ग्रंथ पाठ
ऋग्विधान · अध्याय 4.16
4.16.81
गृहीतम्.यक्ष्मणा.दर्भान्.गृहीत्वा.संस्पृशन्.जपेत्.।
मुञ्चामि.त्वा.हविषा.इति.यक्ष्माणम्.अपकर्षति.॥
4.16.82
समिद्धम्.अगिम्.जुहुयाद्.आज्येन.एव.यथा.विधि.।
सम्पातम्.आज्ये.निनयेत्.सम्पातैश्.च.पयः.पिबेत्.॥
4.16.83
सम्पात.भाजने.सर्पिश्.चूर्णम्.तत्र.निधापयेत्.।
तत्र.अस्य.भोजनीयम्.स्यात्.पानीयम्.च.अनुमन्त्रितम्.॥
4.16.84
खादिराणि.च.काष्ठानि.चूर्णम्.कृत्वा.सह.अम्बुभिः.।
शोधयीत.रसम्.च.इषाम्.मध्व्.आज्याभ्याम्.पिबेत्.सह.॥
4.16.85
मुञ्चामि.त्वा.हविषा.इति.तत्र.तत्र.प्रयोजयेत्.।
यक्ष्माणम्.अपकर्षन्ति.शरीरात्.तेन.कर्मणा.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0