भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.183

10.183.01

अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् ।
इह प्रजाम् इह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥

10.183.02

अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् ।
उप माम् उच्चा युवतिर् बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥

10.183.03

अहं गर्भम् अदधाम् ओषधीष्व् अहं विश्वेषु भुवनेष्व् अन्तः ।
अहम् प्रजा अजनयम् पृथिव्याम् अहं जनिभ्यो अपरीषु पुत्रान् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc