ग्रंथ पाठ
ऋग्वेद · अध्याय 10.187
10.187.01
प्राग्नये वाचम् ईरय वृषभाय क्षितीनाम् ।
स नः पर्षद् अति द्विषः ॥
10.187.02
यः परस्याः परावतस् तिरो धन्वातिरोचते ।
स नः पर्षद् अति द्विषः ॥
10.187.03
यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा ।
स नः पर्षद् अति द्विषः ॥
10.187.04
यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
स नः पर्षद् अति द्विषः ॥
10.187.05
यो अस्य पारे रजसः शुक्रो अग्निर् अजायत ।
स नः पर्षद् अति द्विषः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0