भाषा

ENहिગુ
ग्रंथ पाठ

ॠणमोचनमहागणपतिस्तोत्रम् · अध्याय 1

1

श्रीगणेशायनमः॥
ॐ अस्य श्रीॠणमोचन महागणपतिस्त्रोत्र मंत्रस्य भगवान् शुक्राचार्याॠषि: ॠणमोचनगणपतिर्देवता ॠणमोचनार्थे जपे विनियोगः ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलं ॥
महाविध्नहरं सौम्यं नमामि ॠणमुक्तये

2

महागणपतिं देवं महासत्यं महाबलं ॥ महाविध्नहरं सौम्यं नमामि ॠणामुक्तये

3

एकाक्षरं एकदंतं एकब्रह्मसनातनं ॥ एकमेवारव्दितीयं च नममि ॠणामुक्तये

4

रक्तांबरं रक्तवर्णं रक्तंगधानुलेपनं ॥ रक्तपुष्पै: पूजामानं नमामि ॠणामुक्तये

5

कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनं ॥ कृष्णपुष्पै: पूज्यमानं नमामि ॠणमुक्तये

6

पीतांबरं पीतवर्णं पीतगंधानुलेपनं ॥ पीतपुष्पै: पूज्यमानं नमामि ॠणमुक्तये

7

धूम्रांबारं धूम्रवर्णं धूम्रगंधानुलेपनं ॥ धूम्रपष्पै: पूज्यमानं नमामि ॠणमुक्तये

8

सर्वांबरं सर्ववर्णं सर्वगंधानुलेपनं ॥ सर्वपुष्पै: पूज्यमानं नमामि ॠणमुक्तये

9

भद्रजातं च रुपं च पाशांकुशधरं शुभं ॥ सर्वविघ्नहरं देवं नमामि ॠणमुक्तये

10

यः पठेत् ॠणहरस्तोत्रं प्रातःकाले शुचिर्नरः ॥ षण्मासाभ्यंतरे चैव ॠणच्छेदो भविष्यति

इति श्रीब्रह्मांडपुराणे ॠणमोचनमहागणपतिस्तोत्रं संपूर्णम् ।

मूल पाठ: ṝṇamocanamahāgaṇapatistotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc