

3

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः

4

अतिसौम्या अतिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः

5

या देवी सर्वभूतेषु विष्णुमात्रेति शब्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

6

या देवी सर्वभूतेषु चेतनेति अभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

7

या देवी सर्वभूतेषु परावाणीरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

8

या देवी सर्वभूतेषु निद्रारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

9

या देवी सर्वभूतेषु क्षुधारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

10

या देवी सर्वभूतेषु तृष्णारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

11

या देवी सर्वभूतेषु क्षान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

12

या देवी सर्वभूतेषु जातिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

13

या देवी सर्वभूतेषु शान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

14

या देवी सर्वभूतेषु ईशस्मृतिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

15

या देवी सर्वभूतेषु दयारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

16

या देवी सर्वभूतेषु तुष्टिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

17

या देवी सर्वभूतेषु तृप्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

18

या देवी सर्वभूतेषु तपश्चर्यारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

19

या देवी सर्वभूतेषु मातृरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

20

वागादि अगम्या महती त्रिपुरा सर्वकारणम् ।
तस्या यत् परमं रुपं सर्वास्न्तरतया स्थितम्

21

योगिश्रेष्ठा विजानन्ति बहिर्देशे नेतरे ।
तस्या यत् अपरं रूपं स्थूलं तत् सर्वगोचरम्

22

सा स्थूलरुपा अष्टादशभुजा सुरम्या सिंहसंस्थाना ।
ईहाशून्या अर्थितपदा स्वर्णवर्णा एधमाना

23

अनुत्तरा अनघा अनन्ता अद्भुतरूपा ।
अतिलोकचरित्रा राका अतिशुभ्रप्रदा

24

सकलचराचरवपुराद्या त्वं स्वास्स्श्रितलोका लोकगणा ।
नास्न्यत्किञ्चित्तव शरणं स्वं विभवं श्रित्वा ननु भासि

25

देवि प्रपन्नार्तिहरे प्रसीद, प्रसीद मातर्जगतोस्खिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य

मूल पाठ: sanātanadevīsūktam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc