ऋग्विधान · अध्याय 4.14
सर्वत्र.लभते.श्रद्धाम्.मेधा.सूक्तम्.तथैव.च.।
ब्राह्मीम्.आसाद्य.सूक्ते.द्वे.जपेत.नियत.व्रतः.॥
ताम्.पिबेत्.तु.यथा.शक्त्या.त्र्यहात्.सिद्धिम्.नियच्छति.।
शङ्ख.पुष्पीम्.तु.पयसा.ब्राह्मी.पुष्पाणि.सर्पिषा.॥
शत.अवरीम्.तु.पयसा.वर्चाम्.अद्भिर्.घृतेन.वा.।(?)
सूक्ताभ्याम्.अनुमन्त्र्य.आभ्याम्.एक.एकाम्.त्र्यहम्.पिबेत्.॥
श्रद्धाम्.मेधाम्.स्मृतिम्.पुष्टिम्.बलम्.लक्ष्मीम्.च.विन्दति.।
सिद्धिम्.प्राप्नोति.च.पराम्.दीर्घम्.च.आयुः.समश्नुते.॥
अथवा.मनसा.ध्यायेत्.सूक्ते.सिद्धिम्.नियच्छति.।
शाम.इत्था.सपत्नघ्नम्.संग्रामम्.विजिगीषतः.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0