भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 4.8

4.8.38

अनेन.एव.तु.सूक्तेन.राज्ञाम्.च.समलोहितम्.।
कारयेत.मणिम्.विद्वांस्.तावद्.एव.अनुमन्त्रणम्.॥

4.8.39

संग्रामेषु.ध्वज.अग्राणि.वादित्राण्य्.अनुमन्त्रयेत्.।
आसनानि.च.शय्याश्.च.यानानि.विविधानि.च.॥

4.8.40

तस्य.अभिचरतः.साक्षाद्.आङ्गिरस.ऋषेः.स्वयम्.।
प्रत्यङ्गिरस.कल्पेन.सर्वम्.तत्.प्रतिबाधते.॥

4.8.41

अमानुषीर्.अभिचरेत्.कृत्या.सूक्तम्.जपन्न्.इदम्.।
मुच्यते.सर्वतो.अनिष्टात्.किम्.पुनर्.मानुषाद्.भयम्.॥

4.8.42

तपस्वी.नियतो.दान्तः.प्रयोक्ता.चेद्.भवेद्.ऋषिः.।
सर्वम्.तरति.शान्त.आत्मा.तपो.हि.सुमहद्.बलम्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc