ग्रंथ पाठ
ऋग्विधान · अध्याय 2.4
2.4.17
रक्त.उष्णीष्य्.असि.पाणिश्.च.बैल्वक.इध्मो.निल.अशनः.।(?)
सप्त.अहम्.जुहुयात्.तैलम्.सार्षपम्.लवण.अन्वितम्.॥
2.4.18
समिधो.राज.वृक्षस्य.वसिष्ठ.द्वेषिणीः.पठन्.।
यम्.द्विष्यात्.तस्य.कृत्वा.तु.शम्याकेन.आकृतिम्.निशि.॥
2.4.19
अधिष्ठाय.च.ताम्.कुर्याद्.ऋग्भिश्.चतसृभिर्.द्विजः.।
उद्दिश्य.नाम.होमो.अयम्.सप्त.रात्रम्.न.जीवति.॥
2.4.20
वसिष्ठान्.अन्ततो.हन्ति.ब्रह्म.एतत्.कुशिक.उदितम्.।
न.अस्य.कश्चिद्.अवध्यो.अस्ति.जपतो.जुह्वतो.अपि.वा.॥
2.4.21
द्वाविंशकम्.जपेत्.सूक्तम्.आध्यात्मिकम्.अनुत्तमम्.।
पर्वसु.प्रयतो.नित्यम्.इष्टान्.कामान्त्.समश्नुते.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0