ग्रंथ पाठ
ऋग्विधान · अध्याय 5.3
5.3.1
ऋग्वेदम्.वेत्ति.यः.साङ्गम्.ऋग्विधान.रतः.सदा.।
मनो.रथाद्.अप्य्.अधिकम्.भवेत्.तस्य.समीहितम्.॥
5.3.2
कुले.जन्मनि.शीले.वा.प्रज्ञायाम्.उद्यमे.अपि.च.।
ऋग्विधान.परिज्ञानाद्.उशन्ति.चरित.अर्थताम्.॥
5.3.3
तुष्यन्ति.देवताः.सर्वाः.सम्पद्यन्ते.विभूतयः.।
दुराधयः.प्रणश्यन्ति.नित्यम्.ऋग्.विधि.पाठिनाम्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0