भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 4.27

4.27.137

आरिराधायषुर्.याम्.याम्.अभिधावेत.देवताम्.।
अभिरूपेण.सूक्तेन.यथा.आदिष्टम्.प्रयोजनम्.॥

4.27.138

ऋषीणाम्.मन्त्र.दृष्टेन.प्रत्यक्षा.सिद्धिर्.इष्यते.।
सर्वत्र.दक्षिणाम्.दद्याद्.धनम्.वा.कर्म.सिद्धये.॥

4.27.139

न.त्व्.एव.अदक्षिणम्.कर्म.किंचिद्.अस्ति.इति.शौनकः.।
शक्त्या.हि.पूर्ण.पात्रेण.सम्मिता.अप्य्.अन्ततो.भवेत्.॥

4.27.140

तस्मात्.स्वल्पा.अपि.दातव्या.दक्षिणा.कर्म.सिद्धये.।
ऋषभ.एकादशा.दद्याद्.येन.वा.तुष्यते.गुरुः.।

4.27.141

धर्मज्ञे.सत्य.वादिनि.ब्रह्म.दानम्.च.दीयते.॥
तद्.इदम्.परम्.ब्रह्म.गुह्यम्.पावनम्.अद्भुतम्.।

4.27.142

न.अप्रशान्ताय.दातव्यम्.न.अपुत्राय.अतपस्विने.।
न.असंवत्सर.उषिताय.न.अशिष्याय.अहिताय.च.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc