ऋग्विधान · अध्याय 2.15
ब्राह्मणान्.भोजयेद्.अत्र.कीनाशांश्.चैव.भोजयेत्.।
अप्रमत्तः.शान्ति.परः.स्वयम्.एव.कृषिम्.व्रजेत्.॥
भूमि.भङ्गो.गवाम्.हिंसा.तृण.कीट.आदि.नाशनम्.।
एतेषु.यत्.कृतम्.पापम्.खल.दानेन.शुध्यति.॥
धान्यानाम्.विंशकम्.भागम्.श्रोत्रियेभ्यो.निवेदयेत्.।
विंशकस्य.हि.दानेन.कृषि.दोषात्.प्रमुच्यते.॥
समुद्राद्.इति.सूक्तेन.यः.सदा.जुहुयाद्.घृतम्.।
पूर्व.उक्तेन.एव.कल्पेन.सम्यत.आत्मा.जित.इन्द्रियः.॥
वि.ज्योतिषा.इति.ज्वलयेद्.यत्र.इच्छेज्.जातवेदसि.।
तम्.अग्निः.सर्वतः.पाति.भद्रेण.द्रविणेन.च.॥
विश्वानि.न.इति.द्वाभ्याम्.ऋग्भ्याम्.यो.वह्निम्.अर्चति.।
स.तरत्य्.आपदः.सर्वा.यशः.प्राप्नोति.च.अक्षयम्.॥
हुत्वा.वह्नि.रूप.स्थेयः.प्राण.अर्थम्.हव्य.वाहनः.।
अग्ने.त्वम्.इति.सूक्तेन.धनम्.आयुश्.च.वाञ्छता.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0